पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् [सर्गः २ विशदकदम्बतले मिलितं कलिकलुषभयं शमयन्तम् । मामपि किमपि तरङ्गदनमदृशा मनसा रमयन्तम् ॥रासे०॥ ८ ॥ श्रीजयदेवभणितमतिसुन्दरमोहनमधुरिपुरूपम् । ४२ हरिचरणस्मरणं प्रति सम्प्रति पुण्यवतामनुरूपम् ॥रासे० ॥ ९ ॥ आश्रितो मुनिमनुजसुरासुरलक्षणो वरपरिवारो यस्य तम् ॥ ७ ॥ विशदेति । विशदकदम्बतले मिलितम् । अर्थान्मुन्यादिभिरुपस्थितम् । अत एव कलिकलुष भयं रामयन्तं पापं नाशयन्तम् । पुनः किं कुर्वन्तम् । मनसा करणभूतेन तरलतरदनङ्ग- दृशा । तरला चासौ तरङ्गदङ्गा च । तरङ्गन्समूर्च्छन्ननो यत्र तथाविधया छा मामपि रमयन्तम् । अपीति गोपीश्च । अत एव कलिकलुषभयं कलहकालुष्यभयं शम- यन्तम् । अत्र तरङ्गदनङ्गेति सरसदृष्टिरुता ॥ ८ ॥ श्रीजयदेवेति । अत्रालाप- स्तेनपाट: । हरिचरणस्मरणं प्रति हरेः कृष्णस्य चरणं रासक्रीडाद्याचरणं तस्य स्म • रणं प्रति इदं श्रीजयदेवभणितम् । राधया अष्टपयादौ स्मरति मनो ममेत्यादि मणि- तम् । संप्रति इदानीमपि पुण्यवतामनुरूपं योग्यम् । सतां हरिचरणस्मरणे हेतुर्भवतीति यावत् । किंभूतम् । अतीव सुन्दरम् । तथा मोहनमधुरिपो रूपं यत्र तत्तथा । अत्र . 'मुनियगणैर्लयमामनन्ति' इति लयो नाम छन्दः । अत्र सर्वा अपि जातयो रासा भव- न्तीति केचित् । यदाह – 'सयलाउ जाईड एत्थावसेण एत्थ वसन्ति । रासा बन्धो रसायणं विगोठ्ठीसु' ॥ ९ ॥ इदानीं राधा तदेव रहस्यं मह्यन्तरेणाह। रागो धन्या- सिको यत्र तालो वर्णयतिः स्मृतः । चम्पूबन्धप्रयोगान्ते गमकानेकविस्तरः ॥ तदन्ते स्युः खरास्तेनाः पाटाः शुचिरसाञ्चिताः । प्रबन्धोऽयं मुररिपोः पुरस्ताद्रलक- ठिका* || इति मधुरिपुरनकण्ठिका नाम पञ्चमः प्रबन्धः भैरवरागेण गीयते- गुणलक्षणम् ॥ ७ ॥ पुनः कीदृशम् । विशदेति । विशदस्य कदम्बस्य तले मूले मि- सितं लमं, मत्संकेतीकृतकदम्बतले मदपेक्षयामत एव गत्वा केचन न मां पश्यन्त्विति म प्रतारणाय वा निलीय स्थितं कृष्णं मे मनः स्मरतीत्यर्थः । पुनः कीदृशम् । कलि: प्र- णयकलहस्तस्माचत्कलुषं चित्तकश्मलं 'अहं संकेते समागता असौ भागतः प्रायशोऽन्यवाह. भासको भविष्यत्यतः परं यथायास्यति तदा मया न संभाषणीयः' इत्येवंरूपम् । एकाकी कथं कथमत्र तिष्ठामीति च तवयं कदम्बमूलादुपेत्य चाटूक्तिभिः शमयन्तमित्यर्थः । यद्वा । कलेः कलियुगस्य यत्कलुषं पापं तद्भयं शमयन्तमित्यर्थः । पुनः कीदृशम् । किमप्यनि- वचनीयमेव यथा स्यात्तथा उद्गच्छन्ननः कामो यत्र एतादृश्या वृशा दृष्टया मनसा च मामपि रमयन्तमित्यर्थः । मामपीत्यपिशब्देन सोत्कण्ठोत्तयारमपि हरेः कस्यचिद्योको- त्तरप्रणयपात्रमासं नस्वेतादृश्योऽन्या वध्व इति ध्वनितम् । 'कलिः स्यात्कलहे झूले कलिरन्त्ययुगे युधि' इति विश्व: । 'कलुषं त्याविलैनसोः' इत्यपि ॥ ८ ॥ श्रीजयदेवेति । श्रीजयदेवकवेरिदं भणितं पुण्यवतां कृष्णस्मरणानुकूलं दृष्टवतां हरिचरणस्मरणं प्रति संप्रति कलौ अनुरूपं योग्यम् । कीदृशम् । अतिसुन्दर मोइनं गोपवधूमोशन- कारि मधुरिपोः कृष्णस्य रूपं वृत्तम् । अनायासतो इरिस्मरणं भवतीति भावः ॥ ९ ॥ Google Dgilized by I