पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ सर्गः २] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् ३९ मेवार्थे विशिनष्टि वर्णयतितालेन । 'लघुश्चैको द्रुतद्वयम्' इति ॥ १ ॥ संचरदिति । तत्र पूर्वे ध्रुवपदं व्याक्रियते - रासेति । हे सखि, मे मनो हरिं स्मरति । स्मरतीति स्मृतेः पूर्वानुभूतार्थविषयत्वादृष्टचरस्य हरेश्वरितं साक्षात्करोति । इह क्रीडावने रासे गोपक्रीडायां विहितो विलासो विभ्रमो येन स तं तथा । कथं यथा भवति । कृतपरिहासं कृतनर्मकेलि यथा स्यात्तथेति ध्रुवः । अथ पदानि । तंत्राद्यं पदम् । संचरदिति । संचरत्या संक्रममाणयाधरसुधया मधुरो ध्वनियंत्र - तद्यथा स्यात्तथा मुखरितो मोहनो मोहकारी तन्नामा वंशो येन । अत एव चलित- हगवलं नेत्रप्रान्तं यथा स्यात्तथा चञ्चलो यो मौलि: शेखरः शिरो वा तेन कपो- लयोर्विलोलौ वतंसौ यस्य स तथा । किमुक्तं भवति । शिरःकम्पदोषं विना शेखरकुण्डलचालने वादकवैचित्री । अथवा वंशश्रवणाचलितहगवला या गोप्य- स्वासु चचलो यो मौलिस्तेन कपोलविलोलवतंसम् । अत्राधरसुधापानेन तदान- नस्य चन्द्रादप्यानन्दकत्वं द्योतितम् ॥ २ ॥ चन्द्रकेति । चन्द्रकचारुमयूरशि . गुर्जरीरागेण यतिताले च गीयते ॥ प्र० ५॥ संचरधरसुधामधुरध्वनिमुखरितमोहनवंश चलितहगञ्चलचञ्चलमौलिकपोलविलोलवतंसम् । रासे हरिमिह विहितविलासं स्मरति मनो मम कृतपरिहासम् ॥ ध्रुवम् ॥ २ ॥ चन्द्रकचा रुमयूरशिखण्डकमण्डलवलपितकेशम् । मचुर पुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशम् 2 1 i इति विश्वः । 'ईर्ष्यामाहुः समानेषु मानादानादमर्षणम्' इति ॥ १ ॥ राधा किमुवाचे- त्याह-संचरदिति । गीतस्यास्य गुर्जरी रागः । तालस्तु प्रतिमठः । गीतार्थस्तु - मंम मनोऽन्तःकरणं हरिं स्मरति । कीदृशं हरिम् । रासे गोपक्रीडाविशेषे विहितः कृतो विलासो येन तादृशम् । तथा कृतः परिहासो येन तादृशम् । एतच्च ध्रुवपदम् । कीदृशं इरिम् । संचरता प्रसानक्रमेण स्फुरताघरेणोष्ठेन सुधैव मधुरो ध्वनिर्यस्य तादृशो मुख- 3 • रितो वादितो मोहनवंशो मोहनकारी वेणुर्येन तादृशम् । तद्वेणुरवेण मोहितं मे मनः ॥ रासे० ॥ ३ ॥ i कटीकृतस्य स्वरविशेषस्यान्येनाशानात्स्वयमेव परितो दोषादोलायमानो मौलिर्मस्तकं यस्य अत एव कपोले विलोलश्चपलो वर्तसः कर्णाभरणं यस्य तादृशम् । 'पीयूषममृतं सुधा' इत्यमरः । 'चूडा किरीटं केशाश्च संयता मौल्यस्त्रयः' इति च 'पुस्युप्तंसावतंसौ द्वौ कर्णपूरे च शेखरे' इति च ॥ २ ॥ ननु व्यासङ्गादिना विस्मार्यतामित्यत आह - चन्द्र- केति । चन्द्रकेण विचित्रचिहेन चारुणा मनोहराणां शिखण्डकानां मयूरपिच्छानां म. ण्डलेन समूहेन वलयिता वेष्टिताः केशा येन तादृशम् । तथा चात्र मयूरादिदर्शनेऽपि त कृतापराधमपि तं स्मरतीति भावः । पुनः कीदृशम् | चलितः कथंचिन्मूर्च्छा प्रति रोषे प्रकटीकृते तत्संमानाय घूर्णितो दृगचलोडपाङ्गो यत्र एतादृशधभलः स्वयमेव वेणुद्वारा प्र Dgilized by Google