पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् [ सर्गः गोषकदम्बनितम्बवती मुखचुम्बनलम्भितलोभम् । बन्धुजीवमधुराधरपल्लवमुल्लसितस्मितशोभम् ॥ रासे० ॥ ४ ॥ विपुलपुलकभुजपलबवलयितबल्लवयुवतिसहस्रम् | करचरणोरसि मणिगणभूषणकिरणविभिन्नतमिस्रम् ।। रासे०॥५॥ खण्डकानां मण्डले संघातेन वलयाकारेण वेष्टिताः केशा यस्य तथा प्रचुर धनं पुरंदरधनुषानुरजितो मेदुरः सान्द्रस्निग्धो मुदिरो मेघस्तद्वत्सुनेशो दर्शनीयस्तम् ॥३॥ गोपेति । गोपसमूहस्य नितम्बवतीनां पृथुनितम्बानां मुखचुम्बने लम्भितः प्रापितो लोभो येन । अर्थान्मुखस्य अथवा गोपाङ्गनानां मुखचुम्बनेन लम्भितो लोभो येन । अथवा गोपवधूचुम्बने लम्बितो लम्बीकृतो लाभो येनेति पाठान्तरं युक्तम् । अपि च बन्धुजीववत् मधुरो मनोहरोऽधरपल्लवो यस्य । अपि च उल्हसिता स्मितेन शोभा यस्य तम् ॥ ४ ॥ चिपुलेति । विपुलपुलकौ पृथुरोमाचौ यौ भुजौ तौ पलवाविव ताभ्यां वलयितं वलयीकृतं बल्लवयुवतीनां गोपाङ्गनानां सहस्रं ४० स्यैव दर्शनं भवतीति ध्वनितम् । पुनः कीदृशम् । प्रचुरैर्बहुलैः पुरन्दरधनुभिरनुरक्षितः संवलितो यो मैदुरः सान्द्रसिग्धो मुदिरो मेषस्तद्वच्छोभनो वेश आकृतिर्यस्य तादृशम् । अत्र नानामणिखचितहारकेयूरादीनामिन्द्रधनुः साम्यम् । श्रीकृष्णस्य मेघसाम्यम् । इयं चाभूतोपमा शेया । कुतः । प्रचुरपुरन्दरधनुर्भिरनु रजिसमेघस्याप्रसिद्धेः। 'समौ चन्द्रक- मेचकौ' इत्यमरः । 'बाईकण्ठसमे वर्णे मेचकं ब्रुवते बुधाः' इति काव्यः । 'शिखण्डस्तु पिच्छनई नपुंसके' इत्यमरः । 'वेलितं स्याद्वरूमितम्' इति च । 'मुदिर: कामुकोऽम्बुद: # इति विश्वः । 'वैशो वेश्यागृहे प्रोक्तो नेपथ्ये गृहमात्रके' इति च ॥ ३ ॥ ननु एवं चेत्त- स्मिन्ननुरागिणि चतस्तदा तं किमिति नानुसरसीयत आइ-गोपकदम्बेति । गोप- कदम्बस्याभीरसमूहस्य या नितम्बदत्यः प्रशस्तनितम्बशालिन्यः स्त्रियस्तासां मुखचुम्बने लम्भितः प्रापितो लोभो येन तम् । तथा च मदयेऽप्यन्यास्वनुरतः स इत्येतावदह- मसहमांना तं नानुसरामीति भावः । यद्वा नन्वयं त्वय्यनुरागरहितोऽन्याभिर्गोपीभिः सह क्रीडतीति स्वं तद्गुणकीर्तनमपि किमिति करोषीत्यत आह -गोपकदम्बनितम्भव- तीभिर्मुखचुम्बने लम्भितः प्रापितो लोभो यस्य तादृशम् । तथा च तासु सहजसेड़ो मास्ति परंतु बजारकारेण ताभिचुम्बने लोभः कारितः । सहजस्तु प्रणयो मय्येव तस्येति भावः । पुनः कीदृशम् । बन्धुजीवपुष्पवन्मधुरो मनोहरोडवर एक पलवो यस्य तम् । उछसितान्तरीषद्धास्थेन शोभा यस्य तम् । तथा च बन्धूककुन्ददर्शनेनापि तदीयाधरहा- स्यस्मारकेन स एव स्मर्यंत इति भावः । 'रक्तकस्तु बन्धूको बन्धुजीवकः' इत्यमरः । 'सुरसो मधुरः प्रोक्तो मधुलेशे मनोहरे' इत्यनेकार्थः ॥ ४ ॥ पुनः कीदृशम् । विपु केति । विपुलः पुरुको रोमानो यत्र ताभ्यां भुजपलवाभ्यां पलववत्कोमलाभ्यां बाहुभ्यां वलयितं वेष्टितं मलवयुवतीनामाभीरपत्नीनां सहस्रं येन तम् । अत्र वलयितमित्यनेना- बशया तासां बेष्टनमात्रं न तु गाढालिङ्गनं सरहस्य चुम्बनालिशनादिकं तस्य १ 'मणिमयभू.' इति पाठः । Orgoliced by Google {