पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् [सर्गः ३ चिन्तयामि तदाननं कुटिलभु कोपभरेण । शोणपद्ममिवोपरि भ्रमताकुलं भ्रमरेण ॥ हरिहरि० ।। ५ ।। तामहं हृदि संगतामनिशं भृशं रमयामि किं वनेऽनुसरामि तामिह किं वृथा विलपामि ॥ हरिहरि० ।।६।। कृत्वा जीवितं निन्दति । जीवितफलं किं । सुखमपि त्वते नान्यदिति वाक्यशेषः । किंविशिष्टा सा | विरहेण उपलक्षिता । अथवा मम विरहेणाकान्ता सा किं वदिष्यतीत्यादि । ममापि तां विना किं धनादिनेति योजनीयम् ॥ ४ ॥ चि न्तयामीति । अहं तदाननं चिन्तयामि । किंभूतमाननम् । कोपभरेणार्थान्मयि कुटिलभु । फुटिले कुश्चिते भुवौ यत्र । किमिव शोणपद्ममिष उपरिभ्रमता भ्रमरेणाकुलम् । अत्र कोपारक्तमुखं पद्मेनोपमीयते । भ्रमरेण कुटिले कोपा- वेशपरिस्फुरमाणे भ्रुवाविति । अत्र वाक्यार्थीपमालंकारः । तथाच - 'तदाननमधी- राक्षमाविद्धं शतदीधिति । श्रमद्भृङ्गमिवालक्ष्य केसरं भति, पङ्कजम्' इति ॥ ५ ॥ तामहमिति । अहं अनिशमनवरतं हृदि संगतां हृदये मिलितां तां भृशमत्यर्थ रम- यामि । इत्युक्त्वा पुनः प्रबुद्ध्याह । इष्टशून्यप्रदेशे वृथा कि विल्पामि तां चनेऽनुस- 4 तया विना मम धनेन किम् । न किंचित्प्रयोजनमित्यर्थः । ननु धनं विना परि जनसंग्रहः कथं स्यादित्यत आइ । तया बिना मम जनेनाश्रितेन परिजनेन किम् । ब किमपि प्रयोजनम् । ननु परिजनं विना गोषनरक्षा कथं भविष्यतीत्यत आइ । तया विना मम गोधनेन किम् । न किमपि प्रयोजनम् । ननु धनं विना परिजनाहते च गृहरक्षापि न स्यादित्यत आह । तया विना मम गृहेणापि किम् | अपि तु प्रयोजनं नास्तीत्यर्थः । ननु गृह विना सांसारिका भोगाः कथं सेत्स्यन्तीत्यत आई। तथा विना मम सुखेनापि किम् : सक्चन्दनवनितादिजन्येनापि सुखेन किं प्रयोजनमित्यर्थः । इयं च स्मृत्याख्या तृतीया- बस्था । तदुक्तं रसार्णवसुधाकरे 'अर्थानामनुभूतानां देशकालानुवर्तिनाम् । सातत्येन परामर्शो मानसः स्यादनुस्मृतिः ॥ अत्रानुभावविश्वासादीनं कृत्वा विस्तता | राज्या- सनादिविद्वेषश्चेत्याचाः स्मरकल्पिताः ॥' इति ॥ ४ ॥ चिन्तयामीति । अहं तदाननं 1 । चिन्तयामि स्मरामि । कीदृशम् । रोषभरेण कोपातिशयेन कुटिलनु कुटिला वक्रा भूर्यत्र सादृशम् । किमिव । उपरि भ्रमता भ्रमरेणाकुलं ब्याएं शोणपद्ममिव । अत्र रोषारुणे मुच्चे शोणपभसादृश्यं बोध्यम् । वारंवारं वक्रीभवन्त्योर्भुवोश्च अमन्द्रमरोपमा बोध्या । अनेन गुणकीर्तनाख्या चतुर्भावस्था । सदुकम् 'अङ्गप्रत्यङ्गलीलाभिर्वाक्चेष्टाइसितेक्षणैः । न तस्य सदृशः कश्चिदित्यादि गुणकीर्तनम् ॥” इति । 'शोण: कोकनदच्छविः' इत्यमरः ॥ ५ ॥ तामह मिति । तामनुसरामि तस्या अनुसरणं करोमि । इह वृथा कि विलपामि किमिति वृथा विलापं करोमि । हृदि संगतां हृदये संनिहितामनिशं निरन्तरं भृशमति- शयेन तां रमयामि क्रीडयामि । यद्वा किंशब्द प्रश्ने । अहं तां हृदि संगतामनि शं Digiticed thy Google