पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् जलदपटलचलदिन्दुविनिन्दकचन्दन तिलकललाटम् । पीनपयोघरपरिसरमर्दननिर्दयहृदयकपाटम् ॥ रासे० ॥ ६ ॥ । मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारम् पीतवसनमनुगतमुनिमनुजसुरासुरवरपरिवारम् ॥ रासे० ॥ ७॥ येन ! पुनश्च करौच चरणौ च उरच तेषां समाहारः करचरणोरः । प्राण्यत्वात्समाहारः । 'अमूर्धमस्तकात्खानादकामे' इति सप्तम्या अलुक्समासः । तत्र स्थितानां मणिगण- भूषाणां किरणैर्विभिन्नं तमिस्रं येन स तथा ॥ ५ ॥ जलदेति । जलदपटलं घनस- मूहः वळतः संभजमानस्येन्दोश्चन्द्रस्य विनिन्दकश्चन्दनतिलको ललाटे यस्य । वर्तुल इति यावत् । केचिञ्चलदिति पठन्ति । जलदपटलं गच्छत् इति व्याख्येयम् । तत्पक्षे वंशे वाद्यमाने मूर्त: कम्पेन ललाटे तिलकं चलदिव दृश्यते । अत्र ललाटस्य श्यामत्वात्तिलकस्य गौरत्वान्मेषचन्द्राभ्यामुपमानोपमेयभावः ॥ अपिच पीनौ घनौ यौ खनौ तन्मण्डलमर्दने निर्दयं हृदयकवादं यस्य । चलदित्यत्रापि तथैव ॥ ६ ॥ मणिमयेति । मणिमये मकराकारे मनोहरे थे कुण्डले ताभ्यां मण्डितोऽलंकृतो गण्डो यस्य । अपि च उदार दक्षिणम्। किंच पीते वसने यस्य | किंच अनुगत wwww. मयैन सहेति तस्य स्मरणमुचितमेवेति ध्वनितम् । पुनः कीदृशम् । करयोश्चरणयो- रसियानि मणिमयानि भूषणान्यलंकरणानि तेषां किरणैर्विभिन्नं नाशिवं तमित्रं येन तम् । एतेन प्रथमाभिसारे स्वकीयालंकारकिरणैरुयोते सति लज्जायाः परावर्तमानां मां सदानीय तां चेष्टां कृतवान् । येन तं क्षणमपि मनो न विस्मरतीति ध्वनितम् । 'अ- न्वकारोऽसियां ध्वान्तं तमिस्रं तिमिरं तमः" इत्यमरः ॥ ५ ॥ पुनः कीदृशम् | जलदु- पटखेति । जलदपटले मेषसमूहे चलन्संचरन्य इन्दुश्चन्द्रस्तस्य विनिन्दकस्तच्छोमाति. शायी चन्दनविन्दुर्मण्डलाकृति तिलकं यत्र तादृशं ललाटं यस्य तम् । पुनः कीदृशम् । पीनी मांसली पयोधरौ स्तनौ तयोः परिसरस्य पर्यन्तभागस्य मदने निर्दयहृदयकपाटं क पाटवद्विस्तीर्ण हृदयं यस्य तादृशम् ॥ ६ ॥ पुनः कीदृशम् । मणिमयेति । मणिमये मणिस्खचिते मकरवन्मनोहरे ये कुण्डले ताभ्यां मण्डितौ कपोलौ यस्म तम् । पुनः कीट- शम् । उदारमौदार्यगुणयुक्तम् । अत्र रइसि मया यथोचितं तत्सर्वं तरक्षणमेव पूरितवा- निति स कथंचन स्मर्यंत इति ध्वनितम् । पुनः कीदृशम् । पीतं बसनं वस्त्रं यस्य तम् । मौदायाँपपादक विशेषणमाइ अनुगता आश्रिता ये मुनयो नारदादयः, मनुष्या मनुजा भीष्मादयः, सुरा इन्द्रादयः, असुराः प्रहादादयस्त एव वराः श्रेष्ठाः परिवाराः परिजना यस्य तम् । तथा च तैरप्यभिगतः सुमनः फलैः सततं सेव्यत इति तस्यौदार्य ख्यासमे वेति भावः । 'परिवारः परिजने खड़कोशे परिच्छदे' इति विश्वः । 'दानमभ्युपपत्तिश्च तथा च प्रियभाषणम् । स्वजनेऽपि परे वापि तदौदार्यमिति स्मृतम् ॥” इति नायकौदार्य- ●Dglized by Google