पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४]

रसिकप्रिया–रसमञ्जर्यख्यटीकाद्वयोपेतम्

६९

अविरलनिपतितमदनशरादिव भवदवनाय विशालम्।

खहृदयमर्मणि वर्मकरोतिसजलनलिनीदलजालम्॥ सा वि० ३ कुसुमविशिखशरतल्पमनल्पविलासकलाकमनीयम्॥ ब्रतमिव तव परिरम्भसुखाय करोति कुसुमशयनीयम्॥सा वि०४ कामशरभीत्येव ॥ यथा लवामन्तरा स्थितायां ते कामशरास्त्वय्येव पतन्ति न तस्या

मिति बुद्धयेति भाव: ॥ किंविशिष्टा सा। तव विरहे सति दीना दैन्यमाप्ता ॥इति धुवः॥ अत्रोत्प्रेक्षालंकार: ॥ किं किं करोति तत्कर्माह ॥ चन्दनं निन्दति चन्दनस्य निन्दां करोति ॥ स्मराह्लादकत्वाद्विपक्षपक्षमाश्रितमिवाभातीति ॥ तत एव इन्दुकिरणमनु खेदं विन्दतिलभते। कथम्।अधीरं यथा भवति तथा । अधीरमितिचन्दनविशेषर्ण वा ॥ अधिकईरयति प्रेरयति कामशरानिति निन्दार्थ:॥अपि च ॥ मलयानां व्यालनिवासानां समीरं गरलमिव कलयति ॥ केन हेतुना ॥ व्यालनिलयमिलनेन व्यालनिलयानां व्यालनिवासानां चन्दनानां मिलनेन सङ्कात् ॥ अत्र रूपकोत्प्रेक्षाविरोधालंकारा: ॥ २॥ ध्यानादेकतामापन्नत्वं प्रकटयति-अविरलेति ॥ सा सजलनलिनीदलजालं

खहृदयमर्मणि वर्म करोति ॥ किंभूतं तत् । विशालम् । उत्प्रेक्षते ॥ अविरलनिप तितमदनशराद्भवद्वनायेव ॥ अविरलं निपतितं निपातो येषां ते च ते मदनशराश्ध ॥

जातावेकवद्भावदेकवचनम्॥ लवय्यासत्कतया लवयि मृतेऽहमेव मृतेति हृदयमर्मखं ख

य्येवं विधाय भवदवनायेतियुक्तम्। खहृदयमर्मणि भवदवनाय भवद्रक्षणाय सजलनलि नीदलजालंपिधानमिव करोति हृदयान्मा निरगादिति बुद्धयेति युक्तिलेशः ॥ उत्प्रेक्षालं

कार: ॥३॥ कुसुमेति ॥ सा कुसुमशयनीयं कुसुमशय्यां करोति ॥ किंभूतं कुसुमशय निन्दति ॥ अथच इन्दुकिरणमनुलक्षीकृत्याधीरमल्पं खेदं दुःख विन्दति प्राशोति ॥ मल यसमीरजं। मलयपर्वतसंबन्धिने वातं व्यालनिलयमिलनेन व्यालानां सपौणां निलयो निवासश्चन्दनवृक्षस्तस्य मिलनेन संसगेंण गरलमिव विषमिव कलयति मन्यते । चन्दनवृक्ष

स्थितै: सर्प: पीतोद्वीणी: । एतेन मलयजवायवोSत एव विषमया: कथमन्यथा शरीरसं

पकादेव मूच्छी मे जनयन्तीति मन्यत इति भावः । कुतस्तथा मन्यत इत्यतो हेतुगर्भ

विशेषणमाह-दीनेति ॥ दीना दुःखिता ॥ तथा च दुःखितस्य सुखहेतुरपि दुःखायिव भवतीति भाव: ॥ पुन: कीदृशी ॥ भावनया ध्यानेन त्वयि लीना मझा ॥ कस्मादिव ॥ मनसिजस्य कामस्या ये विशिखा बाणास्तद्धयादिव ॥ ‘व्यालो भुजङ्गमे प्रोक्त: श्धापदेदुष्टद

न्तिनि’ इति विश्धः। ‘गरलं तु विषे मानेगरले तृणपूरके’इतिच ॥ २ ॥ अविरलेति। सा स्वहृदयरूपमर्मस्थाने विशालं सजलनलिनीदलजालं जलसहितं कमलिनीपत्रसमूह वर्म कवचं करोति ॥ किमर्थमिव ॥ अविरलं. यथा स्यादेवं निपतितो यो मदनशर: कामबाणस्तस्माद्भवदवनाय भवतो रक्षणायैव ॥ तस्या त्टदये त्वं सर्वदा तिष्ठसि अतोsवि

रतनिपतद्धिर्मदनशरैस्ते पीडा मा भूदत पद्मिनीपत्रैस्ते सन्नाहमिव सा करोतीति भावः॥ केचिचु-कीदृशं। वर्म। अविरलनिषतितमदनशरादवनाय स्वरक्षणाय भवदिव संपद्यमान

मिबेति व्याकुर्वन्ति ॥ ‘अवनं रक्षणे प्रीतौ’इति विश्धः॥ ३ ॥ कुसुमेति ॥ सा कुछ