कोकिलकलरवकूजितया जितमनसिजतन्त्रविचारम्।
श्लथकुसुमाकुलकुन्तलया नखलिखितघनस्तनभारम् ॥सखि०॥६॥
पङ्क्तया सुन्दरकपोलम् । अनेन सात्विकविकाराविर्भावः सूचितः। यदुक्तं भरते'स्मरणे संगमे चैव प्रियस्यालोकने तथा । हेतुत्रयं समासाद्य सात्विकः संप्रवर्तते॥ स्वेदः कम्पोऽथ रोमाश्च: स्वरभङ्गोऽथ वेपथुः। वैवर्ण्यमश्रुप्रलयावित्यष्टौ सात्विका मताः'॥ अपिच । श्रमजलेन गमनायासजनितेन स्वेदेन सकलं सशोभं शरीरं यस्याः सा। श्रमजलसिक्तमिति वा पाठ:। श्रमजलशकलानि स्वेदबिन्दवः कलेवरे यस्या इति वा । सकलशब्दः सम्पूर्णपर्यायो वा ॥अपिच। उत्तमकाममदादतिलोलम् । अतिसतृष्णम् ॥ ५ ॥ अपिच । कोकिलेति-कोकिलकलरवयोः कूजितमिव कूजितं यस्याः । कलरवशब्दः पारावतपर्यायः । एतदपि सुरताधिकारायोक्तम् । तदुक्तं रसिकसर्वस्वे--'दात्यूहलावकमयूरकपोतहंसपारावतादिरुतवद्ध्वनितं रतान्ते । तन्मिश्रनिश्वसितसीत्कृतहानिनादैः संयोजयेन्मदनचुम्बनमैथुनादौ' । अपिच । जितो यक्कृतः कामशास्त्रविचारो येन । वात्स्यायनादिभ्योऽपि कुशल इत्यर्थः। अपिच । श्लयकुसुमा आकुला व्यस्ताः कुन्तला यस्याः सा ॥ अपिच नखैर्विलिखितोsङ्कित निबिडः स्तनभारो येन । एतेन बाह्यरतमुक्तम् । तदुक्तं भरते -'आश्लेषचु-
लोला ख्यातं रसश्चैरवधृष्टसंज्ञम्॥' इति । कीदृशम् । पुलकावल्या रोमाश्च पङ्क्त्या ललितौ मनोहरौ कपोलौ यस्य तम् । पुनः कीदृश्या मया । मदनचिन्तया जनितं जलं प्रस्वेदस्तेन सिक्तमाद्रॆे कलेवरं यस्यास्तया । क्वचित् श्रमजलसक्तकलेवरयेति सुगमः पाठः । कीदृशं तम् । वर उत्कृष्टो यो मदो हर्षस्तेनातिशयेन लोकं चचलम् ।'काये च कलेवरम्' इति विश्वः ॥५॥ पुनः कीदृश्या मया । कोकिलेति । कोकिलस्य कलो ऽव्य- क्तो मधुरो यो रवः शब्दस्तद्वस्कूजितं शब्दितं यस्यास्तया । अनेन कूजिताख्यं बाह्यरतमुक्तम् । तदुक्तं पञ्चसायके-'पिकशिखिकलहंसप्राय- पक्षिव्रजानां स्वरितमनुकरोतीत्यङ्गना मन्मथार्ता | मुखदशनपिबन्ती तत्कवीन्द्रा वदन्ति स्तनितमिति सभा सा चित्रसंभोगकाले॥' इति। ननु वात्स्यायनादिशास्त्रेऽन्य एव क्रम उक्तः । तदुक्तम्-'आश्लेषंप्रथमं कुर्याद्वितीयं चुम्बनं तथा । तृतीयं नखदानं च दंष्ट्राषातं चतुर्थकम् ॥ पचमं क्षेपणं प्रोक्तं षष्ठं प्रहरणं तथा । सप्तमं कण्ठशब्दश्च बन्धाख्यं चाष्टमं रतम् ॥' इति । तथा चात्र कण्ठशब्दस्य सप्तमरतस्यायग्ने वक्ष्यमाणनखदानादिरतात्प्राकरणे श्रीकृष्णस्य रसिकताभङ्गः स्यादित्यत आह-जितेति । जितोऽवशातो मनसिजतन्त्रस्य कामशास्त्रस्य विचारो येन तम् । अयं भावः । चःतुःषष्टिकलाकुशलस्यापि परमस्त्रीनायकस्य जगदीश्वरस्य स्वानुकूलोत्तमनायिकासंनिधौ रसम?मतया क्रमस्मरणाभावान्न दोषः । तदुक्तम् —'रतिचक्रप्रवृत्तस्य नैव शास्त्रं न च क्रमः' इति । पुनः कीदृश्या । श्लथाः केशग्रहणपूर्वकचुम्बनादिदानेन शिथिलाः कुसुमैराकुला व्याप्ताश्च कुन्तला यस्यास्तया । नखेन लिखितः क्षतयुक्तः कुतो घनस्तनभारो येन तम् । अत्र लिखितपदोपादानात्पङ्कजपत्राख्यं नखदानमुक्तम् । तदप्युक्तं पञ्चसायके-'अस्यूर्ध्वमेकं स्फुरितोर्ध्वरेषं प्राहुः क्षतं पङ्कजपत्रसंशम् । दोर्मूलनामिस्त्रनवक्षसंधावस्योपयोगं मनुते महेशः||' इति।'तन्त्रं प्रधानशा-