पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• गीतगोविन्दकाव्यम् वहति च चलितविलोचनजलभरमाननकमलमुदारम् विधुमिव विकट विधुन्तुददन्तदलनगलितामृतारम् विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतम् । प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम् ॥ सा वि० नीयम् । अनल्पविलासकलाकमनीयं बहुतरविलासरमणीयम् । किमिव । कुसुमि शिखशरतल्पं व्रतमिव । किमर्थम् | तव परिरम्भसुखाय । अन्योऽपि सुखैषी व्रतमाचरति = दुर्लभभवदाश्लेषावात्यै स्मरेण दूयमाना सा दुष्करं तस्यैव शरशय्याव्रतमाचरतीत्यर्थः अत्रोत्प्रेक्षालंकारः ॥ ४ ॥ वहतीति । सा आननकमलं वहति । किंभूतम् । चलित विलोचनजलमरम्। चलितः संभक्तः विलोचनेन जलभरो यन्त्र । वा चलिते संभक्ते विलो चने जलभरेण यत्र । अथवा चलितविलोचन एव जलभरो मेषो यत्रेति पाठः । किंविशिष्ट आननकमलम् । उदारं मनोहरम् । कमिव । विभुमिव । किंभूतं विभुम् । विकटा विकराल विधुंतुददन्तास्तैर्दनेन पीडनेन गलितामृतधारा यस्मिन् । अनेन भवद्विरहेणानवरत रदत्या मुखमिन्दुकान्ति बिभर्तीत्याशयः । असितवर्णमभूदित्यर्थः । अत्रोपमालंकार ॥ ५ ॥ अपि च । विलिखतीति । हे कृष्ण, सा मत्सखी रहसि एकान्ते कुरङ्गमदेन भवन्तं विलिखति । किंभूतं भवन्तम् । असमशरभूतं कुसुमशरतामापत्रम् त्वामेव दुर्लभवात् दाहकत्वेन कुसुमशरोऽयमिति बुद्धया । किं कृत्वा विलिखति [सर्गः | ॥ सावि० मशयनीयं पुष्पशय्यां करोति रचयति । कीदृशम् । अनल्पविलासकलायां बहुतरकी टाकलायां कमनीयं काङ्क्षणीयम् । दैवस्थ गति ज्ञातुं शक्यते । को वेदाकस्मादेव भगवा नागच्छतीत्याशयेन कुसुमशय्याख्यत्वन्मार्ग एकनिष्ठेव तिष्ठतीति भावः । किमिक करोति । कुसुम विशिखः कामस्तस्य ये शराः कुसुमस्वरूपास्तेषां तल्पं शय्या तत्र तत्स्वरूपं व्रतमिव । तव परिरम्भसुखाय तवालिङ्गनजन्य सुखप्राप्तये करोति । 'तल्पं चा शयनीये स्यात्तुल्यनृन्दकलत्रयोः' इति विश्वः । एतैखिभिः पदैरुद्वेगाख्या प्रपथावस्था क थिता । तल्लक्षणं भागेदोक्तम् ||४|| बहतीति | सा उदारमाननकमलं श्रेष्ठं मुखपद्मं वहति भारयति । कीदृशम् । वलिते त्वन्मार्गविलोकनाय तिर्यक्प्रसारिते विलोचने नेत्रे एव जलपरी मेघौ यत्र तादृशम् । अत्र निरन्तरानुवर्षित्वेन नेत्रयोर्जलपरत्वेन निरूपणम् । कमिव विभुमिव । कीदृशं विधुम् । विकटाः कराला विशाला वा ये विधुन्तुदस्य राहोर्दन्तास्तैर्दलना खुण्डनं तस्माद्गलिता प्रच्युतामृतस्य धारा यत्र तादृशम् । अत्र मुखस्य विधुन नेत्रजलस्य वामृतधारारूपसादृश्याद्वाक्यार्थोपमा बोध्या । 'बिकट: सुन्दरे प्रोको विशाल विकरालयोः” इति विश्वः । 'तमस्तु राहुः स्वर्भानुः सैहिकेयो विधुंतुदः' इत्यमरः इयं चोन्मादाख्या सप्तमावस्था । तदुक्तं शृङ्गारतिलके --- 'श्वासः प्रणोदनोत्कम्पवसुधा श्लेषणैरपि । व्यापारो जायते यत्र स उन्मादः स्मृतो यथा ॥” इति ॥ ५ ॥ किं च विलिखतीति । रहस्येकान्ते कुरङ्गमदेन कस्तूर्या भवन्तं विलिखति । कीदृशम् । असम शरभूतं कामस्वरूपिणं तब करे नवचूतं शरं निधाय तवाधः आसनस्थाने मकरं निधाय - १ 'वलितविलोचनजलधरम्' इति पाठः । Digitized by Google