भ्रूपल्लवं धनुरपाङ्गतरङ्गितानि
बाणा गुणः श्रवणपालिरिति स्मरेण ।
तस्यामनङ्गजयजङ्गमदेवताया-
मस्त्राणि निर्जितजगन्ति किमर्पितानि ॥ १३ ॥
पोऽलंकारः । अत्र मनसिजशरा मनो विध्यन्ति इति कर्मत्वे विवक्षिते यत्कर्तृत्व- मुपन्यस्तं तदौचित्यचमत्कारितामाविष्करोति । यथा 'सान्वयं शोभते वाक्यमुचि- तैरेव कारकैः । कुलाभरणमैश्वर्य मौदार्य चरितैरिव' इति ॥ १२ ॥ इदानीं राधायामेव स्मरशरादलित्वमारोपयन्त्राद्द— भ्रूपल्लवमिति । स्मरेण तस्यां इति अस्त्राण्य- । र्पितानि । किंभूतानि । निर्जितजगन्ति । निर्जितानि जगन्ति यैस्तानि । किंभूतायां तस्याम् । अनङ्गजयजङ्गमदेवतायाम् । अनङ्गस्य जयाय जङ्गमदेवतेव तस्याम् । इतीति किम् । भ्रूपल्लवं धनुः । अपाङ्गतरङ्गितानि कटाक्षवाणाः । अपाङ्गतरङ्गितशब्देन कटाक्ष उच्यते । तथाचोक्तम् । 'यद्गतागतविश्रान्तिवैचित्र्येण विवर्तनम् । तारकायाः कलाभिज्ञास्तं कटाक्षं प्रचक्षते ॥' इति । श्रवणपालिर्गुण इति । अत्रास्त्रशब्देनात्र- । विद्यासाधनस्योपकरणान्युच्यन्ते । भ्रूपल्लवं धनुरित्यत्र रूपकोत्प्रेक्षे अलंकृती ॥ यथा - 'मुखपङ्कजरङ्गेऽस्मिन्थूलता नर्तकी नवा । लील्ानृत्यं करोतीति रम्यं रूपकरूपकम् ॥' अत्र क्वापि क्वाप्यलंकारद्वयत्रयसद्भावेऽपि संस्टष्टिसंकरनिरूपणं ग्रन्थविस्तरत्रस्तचि- इति ध्वनितम् । ‘सायकः शरखङ्गयोः" इति विश्वः । 'अथास्त्रियाम् । धनुश्चापौ ' इत्यमरः । किंपौरुषमित्यत्र द्वितीयव्याख्यानपक्षे 'किमः क्षेपे' इत्यनेन निन्दायां समासः । 'आगो मारुते बाणे' इत्यमरः ॥ १२ ॥ ननु तनुकटाक्षादिस्मरणादेस्तवैवं दुःखं भवति कामस्य रात्र कोsपराध इत्यत आह-- -भूपल्लवमिति । किमित्याक्षेपे । तस्यां राधायां स्मरेण कामेना- खाम्यर्पितानीति तर्कयामि । नन्वखाणि वीरेण हस्ते स्थापयितुमर्पितानि नत्वन्यत्रेत्यत आह । निर्जितानि जगन्ति यैस्तानि । तथाच तैरेवालैर्जगश्रयं जित्वा तत्र स्थापितानीति भावः । । तन्यत्र किमिति न स्थापितानीत्यत आह-अनमेति । अनङ्गस्य कामस्य जङ्गमदेवतायां गमनशीलदेवतायाम् । तथाच त्वयैव त्रैलोक्यजयायास्त्राणि दत्तानि । अतो जातप्रयोज- नानि तत्रैव स्थापितानीति भावः । देवतया यदनं दीयते तत्केनापि प्रतिहन्तुं न शक्यत इत्यपि ध्वनितम् । कानि तान्यखाणीत्यत आह-नूपल्लवमिति । भ्रूपल्लवं तदेव धनुः, अपाङ्गतरङ्गितानि कटाक्षस्व गतागतानि बाणाः, श्रवणपालिः कर्णलताप्रान्त एव गुणो मौर्वी, नीलस्निग्धत्वाद्भुवः पल्लवत्वेन निरूपणम् । वक्रत्वाश्च धनुस्त्वेन निरूपणम् । अ- पाङ्गस्यात्यन्तभेदकत्वाद्वाणत्वेन निरूपणम् । श्रवणपात्याश्च दीर्घत्वान्मौीवन निरूप- णम् । 'अपाङ्गोऽप्यङ्गहीने स्वाक्षेत्रान्ते नीलंकेऽपि च' इति विश्वः । 'पालिः कर्णलताये ! by Google Digilized by