हस्तस्रस्तविलासवंशमनृजुभ्रूवल्लिमद्वल्लवी-
वृन्दोत्सारिहगन्तवीक्षितमतिस्वेदार्द्रगण्डस्थलम्।
मामुद्वीक्ष्य विलज्जितं स्मितसुधामुग्धाननं कानने
गोविन्दं व्रजसुन्दरीगणवृतं पश्यामि हृष्यामि च ॥ १० ॥
लयश्छन्दः ॥ ९ ॥ इदानीं मनसा भावितं परमेश्वरं दृष्ट्वा सखेदमाह —हस्तस्रस्तेति । हे सखि, बत इति खेदे । अहं कानने वृन्दावने गोविन्दं पश्यामि व्यलीकं हृष्यामि च । किंविशिष्टं गोविन्दम् । व्रजसुन्दरीगणवृतं गोपाङ्गनासमूहयुक्तम् । पुनः किंभूतम् । स्मितसुधामधुरमाननं यस्य तम् । पुनः किंभूतम् । मामुद्वीक्ष्य मां दृष्ट्वा हस्तात्स्रस्तः पतितो विलासवंशः केलिवेणुर्यस्य । अत एव विलज्जितं विह्वलीभूतम् । पुनः किंभूतम् । अतिस्वेदेनांर्द्र गण्डस्थलं यस्य। गण्डस्थलमिति पाठे मामित्यस्य विशेषणम् । संजातसात्त्विकभावां मां दृष्ट्वा सोऽपि संजातसात्त्विकभाव इति हस्तस्रस्तेति युक्तम् । पुनः किंभूतम् । अनृजुभ्रूवल्लिमद्बल्लवीवृन्दोत्सारिदृगन्तवीक्षितम् । कुटिलभ्रूवल्लियुतानां बल्लवीनां वृन्दे उत्सारि ऊर्ध्वप्रसरणशीलं दृगन्तवीक्षितं कटाक्षेक्षणं यस्य । अथवा अनृजुभूवल्लिमद्वल्लवीवृन्देन उत्सारिणा दृगन्तेन वीक्षितम् । एतावता राधां प्रति तस्य स्वभावावलोकनं दृष्ट्वान्याभिरपसृतम् । अत्र शार्दूलविक्रीडितं छन्दः । तथा दीपकमलंकारः । विप्रलम्भश्रृङ्गारो रसः । अत्र गोविन्दस्य व्रजसुन्दरीपरिवृतत्वेऽपि यत आत्मौपाधिकदर्शनस्य लज्जिताहेतुत्वेन हर्षदर्शनकर्म अतोऽपादानमौचितीमावहति । पाश्चाली रीतिः। लाटानुप्रासश्च। अन्यत्सर्वे समानम् । दक्षिणो नायकः ॥ १० ॥ इदानीं पुनरेव विप्रलम्भविभा-
'आपोवनं निधुवनं सुरतेन समं त्रयम्' इत्यमरः ॥ ९ ॥ स्वमनोरथानाह-हस्तेति।हे सखि, अहं गोविन्दं कदा पश्यामि । कदाचिद्गोविन्ददर्शनं भविष्यतीत्याशङ्कायां काकुः । अत एव त्दृष्यामि । तद्दर्शनजन्य आनन्दो मम कदाचिद्भविष्यतीत्यप्राप्याशंसेव पश्यामि हृष्यामीति भविष्यत्सामीध्ये वर्तमानप्रयोगः । कीदृशम् । व्रजसुन्दरीगणवृतं गोपवधूकदम्बपरिवृतम् । ननु सपत्नीभिः परिवृतं दृष्ट्वा कथं ते हर्षो भविष्यतीत्यत आह-मामिति । मामुद्वीक्ष्य दृष्ट्वा विलज्जितम् । पुनः कीदृशम् । अन्यवधूभिः परिवृतोऽहमनया दृष्ट इति हेतोर्विषादसूचकं यत्स्मितं तदेव शुभ्रत्वादतिस्पृहणीयत्वाच्च सुधा तया मुग्धं मनोहरमाननं मुखं यस्य । पुनः कीदृशम् । अनृजु कुटिला भ्रूलता यासामेतादृश्यो या बल्लव्यो गोपवध्वस्तासां वृन्दमुत्सारयत्येवंशीलं दृगन्तवीक्षितं नेत्रान्तेनावलोकितं यस्य तम् । मय्यागतायां भिया दृगन्तचेष्टयान्यगोपीरपसारयतीत्यर्थः । पुनः कीदृशम् । हस्तात्स्रस्तो विगलितो मद्दर्शनेन साध्वसवशात्स्खलितो विलासवंशः क्रीडावेणुर्यस्य तम् । पुनः कीदृशम् । अतिशयेन स्वेदैरार्द्रे गण्डस्थलं यस्य तम् । सर्वत्र मामुद्वीक्ष्येत्यस्य संबन्धः॥१०॥ हे सखि, धैर्यमवलम्बस्व मिलिष्यत्येव त्वां हरिरित्या श्वासयन्तीं