सामग्री पर जाएँ

पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ३]
६३
रसिकप्रिया--रसमञ्जर्याख्यटीकाद्वयोपेतम्

संमुग्धे मधुसूदनस्य मधुरे राधामुखेन्दौ सुधा-[]
         सारे कन्दलिताश्चिरं दधतु वः क्षेमं कटाक्षोर्मयः॥१६॥

इति श्रीगीतगोविन्दे मुग्धमधुसूदनो नाम तृतीयः सर्गः ॥३॥


किंभूते । सुधासारे सुधादीनां सारे । वा सुधायाः सारे । पुनः किंभूताः । वंशोञ्चर- द्दीप्तिस्थानकृतावधानललनालक्षैर्न संलक्षिताः । वंशे उच्चरद्यद्दीप्तिस्थानं तारस्वरस्थानं तत्र कृतमवधानं याभिस्तास्तया ताश्च ता ललनाश्च तासां लक्षाणि तैः । चतुर्ष्वपि खस्थानेषु रागालप्तौ क्रियमाणायां क्रमेण दीप्तस्थानारोहे कोऽप्यतिशयो जायत एव । तत्र दत्तावधानत्वात् वल्गुखने प्रियकटाक्षादपि प्रियत्वादित्यर्थः । किंभूतस्य मधुसूदनस्य । तिर्यक्कण्ठविलोलमौलितरलोत्तंसस्य । तिर्यक्कण्ठो यस्यासौ तिर्यक्कण्ठः । विलोलश्चसौ मौलिश्च | विलोलमौलिना तरलावुत्तंसौ कर्णभूषणे यस्य स तथा । तिर्यक्कण्ठश्चसौ विलोलमौलितरलोत्तंसश्च स तस्य । अत्र मौलिशब्दस्य शिरः किरीटयोः समानवाचकत्वेऽपि वेणुवादकस्य शिरः कम्पितादिदोषपरिजिहीर्षया किरीटे पर्यवसानम् । शीर्ष्णि अकम्पिते किरीटकम्पनं वैचित्र्यायेति । शार्दूलविक्रीडितं वृत्तम् । रूपकमलंकारः ॥ १६ ॥

रागो गौडाकृतिर्यत्र प्रतिमण्ठपुरस्कृतः ।
आभोगान्ते तथा पाटखरैः पद्यगणाञ्चितः ॥
शृङ्गाररससंपूर्णकृष्णकेलिविराजितः ।
मुग्धमधुसूदनाख्यो हंसक्रीडननामतः ॥
श्रीगोविन्दपदारविन्दमकरन्दाखादचञ्चव्द्दिरे-
फेण श्रीनृपसिंहमोकलकुलाम्भोजप्रकाशेन्दुना ।
श्रीमत्कुम्भनृपेण कॢप्तविवृतैौ श्रीगीतगोविन्दके
सङ्गीतक्रमदीपिकास्वसुरयं सर्गस्तृतीयो गतः ॥
इति मुग्धमधुसूदनहंसक्रीडननामा सप्तमः प्रबन्धः ॥ ७ ॥

इति श्रीगुर्जरधरित्रीपरिवृढपराजयप्रसरत्प्रतापशोषिताशेषयवनपल्वलेन
राजाधिराजश्रीकुम्भकर्णेन विरचिते गीतगोविन्दविवरणे
मुग्धमधुसूदनो नाम तृतीयः सर्गः ॥ ३ ॥


अप्युद्विग्नमपारकर्मणि लसत्तृष्णाभुजङ्गीविष-
ज्वालालीढमपि व्यसन्यपि सदा संशुष्कतर्कोक्तिषु ।
मच्चेतो मुरवैरिसद्गुणसुधासिन्धाविहानुक्षणं
सम्यक्स्नापयता न मय्युपकृतं किं शालिनाथ त्वया ||
इति श्रीमहामहोपाध्यायश्रीशंकरमिश्रविरचितायां श्रीशालिनाथकारितायां
गीतगोविन्दटीकायां रसमञ्जर्याख्यायां तृतीयः सर्गः ॥ ३ ॥




  1. १'मृदुस्यन्दं' इति पाठ: ।