चरणरणितमणिनूपुरया परिपूरितसुरतवितानम् ।
मुखरविशृङ्गलमेखलया सकचग्रहचुम्बनदानम् ॥सखि० ॥ ७ ॥
रतिसुखसमयरसालसया दरमुकुलितनयनसरोजम् ।
निःसहनिपतिततनुलतया मधुसूदनमुदितमनोजम् ॥सखि०||८||
म्बननखक्षतताडनानि । संमर्दनं प्रसरणं खलु भिक्षितानि । जिह्वाप्रवेशरसनाप्रहणं तु नाभी क्षोभं रतं वदति बाह्यरतानि तज्ज्ञः ॥ ६ ॥ अपिच । चरणेति । चरणयोः रणितौ शब्दितौ मणिनूपुरौ यस्याः । ग्राम्याख्यबन्धसूचनायोक्तमिदम् । तदुक्तं रसिकसर्वस्वे –'उत्तानितायाः सुरते यदोरू स्त्रीशीर्षकान्तोरुगतौ भवेताम् । ग्राम्यं तदा स्यात्कटितो यदास्या बहिर्भवेतां किल नागराख्यम्' ॥ परिपूरितः संपूर्णतां नीतः सुरतवितानः सुखावसरो येन प्रस्तावो वा ॥ अपिच । मुखरा वाचाला श्रृङ्गला काञ्ची यस्याः । अथ 'मुखदविश्रृङ्गलमेखलया' इति पाठः। अपिच । सकच-- प्रहं केशग्रहणेन सहितं चुम्बनदानं यस्य॥७॥ अपिच। रतिसुखेति । रतिसुखसमये द्वयोरेककालं रेतःकणक्षरणसमये यो रसः तदैकाप्रीभावस्तेन अलसा मन्थरा । एतेन च्युतिसुखसान्निध्यं सूचितम् । उत्कंच रसिकसर्वस्वे-'मुहुश्च खजनाश्लेषः सीत्कारो वीतलज्जता । अङ्गावधूननं नार्याश्च्युत्तिसान्निध्यसूचकम्'॥
स्त्रयोः' इति विश्वः। 'चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः' इत्यमरः॥ ६ ॥ एतावत्पर्यन्तं चुम्बनालिङ्गनादिना सप्तविधं गाक्षरतमुक्तम् । संप्रति बन्धाख्यमष्टमरतमाह-चरणेति । चरणयो रणितौ शब्दायमानौ मणिखचितौ नूपुरौ यस्यास्तया । एतच भ्रामरिकंनाम विपरीतरताभिप्रायेणोक्तम् । तदुक्तं रतिरहस्ये-'चक्रवन्द्रमति कुचित्ताद्रिका भ्रामरं नृजषने समुच्छ्रिते' इति । कीदृशम् । परिपूरितं सुरतंवितानं रतिविस्तारो येन तम् । अनेन नायककर्तृका बन्धाः कथिताः । भ्रामरकबन्धश्रान्तां विदित्वा किसलयशयनस्थितां मां स्वयमपि रमयिष्यतीति भावः । कीदृश्या । पूर्वे मुखरा शब्दायमाना पश्चाद्रिश्रृङ्गला त्रुटितगुणा मेखला काश्ची यस्यास्तया । अनेन प्रेङ्गोल्लिखितनाम विपरीतरतमुक्तम् । तदप्युक्तं पुरुषायितप्रकरणे -'स्वजघनमेव दोलायमानं सर्वत्र भ्रामयेदिति प्रेङ्गोल्लिखितम्' इति । तत्र सर्वत्र शब्दो मनोरमाकारेण व्याख्यातः । मध्यात्पूर्वपश्चिमभागे दक्षिणोत्तरभागे चेति रहस्ये सर्वतः कटितटभ्रमो यदि प्रेङ्गपूर्वमिदमुक्तं मूलितमिति । अत्रापि सर्वशब्दार्थः स एव । कीदृशं तम्। सकचग्रहं केशग्रहणसहितं चुम्बनदानं यस्य तम् । केशग्रहणपूर्वकचुम्बनं विपरीतमेवोक्तम् । तदुक्तम् —'शृङ्गारे चुम्बने कार्ये पुंसालिङ्गनपूर्वकम् । विपरीतरते नार्या सकचग्रहचुम्बनम्॥' इति । 'मेखला खड्गबन्धः स्यात्काचीशैलनितम्बयो:' इति विश्वः ॥ ७ ॥ पुनः कीदृश्या मया- रतिसुखेति । रतिसुखसमये सुरतसुखप्राप्तिकाले लोकोत्तरां काष्ठां प्राप्तो यः संभोगश्रृङ्गाराख्यो रसस्तेनालसया मन्थरया । कीदृशं कृष्णम् । दर ईवन्मीलिते मुद्रिते नयनसरोजे नेत्रकमले यस्य तम् । एतेन युगपदेव द्वयोरानन्दावाप्तिः सूचिता । तदुक्तं रतिरहस्ये – 'मूर्च्छना मीलनं चाक्ष्णोश्चयुतिकालस्य लक्षणम्' इति । पुनः कीदृश्या मया ।