सामग्री पर जाएँ

पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्ग:३]
६१
रसिकप्रिया- रसमञ्जर्याख्यटीकाद्वयोपेतम्

भ्रूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां
       श्यामात्मा कुटिलः करोतु कबरीभारोऽपि मारोद्यमम् ।
मोहं तावदयं च तन्वि तनुतां विम्बाधरो रागवान्
       सदृत्तः स्तनमण्डलस्तव कथं प्राणैर्मम क्रीडति ॥ १४ ॥
तानि स्पर्शसुखानि ते च तरलाः स्निग्धा दृशोर्विभ्रमा-
       स्तद्वक्राम्बुजसौरभं स च सुधास्यन्दी गिरां वक्रिमा |


त्ततया न क्रियते । तद्गतिस्तु पूर्वपदे दर्शितप्रायेति ॥ १३ ॥ इदानीं ध्यानमिलितां राधां संभावयन्नाह - भ्रूचाप इति । हे तन्वि, भ्रूचापे निहित आरोपितः कटाक्ष एव विशिखो बाणो मर्मव्यथां निर्मातु । यतश्चापारोपितबाणस्य मर्मवेधो युक्त एव । अपि च । कबरीभारोऽपि मारोद्यमं मारायोद्यमं करोतु नाम । यतः श्यामात्मा कुटिलश्च । श्यामात्मनामन्तर्मलिनचित्तानां च मारणं स्वभाव एव । अपि च अयं रागवान्बिम्बाधरो मोहं तनुताम् । अस्याप्येवंविधस्य मोहविधाने औचिती । परंतु तव सद्वृत्तः स्तनमण्डलः स मम प्राणैः कथं क्रीडति । इयमस्यानौचिती । यतः सदाचारवतां परप्राणविशसनं न कापि दृष्टमिति भावः । अत्र विरोधालंकारः । शार्दूलविक्रीडित छन्दः ॥ १४ ॥ इदानीं वक्रोक्त्या स्वगतत्वेन विरहवामतां वदति-तानीति । हन्त इति खेदे । विषयासङ्गेऽपि मानसं चेत्तस्यां लग्नसमाधि तर्हि


स्यात्सत्क्तावंसप्रभेदयोः' इति विश्वः ॥ १३ ॥ संप्रति राधाङ्गविलसितान्येव स्मरणरूपाणि मां पीडयन्तीति तस्या एवोपालम्भनं करोमीत्याशयेन काममुपेक्ष्य तां च स्थितामिव ज्ञात्वा राधां संबोध्याह -भ्रूचाप इति । भ्रूचापे भ्रूरूपे धनुषि निहितोऽर्पितो यः कटाक्षविशिखः कटाक्षबाणो मर्मव्यथां मर्मपीडा निर्मातु करोतु । धनुष्यारोपितस्य बाणस्य परमर्मपीडनमेव धर्म इति तदुचितमेव । अथ च तव कुटिलो वक्रः श्याम आत्मा स्वरूपं च यस्यैतादृशः कबरीभारोऽपि ग्रथितवेणीकेशसंचयोऽपि मारोद्यमं मारणायोद्योगं पराक्रमं करोतु । यद्वा मारस्य कामस्योद्यमं करोतु । योऽन्तर्मलिनः कुटिलश्च भवति सोऽन्यमारणाय यतत इत्यपि नानुचितम् । अथ च हे तन्वि,अयं बिम्बाधरो बिम्बफलतुल्योऽधरो मोहं मूर्च्छाे तनुतां तनोतु । कीदृशः । रागवान्रक्तताविशिष्ट: । इदमपि नानुचितम् । यतो यो रागवान्मात्सर्ययुक्तः स परमोहं करोत्येव । अयं तव सुवृतो वर्तुलः स्तनमण्डल: कुचविस्तारो मम प्राणैः कथं किमिति क्रीडति प्राणग्रहणरूपां क्रीडां किमिति करोति । सद्वृतस्य सश्चरितस्य परप्राणग्राहित्वमनुचितमिति भावः । विरोधनामायमलंकारः । सद्वृत्तत्वरूपगुणस्य परप्राणग्रहणक्रियया विरोधकथनात् । तदुक्तं काव्यप्रकाशे – 'विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः' इति । 'विशिखस्तोमरे शरे' इति विश्वः । 'श्यामो निन्दितकृष्णयोः' इति धरणिः । 'आत्मा देहमनोब्रह्मस्वभावधृतिबुद्धिषु' इति विश्वः । 'बिम्बं फले बिम्बिकायाः प्रतिबिम्बेऽर्कमण्डले' इति च । 'रागोऽनुरक्तमात्सयें' इति च । 'वृत्ते तु वर्तुलं वृत्तम्' इति शाश्वतः । 'कबरी केशवेश' इत्यमरः । 'मारो मृतौ विषेऽनङ्गे' इति विश्वः ॥ १४ ॥ ननु तस्यापि नाप-