पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खर्गः ३] रसिकप्रिया – रसमञ्जर्याख्यटीकाद्वयोपेतम् भ्रूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां श्यामात्मा कुटिल: करोतु कबरीभारोऽपि मारोद्यमम् । मोहं तावदर्यं च तन्वि तनुतां विम्बाधरो रागवान् सद्वृत्त: स्तनमण्डलस्तव कथं प्राणैर्मम क्रीडति ॥ १४ ॥ तानि स्पर्शसुखानि ते च तरलाः स्निग्धा दृशोर्विभ्रमा- स्वाम्बुजसौरभं स च सुधास्यन्दी गिरी वक्रिमा । त्ततया न क्रियते । तद्गतिस्तु पूर्वपदे दर्शितप्रायेति ॥ १३ ॥ इदानीं ध्यानमिलितां राधां संभावयन्नाह -भ्रूचाप इति । हे तन्वि, भ्रूचापे निहित आरोपितः कटाक्ष एव विशिखो बाणो मर्मव्यथां निर्मातु । यतश्चापारोपितबाणस्य मर्मवेधो युक्त एव । अपि च । कबरीभारोऽपि मारोग्रमं मारायोद्यमं करोतु नाम । यतः श्यामात्मा कुटिलच । श्यामात्मनामन्तर्मलिनचित्तानां च मारणं खभाव एव । अपि च अयं रागवान्बिम्बाधरो मोहं तनुताम् । अस्याप्येवंविधस्य मोहविधाने औचिती । परंतु तव सद्वृत्तः स्तनमण्डलः स मम प्राणैः कथं क्रीडति । इयमस्यानौचिती । यतः सदाचारवतां परप्राणविशसनं न कापि दृष्टमिति भावः । अत्र विरोधालंकारः । शार्दूलविक्रीडितं छन्दः ॥ १४ ॥ इदानीं यत्रोक्त्या स्वगतत्वेन बिरहवामतां वदति- तानीति । हन्त इति खेदे । विषयासङ्गेऽपि मानसं चेत्तस्यां लमसमाधि तर्हि स्यात्सतावंसप्रभेदयोः” इति विश्वः ॥ १३ ॥ संप्रति राधाकृविलसितान्येव स्मरणरू- पाणि मां पीडयन्तीति तस्या एवोपालम्भनं करोमीत्याशयेन काममुपेक्ष्य तां च स्थिता-- मित्र शात्वा राधां संगोध्याइ-ब्रूचाप इति । भूचापे भूरूपे धनुषि निहितोऽर्पितो यः कटाक्षविशिखः कटाक्षबाणो मर्मव्यथां मर्मपीडां निर्मातु करोतु । धनुष्यारोपितस्य वाणस्य परमर्मपीडनमेव धर्म इति तदुचितमेव अथ च तब कुहिलो वक्रः श्याम आत्मा स्वरूपं च यस्यैतादृशः कारीभारोऽपि प्रथिसवेणीकेशसंचयोऽपि मारोधमं मारणायोद्योगं पराक्रमं करोतु । यद्वा मारस्य कामस्योद्यमं करोतु । योऽन्तर्मलिनः कु- ढिलश्च भवति सोऽन्यमारणाय यतत इत्यपि नानुचितम् । अथ च हे तन्वि, अयं विम्बा- घरो बिम्बफलठुल्योऽधरो मोहं मूर्च्छा तनुतां तनोतु । कीदृशः रागवान्रकतावि- शिष्टः । इदमपि नानुचितम् । यतो यो रागवान्मात्सर्ययुक्तः स परमोहं करोत्येन । अयं तब सुवृत्तो वर्तुलः स्तनमण्डल: कुचबिस्तारो मम प्राणैः कथं किमिति क्रीडति प्राणग्रहणरूपां क्रीडां किमिति करोति । सद्वृत्तस्य सञ्चरितस्य परप्राणग्राहित्यमनुचितमि- ति भावः । विरोधनामायमलंकारः । सद्वृत्तत्वरूपगुणस्य परप्राणग्रहणक्रियया निरोधकथ- नात् । तदुक्तं काव्यप्रकाशे– 'विरोध: सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः' इति । 'वि- शिखस्तोमरे शरे' इति विश्वः । 'श्यामो निन्दितकृष्णयोः' इति धरणिः । 'आत्मा देहम- नोब्रह्मस्वभावधृतिबुद्धिषु' इति विश्वः । 'बिम्बं फले बिम्बिकायाः प्रतिबिम्बेऽर्कमण्डले ' इति च । 'रागोऽनुरक्तमात्सर्ये' इति च । 'वृत्ते तु वर्तुलं वृतम्' इति शाश्वत: । 'कबरी केशवेश' इत्यमरः । 'मारो मृती विषेशन' इति विश्वः ॥ १४ ॥ ननु तस्यापि नाप- ६ Digifliced by Google