पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् [सर्गः २ किसलयशयननिवेशितया चिरमुरसि ममैव शयानम् । कृतपरिरम्भणचुम्बनया परिरभ्य कृताधरपानम् ॥ सखि० ॥४॥ अलसनिमीलितलोचनया पुलकावलिललितकपोलम् । श्रमजलसर्कलकलेवरया वरमदनमदादतिलोलम् ॥ सखि० ॥५॥ ॥ + ॥ ३ ॥ अपिच | किसलयेति । किसलयरचिते शयने निवेशितया । सङ्केत- तल्पेऽभिमुखोपनिष्टां गाढं पतिः ष्यत सापि कान्तम् । अन्योन्यगात्रे विशतीव रागात् द्वन्द्रं तदाकृष्टजलाभिधानम् ॥ अपिच ममैवोरसि चिरं शयानम् । एतच्चा- लिङ्गनभेदापेक्षयोकम् । तथाच कोकोक्तम्- 'असकृदतनुगाढा श्लेषलीलां वितन्वञ्ज- नितजघनबाहुव्यत्ययं स्पर्धते तम् । मिथुनमथ मिथोऽङ्गे लीयते निस्तरङ्गं निगदति तिलपूर्व तण्डुलं तन्मुनीन्द्रः ॥ अपिच | कृते परिरम्भणचुम्बने यया सा । एतद- प्यालिङ्गनभेदापेक्षयोक्तम् 'जघनकलितकान्तश्रोणि रथ्योपरिष्टाद्रजति यदिह नारी सस्तकेशोत्तरीया। करजरदनकृत्यं चुम्बनं वा विधित्सुः कलयति जघनोप- श्लेषणं तन्मुनीन्द्रः' | अपिच आश्लिष्य कृतमधरपानं येन । अत्रायं भावः । 'अधरदशनजिव्हापानमालिङ्गय कुर्याभयनवदनपादैश्चेति जिहाप्रवारम् अहणमथ विदध्याद्वस्त्रकेशस्तनोरःकुचयुगभगदेशे मर्दनं चोरुयुग्मे ॥ अपिच । अलसेति । अलसे च ते निमीलिते च तादृशे लोचने यस्याः सा । एतेनालिङ्गक- । कामविकारः सूचितः । तथाचं नायिकालक्षणे – 'यत्र मूर्धानमारभ्य पादपर्यन्ततः क्रियाः । अनेन विहिता यस्यास्तदालिङ्गकमुच्यते ॥ अपिच । पुलकावल्या रोमाञ्च- चाटु प्रिये वाक्ये' इति कोशः । 'जघनं कटेरथोभागे* इति हारावलिः ॥ ३ ॥ पुनः की- दृश्या मया । किसलयशयनेति । किसलयशयने नवपलवशय्यायां निवेशितया । कीदृशं तम् । चिरं बहुकालं व्याप्य ममैवोरसि शयानं सुप्तम् । आलिङ्गनविशेष क्षीर- । नीराख्यमुक्तम् । तलक्षणं च पञ्चसायके --' गात्रोपरिष्टादथतन्य (?) मध्ये संलीयते यन्मिथुनं 1 शरीरम् | कामाभिमानाक्षतपूर्णचेष्टं तत्क्षीरनीराख्यमिदं प्रदिष्टम् ॥' कीदृश्या मया । कृते परिरम्भणचुम्बने यया तादृश्या । एतच्च जवनोपश्लेषरूपालिङ्गनाभिप्रायेण कम्- 'जवनकलितकान्त श्रेणिोरष्टाजति यदि नारी सस्तकेशोत्तरीया । करजर- दनकृत्यं चुम्बनं वा विधित्सुः कलयति जघनोपश्लेषमेनं मुनीन्द्रः ॥ इति । चुम्बनभपि प्रकृते समौष्ठाख्यं बोध्यम् । तदुक्तं पचसायके-'ओडेन कान्तस्य मुखौष्ठयुग्मं निपीड्य जिहाविततालुभागम् । चुम्बोत्सवं नृत्यति यत्र नारी प्रोक्तं समौष्ठं कबिभिः पुराणैः ॥ इति । कीदृशं कृष्णम् । परिरभ्यालिङ्गय कृतं मदीयाधरपानं येन तादृशम् । अनेन ला- लाटिकमुक्तम् । उक्तं च-'अन्योन्यसंसक्तमुखं कपोलं नेत्रं ललाटं हृदयं च बाहुम् । सानन्दभावं श्रममीलिताक्षं लालाटिकं तत्त्वविदो बदन्ति ॥” इति । 'पलवोsस्त्री किस- लयं' इत्यमरः ॥ ४ ॥ पुनः कीदृश्या । अरूसेति । अरूसे आलस्ययुक्तेऽतपत्र निमी- लिते लोचने यया । अत्र निमीलितमित्युपादानादवभृष्टाख्यचुम्बनमुक्तम् । उक्तं च- 'इस्तेन नेत्रे च निमील्य भर्तुः संमीलिताक्षी वदने स्वजिह्वाम् । निक्षिप्य च क्रीडति यत्र १ 'सिककलेवरया' इति पाठः । तदु- Dgliced by Google