पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् दुरालोक॑स्तोकस्तबकनवैकाशोकलतिका- विकासः कासारोपवनपवनोऽपि व्यथयति । अपि भ्राम्यद्भृङ्गीरंणितरमणीया न मुकुल- प्रसूतिधूतानां सखि शिखरिणीयं सुखयति ॥ ११ ॥ वानाह -- दुरालोक इति । हे सखि, दुरालोकस्तोकस्तबकनवकाशोकलतिका- विकासः मां व्यथयति । दुःखेनालोक्यते विरहिभिरिति दुरालोकः । दुरालोकस्तो- ' कोऽल्पकः स्तनको गुच्छो यस्याः सा ! अशोकलतिकायाः विकास: अशोकलतिका-

  • विकासः । नव एवं नवकः । प्रशंसायां कः । नवकवासावशोकलतिकाविकासश्च ।

• दुरालोकस्तोकस्तबकञ्चासौ नवकाशोकलतिकाविकासश्च सः । अपिच । अयं कासा-

रोपवनपवनो व्यथयति । न केवलं सः । पवनोऽपीति । 'कासारः सरसी सरः' ।
अथवा दुरालोक इत्यादिपवनविशेषणत्वे योजनीयम् । दुरालोकस्तोकस्तबका चासौ

नवकाशोकलतिका चेति कर्मण्यण् । अथवा अशोकलतिकाया विकासो यस्मादिति । एतेन वायोस्त्रैविध्यमुक्तम् । अपि च न केवलं पवनः । अपितु चूतानां मुकुलप्र- सूतिरपि न सुखयति । कीदृशी मुकुलप्रसूतिः । शिखरिणी साप्रा । पुनः कीदृशी । भ्राम्यद्धृवीरणितरमणीया । भ्राम्यन्त्यः परितः स्फुरन्त्यो या भृङ्गयो भृहाङ्गना- • स्वासां रणितेन शब्दितेन रमणीया ॥ अत्र मधुलिडङ्गनाग्रहणं पुरुषान्तराभिलाषनि-

वृत्त्या औचितीमावहति । अत्र शिखरिणी वृत्तम् । समुच्चयोऽलंकारः । लाटानुप्रासः

• शब्दालंकारथ्थ । क्रियौचित्यं च । विप्रलम्भः शृङ्गारो रसः । सर्वत्र स्थितिलया गीतिः । दूतीमेव त्वरयितुमाह - दुराकोकेति । हे सखि, स्तोकोऽल्पः स्तबको गुच्छो यस्या एतादृशी या नविकातिनवाऽशोकलतिका नुकम्प्या शोकशाखा तस्या विकास उद्बोधो दुरा-

  • लोको दुःखेनालोचयितुं शक्यः । नविकेत्यत्र ह्रस्वः । लतिकेत्यत्रानुकम्पायां कः । मद्धस्तपा-

लिताऽतएवानुकम्प्याऽशोकलतिका दुराकोकेति भावः । किमपरम् । कासार: सर ļ स्तत्संबन्धि यदुपवनं तत्संबन्धी यः पवनो वायुः सोऽपि व्यथयति । दुःखं ददातीत्यर्थः । कासारपदेन वायोः शैत्यं कथितम् । उपवनसंबन्धित्वेन ससौगन्ध्यं मान्यत्वं च ध्व- नितम् । यतो वनवृक्षैरुपहतगतित्वेन मन्द एव वायुर्भवतीति । यद्वा । स्तोके- ! त्यादि वायोरेव विशेषणम् । तदा स्तोकस्तबकनवकाशोकलतिकां विकासयतीत्येवं- भूतः पवनो व्यथयतीत्यन्वयः । नन्वभिमुख मागच्छन्पबनश्चलनादिना निवार्यतामित्यत आइ। दुरालोक इति । अतीन्द्रिय इत्यर्थः । तथाचाकस्मादेवासौ न दृश्यत इति भावः । • अपिच इयं शिखरिणी गोवर्धनगिरौ वर्तमाना चूतानामाम्राणां मुकुलप्रसूतिरपि कुड्मलो- मोऽपि न सुखयति । विकासदशायां तु को वेद किं करिष्यतीति कविना ध्वनितम् । प्रसूतिः शिखरिणी । प्रशस्ताग्रभागवतीत्यर्थः । शिखरिणीत्यत्र प्रशंसायामिन् । यद्वा इयं शिखरिणी मछिका न सुखयतीत्यर्थः । कीदृशी । भ्राम्यन्तीनां भ्रमराङ्गनानां रणितिमि- र्गुभितै रमणीया। शिखरिणीनामकं छन्द इत्यपि ध्वनितम् । तलक्षणं तु वृत्तरत्नाकरे -- १ 'दुरालोकः स्तोकस्तब कनविका-' इति पाठः । २ 'रणितिरमणीया* इति पाठः । Google Dgilized by