पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५० गीतगोविन्दकाव्यम् । हस्त स्रस्त विलासवंशमनृजुभ्रूवल्लिमद्रल्लवी- वृन्दोत्सारिदृगन्तवीक्षितमतिस्वेदार्द्रगण्डस्थलम् मामुद्रीक्ष्य विलज्जितं स्मितसुधामुग्धाननं कानने गोविन्दं व्रजसुन्दरीगणवृतं पश्यामि हृष्यामि च ।। १० ।। [सर्गः २ लयश्छन्दः ॥ ९ ॥ इदानीं मनसा भावितं परमेश्वरं दृष्ट्वा सखेदमाह– हस्तनस्ते. ति । हे सखि, बत इति खेदे । अहं कानने वृन्दावने गोविन्दं पश्यामि व्यलीकं हृष्यामि च । किंविशिष्टं गोविन्दम् । व्रजसुन्दरीगणवृतं गोपाङ्गनासमूहयुतम् । पुन: किंभूतम् । स्मितसुधामधुरमाननं यस्य तम् । पुनः किंभूतम् । मामुद्रीक्ष्य मां दृष्ट्वा हस्वात्त्रस्तः पतितो विलासवंशः केलिवेणुर्यस्य । अत एव विलज्जितं विलीभूतम् । पुनः किंभूतम् । अतिस्वेदेनांई गण्डस्थलं यस्य । गण्डस्थलमिति पाठे मामित्यस्य विशे षणम् । संजातसात्विकभावां मां दृष्ट्वा सोऽपि संजातसात्त्विकभाव इति हस्तस्रस्तेति युक्तम् । पुनः किंभूतम् । अनृजुश्रूवल्लिमद्वल्लवीवृन्दोत्सारिदृगन्तवीक्षितम् । कुटिल भ्रूवल्लियुतानां बल्लवीनां वृन्दे उत्सारि ऊर्ध्वप्रसरणशीलं हगन्तवीक्षितं कटाक्षे- क्षणं यस्य । अथवा अनुजुश्रू वलिमल्लवीवृन्देन उत्सारिणा ढगन्तेन वीक्षितम् ।। एतावता राधां प्रति तस्य स्वभावावलोकनं दृष्ट्वान्याभिरपसृतम् । अत्र शार्दूलविक्रीडितं छन्दः । तथा दीपकमलंकारः । विप्रलम्भशृङ्गारो रसः । अत्र गोविन्दस्य ब्रजसुन्दरीपरिवृतत्वेऽपि यत आत्मौपाधिकदर्शनस्य लजिताहेतुत्वेन हर्षदर्शनकर्म अतोऽपादानमौचितीमावहति । पावाली रीतिः । लाटानुप्रासच । अ- न्यत्सर्वे समानम् । दक्षिणो नायकः ॥ १० ॥ इदानीं पुनरेव विप्रलम्भविभा 'आपोवनं निधुवनं सुरतेन समं त्रयम्' इत्यमरः ॥ ९ ॥ स्वमनोरथानाइ–इस्तेति | हे सखि, अह गोविन्दं कदा पश्यामि । कदाचिगोविन्ददर्शनं भविष्यतीत्याशङ्कायां काकु: । अत एव दृष्यामि । तदर्शनजन्य आनन्दो मम कदाचिद्भविष्यती त्यप्राण्याशंसेव पश्यामि हृष्यामीति भविष्यत्सामीध्ये वर्तमानप्रयोगः । कीदृशम् । अजसुन्दरीगणवृतं गोपवधूकदम्बपरिवृतम् । ननु सपत्नीभिः परिवृतं दृष्ट्वा कथं ते हर्षो भविष्यतीत्यत आइ – मामिति । मामुद्रीक्ष्य दृष्ट्वा विलज्जितम् । पुनः कीदृशम् । अन्यवधूभिः परि- वृतोऽहमनया दृष्ट इति इतोविषादसूचकं यत्स्मितं तदेव शुभ्रत्वादतिस्पृहणीयत्वाच सुधा तया मुग्धं मनोहरमाननं मुखं यस्य । पुनः कीदृशम् । अनृजु कुटिला भूलता यासामेतादृश्यो या बलव्यो गोपवध्वस्तासां वृन्दमुत्सारयत्येवंशीलं दृगन्तवीक्षितं नेत्रान्ते- नावलोकितं यस्य तम् । मस्यागतायां भिया दृगन्तचेष्टयान्यगोपीरपसारयतीत्यर्थः । पुनः कीदृशम् । इस्तात्त्रस्तो विगलितो मदर्शनेन साध्वसवशात्स्खलितो विलासवंशः क्री- डाणुर्यस्य तम् । पुनः कीदृशम् | अतिशयेन स्वेदैराद्र गण्डस्थलं यस्य तम् । सर्वत्र मा. मुद्रीक्ष्येत्यस्य संबन्धः ॥ १०॥ हे सखि, धैर्यमवलम्बस्व मिलिष्यत्येव त्वां इरिरित्याश्वासयन्तीं by Google Digilicad by 1