पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२ गीतगोविन्दकाव्यम् [सर्गः ३ सा बिम्बाघरमाधुरीति विषयासङ्गेऽपि चेन्मानसं . तस्यां लग्नसमाधि इन्त विरहव्याधिः कथं वर्धते ॥ १५॥ तिर्यक्कुण्ठविलोलमौलितरलोतंसस्य वंशोचर- दीप्तिस्थानकृतावधानललनालक्षैर्न संलक्षिताः । t i विरहव्याधिः कथं वर्धते । समाधी व्याधेरनुद्भवात् । प्रियास विरहानुपपत्तेश्च । इतीति किम् । तानि स्पर्शसुखानि सन्ति । अप्रत्यक्षायामपि तस्यां ध्यानवशादनुभूय- मानानीव । एवं सर्वत्र | अपि च तरलाञ्चञ्चलाः स्निग्धाः प्रेमा दृशोर्विभ्रमा विलासास्त एव । वाम्बुजसौरभं तदेव । अपि च सुधास्यन्द्यमृतस्रावी गिरां व क्रिमा वैदग्ध्यविशेषः स एव । अपि च बिम्बाधरमाधुरी बिम्बाधरसौकुमायें तदेव । यत्पूर्वानुभूतं तदेवेति विषयलाभेऽपि विरहो वर्धत इति तस्य वामता । शार्दूलविक्री- डितं छन्दः । समुच्चयोऽलंकारः । रसादि प्रसिद्धम् ॥ १५ ॥ इदानीं सर्वार्थसंवरण- व्याजेनाशिषमाशास्ते – तिर्यक्कण्ठेति । मधुसूदनस्य कटाक्षोर्मंयो वो युष्मभ्यं क्षेमं ददतु । ऊर्मयो वेगा लेखा वा । कटाक्षाणामूर्मयः कटाक्षोर्मयः । 'ऊर्मिः पीडालवो- त्कण्ठाभङ्गिप्राकाश्यवीचिषु । वस्त्रसङ्कोचलेखायाम्' इति । किंलक्षणाः । राधामुखेन्दौ प्रेम्णा कन्दलिता उपरागं गमिताः । 'कन्दलं तु नवाङ्करे । कलध्वनानुपरागे च' इति । किंविशिष्टे मुखेन्दौ । संमुग्धे मधुरे । सम्यक् मुग्धं संमुग्धं संमुग्धं च तन्मधुरं च तत्त- स्मिन् । रम्ये नवप्रिये । 'मुग्धं मूर्खो तथा रम्ये' इति । 'मधुरस्तु प्रिये खादौ' इति । पुनः राधो न वा स्मरस्य, किंतु तदङ्ग स्पर्शादिविषयालाभाचालं त्वचेतस्त्वां दुःखाकरोतीति भावनया पुरःस्थितां मत्वाह तानीति | स्पर्शसुखानि तदङ्गस्पर्शजन्यानि सुखानि इदानीमनुभूयमानानि सान्येव पूर्वानुभूतान्येव । एतेन त्वगिन्द्रियविषयलाभः क थितः । दृशोनेंत्रयोस्तरलाश्चचलाः सिग्धाः खेहगर्भा विभ्रमा विलासात एव । अनेन चक्षुर्विषयलाभ उक्तः । तस्या वक्त्राम्बुजसौरभं मुखपद्मसौरमं तदेव । अनेन म्राणस्य विषयप्राप्तिक्ता गिरां तद्वचसां सुधास्यन्दी सुधाममृतं स्यन्दते स्रवतीत्ये- वंशीलो बक्रिमा वक्रत्वमिदानीं श्रोत्रेण प्राशमाण: स एव पूर्वानुभूत एव । अनेन श्रोत्रेन्द्रियविषयसान्निध्यमुक्तम् । बिम्बाधरमाधुरी तस्या बिम्बफलप्राययोरधरवोरोष्ठयोर्मा- धुरी मधुरताधुना मयास्वाद्यमानैव पूर्वानुभूतैव । अनेन रसनेन्द्रियस्य विषयलाभ उक्तः । इत्येवंप्रकारेण विषयासङ्गेऽपि स्वस्वविषयसंबन्धेऽपि मानसं यत्तस्यां राधायां लमसमाधि तदेकामं यदि । इन्तेति खेदे । तदा विरहव्याधिः कथं वर्धते । अपिशब्दो विरोधाभासालंकारसूचनार्थः । बालेन्द्रियविषयासङ्गे समाधेरसंभवात् । नाझेन्द्रियवृत्ति- निरोधे सति मनस एकाग्रत्ताया एव समाधिशब्दार्थस्वात् । तथाच तत्तदिन्द्रियाणां स्वस्वा- भिमतविषयालाभे एव विरहः संभवति । मम च तत्तदिन्द्रियाणां विषयविच्छेदस्याभावा- न्मनसस्त्रचिन्तनैकपरत्वात्तया सह. विशेष एव नास्तीति कथं विरहजन्यव्याधिसंभव इति भावः । 'गन्धरूपरसस्पर्शशब्दाश्च विषया अमी' इत्यमरः ॥ १५ ॥ 1 4 १ अस्य लोकस्य व्याख्यानं रसमअर्याख्यटी कादर्शपुस्तके नोपलभ्यते । २ श्री- तस्थान' इति पाठः । Dgilized by Google