पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २] रसिकप्रिया-रसमझर्याख्यटीकाद्वयोपेतम् माणमौचित्यचारुतामाचरति । यदाहुः – 'विशेषणैः समुचितैर्विशेष्यार्थः प्रकाश्यते । गुणाधिकैर्गुणोदारः सुहृद्भिरिव सज्जनः ॥ इति ॥ १२ ॥ 'शृङ्गारोत्तरसत्प्रमेयभणिताबुङ्गीतगोविन्द के प्रत्यर्थिप्रभुगर्वपर्वतसुपर्वाधीशशोभाभृता । श्रीषुम्माणनरेशवंशविशदक्ष्माभृद्वतंसायित- श्रीमत्कुम्भधराधिपेन वितः सर्गे द्वितीयेऽन्वयः ॥ 'गीतौ भैरवरागेण ताले वर्णयती यथा । आभोगान्तस्थितैः पाटे: स्वरैः पयाश्चितस्ततः ॥ अक्लेशकेशवादिव कुअरस्तिलकाभिधः ॥” इति अक्लेशकेशवकुशरतिलकनामा षष्ठः प्रबन्धः ॥ ६ ॥ इति श्रीराजाधिराजहम्मीरवीरवंशकरीरेण श्रीकुम्भकर्णमहीमहेन्द्रेण विरचिते गीतगोविन्दविवरणे अक्लेशकेशवनामा द्वितीयः सर्गः ॥२॥ काव्यं गीत्यनुसारि दुर्लभमथ स्फीतं प्रसादादिभि- लक्ष्मीकान्तविलासवर्णनरसस्तत्रापि लोकोत्तरः । सर्वे चैतदभूदरण्यरुदितं पद्मावतीवलभ- स्यैतां चेद्रसमअरीं न रचयेच्छ्रीशालिनाथप्रभुः ॥ इति श्रीमहामहोपाध्याय श्रीशंकरमिश्रविरचितायां श्रीशालिनाथकारितायां गीतगोविन्दटीकायां रसमअर्याख्यायां द्वितीयः सर्गः ॥ २ ॥ तथाच सहीतराजे- Dglized by Google