पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[क सर्गः ३] किंभूते । सुधासारे सुधादीनां सारे । वा सुधायाः सारे । पुनः किंभूताः । वंशोश्चर- हीसिस्थानकृतावधानललनालक्षैर्न संलक्षिताः । वंशे उच्चरयद्दीप्तिस्थानं तारस्वरस्थानं तत्र कृतमवधानं याभिस्तास्तथा ताच ता ललनाश्च तासां लक्षाणि तैः । चतुर्ष्वपि ख स्थानेषु रागालसौ क्रियमाणायां क्रमेण दीप्तस्थानारोहे कोऽप्यतिशयो जायत एव । तत्र दत्तावधानत्वात् वल्गुखने प्रियकटाक्षादपि प्रियत्वादित्यर्थः । किंभूतस्य मधुसूदनस्य | तिर्यकण्ठविलोम्मौलितरलोत्तंसस्य | तिर्यकण्ठो यस्यासौ तिर्यकण्ठः । विलोलश्वासौ मौ- लिश्च । विलोलमौलिना तरलादुत्तंसौ कर्णभूषणे यस्य स तथा । तिर्यकण्ठश्चासौ बिलो- लमौलितरलोत्तंसश्च स तस्य । अत्र मौलिशब्दस्य शिरः किरीटयोः समानवाचकत्वेऽपि S वेणुवादकस्य शिरःकम्पितादिदोषपरिजिहीर्षया किरीटे पर्यवसानम् । शीष्णि अकम्पिते किरीटकम्पनं वैचित्र्यायेति । शार्दूलविक्रीडितं वृत्तम् । रूपकमलंकारः ॥ १६ ॥ रागो गौडाकृतिर्यत्र प्रतिमण्ठपुरस्कृतः । आभोगान्ते तथा पाटखरैः पद्यगणाश्चितः ॥ शृङ्गाररससंपूर्णकृष्णकेलिविराजितः । मुग्धमधुसूदनाख्यो हंसक्रीडननामतः ॥ श्रीगोविन्दपदारविन्दमकरन्दाखादचञ्च द्विरे- फेण श्रीनृपसिंहमोकलकुलाम्भोजप्रकाशेन्दुना । श्रीमत्कुम्भनृपेण कॢप्तविवृतौ श्रीगीतगोविन्दके सङ्गीतक्रमदीपिकास्वसुरयं सर्गस्तृतीयो गतः ॥ इति मुग्धमधुसूदनहंसक्रीडननामा सप्तमः प्रबन्धः ॥ ७ ॥ इति श्रीगुर्जरधरित्रीपरिढपराजयप्रसरत्प्रतापशोषिताशेषयवनपलवलेन राजाधिराजश्रीकुम्भकर्णेन विरचिते गीतगोविन्दविवरणे • मुग्धमधुसूदनो नाम तृतीयः सर्गः ॥ ३ ॥ $ 5. रसिकप्रिया--रसमञ्जर्याख्यटीकाद्वयोपेतम् संमुग्धे मधुसूदनस्य मधुरे राधामुखेन्दौ सुधा- सारे कन्दलिताथिरं दधतु वः क्षेमं कटाक्षोर्मयः ॥ १६ ॥ इति श्रीगीतगोविन्दे मुग्धमधुसूदनो नाम तृतीयः सर्गः ॥ ३ ॥ - अप्युद्विग्नमपारकर्मणि लसत्तृष्णाभुजङ्गीविष- ज्वालालीढमपि व्यसन्यपि सदा संशुष्कतकोंक्तिषु । मच्चेतो मुरवैरिसद्गुणसुधासिन्धाविहानुक्षणं सम्यक्लापयता न मय्युपकृतं किं शालिनाथ त्वया ॥ इति श्रीमहामहोपाध्याय श्रीशंकर मिश्रविरचितायां श्रीशालिनाथकारितायां गीतगोविन्दटीकायां रसमञ्जर्याख्यायां तृतीयः सर्गः ॥ ३ ॥ 'मृदुस्यन्दं' इति पाठः । Google Dgilized by