पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४ गीतगोविन्दकाव्यम् तृतीयः सर्गः ॥ ३ ॥ मुग्धमधुसूदनः । [सर्गः ३ कंसारिरपि संसारवासनाबद्ध शृङ्खलाम् । राधामाधाय हृदये तत्याज व्रजमुन्दरीः ॥ १॥ इतस्ततस्तामनुसृत्य राधिकामनङ्गबाणवणंखिनमानसः । कृतानुतापः स कलिङ्गनन्दिनीतटान्तकुञ्जे विषसाद माधवः ||२|| 4 [१] Dglized by Google । गेयानुगुणैरधिकैरधिगतं तनुते धातुं बुधसंमतम् । नत्वा विधिमिह सुरवरनतं कुम्भनरेशोऽलंकृतियुतम् ॥ इदानीं राधायाः कृष्णेऽनुरागं निरूप्य कृष्णस्यापि राधायामनुरागं दर्शयन्नाह गौढकृतिरागेण - कंसारीति । कंसारिरपि व्रजसुन्दरीस्तयाज । न केवलं राधैव कृष्णसक्ता बभूव किंतु कृष्णोऽपि राधासक्तो बभूवेत्यपिशब्दार्थः । किं कृत्वा । राधां हृदये आघायारोप्य । किंभूतां राधाम् । संसारवासनाबन्धे शृङ्खलेव शृङ्खला । 1 अत्र 'तक्कजोर्ज' इति पथ्या छन्दः ॥ १ ॥ इदानीं कृष्णस्य विरहावस्थाचेष्टि- तमाह - इतस्तत इति । स माधवोऽनङ्गबाणवण खिनमानसः सन् विषसाद विषादं चकार । किं कृत्वा । कलिन्दनन्दिनीतटान्तकुओ इतस्ततस्तां राधामनु- सृत्यान्विष्य । किंविशिष्टः । कृतानुतापः पूर्वमेव मया कथं नानुनीतेति कृतपश्चासापः । अत्र कुञ्जेष्विति वक्तव्ये बहुष्वपि परिभ्रमन् तदार्तिवशादेकमेवाज्ञासीदित्येकवचनम् । 1 । $ राधायाः कृष्णविषयिणीमुत्कठामुक्त्वा संप्रति कृष्णस्यापि तस्यांमुत्कण्ठामाह- कंसा- रिरिति । कृष्णोऽपि व्रजसुन्दरीस्तापात्तत्याज । त्यागे हेतुगर्भविशेषणमाह - राधामिति । राध हृदय आधायारोप्य । सुन्दरीपदेन बहुवचनेन सौन्दर्यवतीरपि तत्यानेति कथनेन 1 कृष्णस्य राधायामनुरागातिशयो ध्वनितः । कीदृशी राधा । संसारविषयिणी वासना संस्कारस्तस्य वन्धनेन शृङ्खलामिव । अनेनाभिलाषाख्या प्रथमा व्यवस्था । एतलक्षणं च दशरूपके -- 'अभिलाषः स्पृहा तत्र कामे सर्वाङ्गसुन्दरे । दृष्टे श्रुते वा तत्रापि विस्मया नन्दसाध्वसम् ॥' इति । ‘शृङ्खला पुंस्करे वस्त्रबन्धेऽपि निगडेऽपि च इति विश्वः ॥ १ ॥ इतस्तत इति । स माधवः कलिन्दनन्दिन्या यमुनायास्तटान्तकुओं तीरप्रान्तलतापिहि- तोदरगृहे निषसाद न्यवसत् । अत्र माधवपदेन मा लक्ष्मीस्तस्या अपि धषः स्वामी यद्विरहग्याकुलो बभूवेति राधायाः सौभाग्याधिक्यं ध्वनितम् । किं कृत्य | इतस्ततस्तेषु स्था- नेषु तां हृदयनिहितामनुसत्यानुलक्ष्य । कीदृशः । अनङ्गस्य कामवरणस्य यद्रणं क्षतं तेन खिन्नं दुःखितं मानसं यस्य । पुनः कीदृशः । कृतानुतापः कृतः किमिति मया तस्या अथा- वधीरणं कृतमिति पश्चात्तापो येन सः । अनङ्गवाणेत्यत्रा नङ्गपदेनाकर हितस्यातरवालक्षित- गतागतस्य कामस्याशेषदुष्टदमनेनापि कृष्णेन निवारणं कर्तुं न शक्यमिति ध्वनितम् । १ 'निषसाद' इति पाठः ।