पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३] रसिकप्रिया–रसमञ्जर्याख्यटीकाद्वयोपेतम् पाणौ मा कुरु चूतसायकममुं मा चापमारोपय क्रीडानिर्जितविश्व मूच्छितजनाघातेन किं पौरुषम् | तस्या एव मृगीदृशो मनसिज प्रेसत्कटाक्षाशुग- श्रेणीजर्जरितं मनागपि मनो नाद्यापि संधुक्षते ॥ १२ ॥ ध्यतेऽसावपहुतिः' इत्यपह्नुतिरलंकारः विप्रलम्भकारो रसः ॥ ११ ॥ इदानीं स्मरमुपालभते - पाणाविति । हे क्रीडानिर्जितविश्व काम । पाणौ अमुं चूतसायकं मा कुरु । चापमपि मारोपय मा समं कुरु । यतः क्रीडयैव निर्जितविश्वस्य केयं सामग्री नाम | अथचेत्सामग्री तर्हि कस्योपरीत्याह । मूर्छितजनाघातेन किं पौरुषं कोऽयं पराक्रमः अथवा कुत्सितं पौरुषं किंपीरुषम् । तर्हि किं क्रियतामित्याह । यदर्थे मां प्रहिणोषि तस्या एव मृगीदृशो मनोऽद्यापि मनागपि न संधुक्षते । अपि तु नाम । किविशिष्टं मनः प्रेङ्गत्कटाक्षानलज्वालाजर्जरितं । प्रेशन्तो वल्गन्तो ये कटाक्षा अर्थात्सपत्नीनां त एव अनलोऽभिस्तस्य ज्वालास्ताभिर्जर्जरितम् । अथवा हे मनसिज, तस्या एव भृगीदृशः प्रेङ्गत्कटाक्षानलज्वालाजर्जरितं मनः । अर्थान्ममेवा- द्यापि न दीप्यते । अतो मृतमारणं कथं युक्तम् । शार्दूलविक्रीडितं छन्दः । आक्षे- 1 } सर्पराजो वासुकिः । इयं कण्ठे कुबलयदलानां नीलोत्पलपत्राणां श्रेणिः पतिः शैत्याद्धृता न तु सा गरल्युतिर्विषकान्तिः । इदं सर्वाङ्गे तापशान्त्यर्थं धृतं मलयजरजश्चन्दनधूलिर्न तु भस्म विभूतिः । अने लिप्तः प्रशिथिलचन्दनोऽपि विरहतापवशालीभूत इति रजःप- देन सूचितम् । तथाच विसरूतायां शैत्यदीर्घत्वादिदर्शनाद्वा वासुकिभ्रमात्, नीलोत्पलदल- पौ श्यामत्वादिदर्शनादुरगअभाव, चन्दनरजसि भस्मभ्रमाच्च मयि महादेवभ्रमस्तव युक्तो नेति भावः । अयं च भ्रान्तिमानलंकारः सादृश्यात् 'वस्त्वन्तरप्रतीतिर्भ्रान्तिमान्' इति तलक्षणम्। 'वितर्फे किं किमूत च' इत्यमरः । 'संबुद्धौ उपोक्तौ च ' इति विश्वः ॥ ११॥ कुसुमायुधत्वेन प्रसिद्धो य: कामः स इमानेव चूतमञ्जरीरूपान्जाणान्धनुष्यारोप्य मां ताढयिष्यतीति शङ्कया पुनरपि दैव्यं करोति - पाणाविति । हे मनसिज मदन, अमुं पुरः स्थितं चूतसायकमात्रपुष्परूपं बाणं पाणी इस्ते मा कुरु । चापं धनुर्मा रोपय मौर्वीयुक्तं मा करु । यहा चूतसायकं इस्ते मा कुरु । हस्ते चेत्करोषि तदार्मु सायकं चापे च मारोपय | मा संधेहीत्यर्थः । अत्र मनसिजपदेन मन्मनसा जातस्य ते मस्संतापकारित्वमनुचितमिति ध्वनितम् । हे क्रीडानिजितविश्व क्रीडया लील्या निर्जितं विश्वं जगधेन तादृश, मूर्च्छितस्य मूर्च्छा प्राप्तस्य मादृशजनस्याघातेन प्रहारेण तव किं पौरुषम् । अपितु न किमपीत्यर्थः । यद्वाक्षेपे किंशब्दः । मूच्छितजनाघातेन तव किंपौ- रुषम् । कुत्सितं पौरुषमित्यर्थः । मूच्छितत्वे हेतुमाह -- तस्या एवेति । तस्या एव मृगी- दृशो हरिणीदृशः प्रेङ्गन्तः प्रसर्पन्तो ये कटाक्षास्त एवाशुगा बाणास्तेषां श्रेणिभिः पि भिर्जर्जरित खण्डितं मनो मनायपि न संधुक्षते न स्वस्थं भवति । तथाच तत्कटाक्षरूप बाणैस्त्वयाई मूच्छितः कृतः संप्रति मयि चूतमञ्जरीरूपसायकप्रहारं मा कुरु | सृतमारणं माचरेति भावः । येन लीलयैव विश्वमपि जितं तस्य ते मूच्छितजनेषु प्रहारो यशोधानिकर 1 · ५९ ● Google Digitized by