पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् तन्त्रि खिन्नमस्यया हृदयं तवाकलयामि । तत्र वेभि कुतो मतासि नतेन तेऽनुनयामि ॥ हरिहरि० ॥७॥ दृश्य से पुरतो गतागतमेव मे विदधासि । किं पुरेव ससंभ्रम परिरम्भर्ण न ददासि ॥ हरिहरि० ॥ ८ ॥ क्षम्यतामपरं कदापि तवेदृशं न करोमि । देहि सुन्दरि रमणं मम मन्मथेन दुनोमि ॥ हरिहरि ० ।। ९ ।। ५७ रामि ॥ ६ ॥ तन्वीति । हे तन्वि, तव हृदयं असूयया खिन्नं खेदयुक्तं भविष्यतीत्याकलयामि । तत्तस्मादहं कुतो गतासीति न वेद्मि । अपि तु असूयात एव गतासीति वेधि । अतो हेतोर्दर्शनाभावात् । ते तव संबन्धिना नतेन नमस्कारेणानुनयामि । अथवा तव हृदयं असूयया खिन्नम् । तेन का रणेन ते तव हृदयं नानुनयामि । 'प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः' इति न्यायापातादिति भावः । अथवा तत्कुतो न वेद्मि । अपि तु वेद्मि । अथवा त्वं गतासि जातासि । तव हृदयं नते नमस्कृतौ न अनुनयामि ॥ ७ ॥ हृश्यस इति । हे तन्वि, मे पुरतो गतागतमेव विदधासि यातायातमेव' करोषीति दृश्यते । मे अपर पुरेव ससंभ्रमं यथास्यात्तथा परिरम्भणं न ददासि । विरहिणो हि चित्तानु- संगात्सर्वतस्तामेव पश्यन्ति । तथाचोकम् – 'प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा पर्यने सा दिशि दिशि च सा तद्वियोगातुरस्य । हंहो चेतः प्रकृतिरपरा नास्ति ते कापि सा सा सा सा सासा जगति सकले कोऽयमद्वैतवादः' ॥ ८ ॥ क्षम्य तामिति । हे तन्वि, भवतु यत्किचिन्मया अपराद्धं क्षम्यतां तत् । ईडशमपर- मप्रियं तव कदापि न करिष्यामि । हे सुन्दारे, मम दर्शनं देहि । त्वद्विनाहं मन्मथेन रमयामि किं वा बने तामनुसरामि । वृथा बिलपामीत्यर्थः ॥ ६ ॥ तन्वीति । हे सन्धि, तव हृदयं असूयया मयि दोषाविष्कारेण खिन्नं खेदयुक्तमाकलयामि पश्यामि । श्यं चोद्वेगा- वस्था । तदुक्तं शृङ्गारतिलके -- 'यस्मिन्र म्यमरम्यं च स्वात्प्रकर्षाय किंचन । विद्वेषः प्राणि- तव्येति स उद्वेगः स्मृतो यथा ॥ इति । तन्न वेभीति । कुतो गतासि सदहं न वेभि । ते तव नतेन प्रणत्यानुनयामि त्वामित्यर्थः । कचित्त नुतेनेति पाठस्तदा ते तव नुतेन स्तु- त्यानुनयामि त्वामित्यर्थः । यद्वा । नु इति क्तिकें । तेभिलनेव्ययम् (?) । तथा च यं मार्ग लक्षीकृत्य गतासि तं मार्ग कक्षीकृत्य गत्वा तेऽनुनयामि तवानुनयं करोमि। ते इति संग- न्धमाजविवक्षायां षष्ठी । अनेन विलापावस्था कथिता । तदुक्तं शृङ्गारतिलके–'मम्भ- मोति मनो यस्मिन्नत्यौत्सुक्यायितं ततः । वाचः प्रियाश्रया एव स प्रलापः स्मृतो यथा ॥ इति ॥ ७ ॥ इदानीं भावनया प्रत्यक्षीकृतां प्राइ - इयस इति । ई सुन्दरि, पुरेष पूर्वमिव ससंभ्रमं सादरं परिरम्भणमालिङ्गनं किमिति न ददासि | पुरतोऽये गतागतं यातायातं विदधासि ॥ ८ ॥ क्षम्यतामिति । हे सुन्दरि, क्षम्यतां ममापराधं क्षमस्व । कदापि तवेदृशं विप्रियं न करिष्यामि । इयं चोन्मादावस्था । तदुक्तं रसार्णवसुधाकरे- Dilized by Google