|
वहति च चलितविलोचनजलभरमाननकमलमुदारम्[१] । |
नीयम् । अनल्पविलासकलाकमनीयं बहुतरविलासरमणीयम् । किमिव । कुसुमिवि शिखशरतल्पं व्रतमिव । किमर्थम् । तव परिरम्भसुखाय । अन्योऽपि सुखैषी व्रतमाचरति दुर्लभभवदाश्लेषावाप्त्यै स्मरेण दूयमाना सा दुष्करं तस्यैव शरशय्याव्रतमाचरतीत्यर्थः अत्रोत्प्रेक्षालंकारः ॥ ४ ॥ वहतीति । सा आननकमलं वहति । किंभूतम् । चलित 'विलोचनजलभरम् । चलितः संभक्त: विलोचनेन जलभरो यत्र । वा चलिते संभक्ते विलोचने जलभरेण यत्र । अथवा चलितविलोचन एव जलभरो मेषो यत्रेति पाठः । किंविशिष्ट आननकमलम् । उदारं मनोहरम् । कमिव । विधुमिव । किंभूतं विधुम् । विकटा विकराल विधुंतुददन्तास्तैर्दलनेन पीडनेन गलितामृतधारा यस्मिन् । अनेन भवद्विरहेणानवरत रुदत्या मुखमिन्दुकान्तिं बिभर्तीत्याशयः । असितवर्णमभूदित्यर्थः । अत्रोपमालंकार: ॥ ५ ॥ अपि च । विलिखतीति । हे कृष्ण, सा मत्सखी रहसि एकान्ते कुरङ्गमदेन भवन्तं विलिखति । किंभूतं भवन्तम् । असमशरभूतं कुसुमशरतामापत्रम् त्वामेव दुर्लभत्वात् दाहकत्वेन कुसुमशरोऽयमिति बुद्धया । किं कृत्वा विलिखति
मशयनीयं पुष्पशय्यां करोति रचयति । कीदृशम् । अनल्पविलासकलायां बहुतरक्री टाकंलायां कमनीयं काङ्क्षणीयम् । दैवस्य गतिं ज्ञातुं शक्यते । को वेदाकस्मादेव भगवान नागच्छतीत्याशयेन कुसुमशय्याख्यत्वन्मार्ग एकनिष्ठेव तिष्ठतीति भावः । किमिव करोति । कुसुमविशिखः कामस्तस्य ये शराः कुसुमस्वरूपास्तेषां तल्पं शय्या तत्र तत्स्वरूपं व्रतमिव । तव परिरम्भसुखाय तवालिङ्गनजन्यसुखप्राप्तये करोति । 'तल्पं च शयनीये स्यात्तुल्यवृन्दकलत्रयोः' इति विश्वः । एतैस्त्रिभिः पदैरुद्वेगाख्या प्रपश्यावस्था कथिता । तल्लक्षणं प्रागेवोक्तम् ॥ ४॥ वहतीति । सा उदारमाननकमलं श्रेष्ठं मुखपद्मं वहति धारयति। कीदृशम् । वलिते त्वन्मार्गविलोकनाय तिर्यक्प्रसारिते विलोचने नेत्रे एव जलधरौ मेघौ यत्र तादृशम् । अत्र निरन्तराश्रुवर्षित्वेन नेत्रयोर्जलधरत्वेन निरूपणम् । कमिव विधुमिव । कीदृशं विधुम् । विकटाः कराला विशाला वा ये विधुन्तुदस्य राहोर्दन्तास्तैर्दलनं खुण्डनं तस्माद्गलिता प्रच्युतामृतस्य धारा यत्र तादृशम् । अत्र मुखस्य विधुन नेत्रजलस्य वामृतधारारूपसादृश्याद्वाक्यार्थोपमा बोध्या । 'विकटः सुन्दरे प्रोक्तो विशालविकरालयो:' इति विश्वः । 'तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुंतुदः" इत्यमरः इयं चोन्मादाख्या सप्तमावस्था । तदुक्तं शृङ्गारतिलके-'श्वासः प्रणोदनोत्कम्पवसुधाश्लेषणैरपि । व्यापारो जायते यत्र स उन्मादः स्मृतो यथा ॥' इति ॥ ५ ॥ किं च विलिखतीति । रहस्येकान्ते कुरङ्गमदेन कस्तूर्या भवन्तं विलिखति । कीदृशम् । असमशरभूतं कामस्वरूपिणं तव करे नवचूतं शरं निधाय तवाधः आसनस्थाने मकरं निधाय
- ↑ १ 'बलितविलोचनजलधरम्' इति पाठः ।