पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[संसर्गः ४ ] रसिकप्रिया—रसमञ्जर्याख्यटीकाद्वयोपेतम् पानलयेन पुरः परिकल्प्य भवन्तमतीव दुरापम् । लिपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् । सावि०७ तिपदमिदमपि निगदति माधव तव चरणे पतिताहम् । विविमुखे मयि सपदि सुधानिधिरपि तनुते तनुदाहम् । सावि०८ कुर नवचूतशरं विधाय। अत्र चूतपुष्पधारणेन पूजोपयुक्ता । अनन्तरं प्रणाम मासूचित एव । पीडाकरे कामे स्वरक्षार्थमर्चनप्रणामयोरपि युतत्वमेव । अयं च तीसपरहिणीव्यापार उक्तः । तदुक्तं भरते- 'देवतापूजनं कुर्याद्द्याद्वलिभुजे बलिम् । मित्कान्तप्रतिकृतिं पाठयेच्छुकसारिकाः । गणयेच्चावधिदिनं गीतं गायेत्तदङ्कितम् । विविधविनोदेन नयेत्कालं वियोगिनी' ॥ च पुनः अधः वाहनदेशे मकरं विनिधाय । विशिः साङ्गोपाङ्गकामरूपं भवन्तं विधाय मा दहेति प्रणमति । अत्र लिखित्वा प्रणमतीति विकाराकव्ये विरहिणो हि कृत्याकृत्यज्ञा न भवन्तीति पौनःपुन्येन यत्र यत्र गच्छन्तीति नार्थम् । अत्रोपमालंकारः ॥ ६ ॥ अपि च । ध्यानलयेनेति । हे कृष्ण, भाकर मत्सखी भवन्तं विलिखति । किंविशिष्टं भवन्तम् । अतीव दुरापं दूतीप्रेष- मदिना दुरापं दुर्लभम् । किं कृत्वा विलिखति । ध्यानलयेन ध्यानैकाप्रतया अन्नम् मे परिकल्प्य । लिखित्वा च दृष्टो मयेति हसति । आश्लेषादिकं न करोतीति उतषीदति । तत्र कुरुतां नाम । प्रेम्णा दृष्टिमपि न प्रयच्छतीति रोदिति । दृष्टायामपि त्य सन्तोष इति चञ्चति स्थानात्स्थानान्तरं गच्छति । पुनरागत्य दृष्टश्वेत्सर्वमेव विष्यतीत्याशयेन तापं मुञ्चति इति । अत्र दीपकमलंकारः ॥ ७ ॥ प्रतिपद्- ति । हे माधव, सा मत्सखी प्रतिपदं प्रतिचरणन्यासं प्रतिस्थानं वा इदमेव किमिक भगवा या तथा प्रणमति । कुसुमशरो मकरवाहनस्त्वमेवासीलनेन चूतरूपपुष्पशरेण किमिति मां ल्पं नामयसीति प्रणम्य त्वां याचत इति भावः ॥ 'मृगनाभिर्मृगमदः कस्तुरीगन्धकेशरे' स्थान हारावलिः || ६ || ध्यानेति । ध्यानं चिन्तनं तत्र यो लयस्तत्परत्वं तेनातीवाति- वहनि दुरापं दुःखेन प्राप्यं भवन्तं पुरोऽये परिकल्प्य सा राधा विरुपति शठ, बलत्कालं याभिः सह क्रीडां कृतवानसि तत्रैव गच्छेत्यायुक्त्वा रोदिति । भाववशादा- मित्र ॥ऽप्यतिनिर्भर्त्सनात्को वेद पुनर्यातीत्यनुरागप्रकटनाय इसति । पश्चात्पुरः स्थितोऽप्ययं नर्दलमालिङ्गनादिना न संभाषयतीति विषीदति विषादं प्राप्नोति । पुनः कथमयं वश्यः विभुनादिति विचार्य रोदिति । यतो भाविकानां नायकस्य पुरतो रोदनं परमवशीकरणे शस्त इति । तदुक्तम्- 'रुदितमुदितमात्रं योषितां विग्रहेषु' इति । पश्चाद्रोदने तदौ- मरः स्वमालक्ष्य गच्छन्ती मामयमनुनेष्यतीत्यभिप्रायेण चञ्चति स्थानान्तरं गच्छति । सुषवादयानेनैव तत्सङ्गपरिकल्पनया तापं सुवति। किलकविताख्यो वायं हावः । तदुक्तं कि अरूपके - 'क्रोधाश्रुहर्षभीत्यादेः संकरः किलकिञ्चितम्" इति । इयमप्युन्मादाख्यावस्था असमकार श्वेह दीपकमिति । तदुक्तम् – 'सैव क्रियासु बहीषु कारकश्चेति दीपकम्' इति । नेभावार्थ:- बहीषु क्रियासु कारकस्य सद्वृत्तिरेव दीपकमिति ॥ ७ ॥ प्रतिपदमिति ! विपद मितस्ततश्चलन्ती पदं पदं प्रतिपदं निगदतिः । हे माधव, तव चरणेऽहं पतिता Digiced by Google 1 .