पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 गीतगोविन्दकाव्यम् द्वितीयः सर्गः २ अक्लेशकेशवः । गतान्यतः | विहरति बने राधा साधारणमणये हरौ विगलितनिजोत्कर्षादीर्ष्यावशेन कचिदपि लताकुञ्जे गुञ्जन्मधुव्रतमण्डली- मुखरशिखरे लीना दीनाप्युवाच रहः सखीम् ॥ १ ॥ [सर्ग: २ धन्नासीरारोण गीयते ॥ भुवनेशपादकमलं प्रणम्य कुम्भो नृपतिरतिविमलम् । जयदेवरचितमातुं युनक्ति युक्तेन धातुना गातुम् ॥ इदानीं हरेरभिलाषेयरूपदोलारूढचित्ता राधा सखीमाह । पूर्वसर्गेऽभिलाषचि- न्तारूपं दशाद्वयं निरूप्य स्मरणलक्षणदशा प्रदर्शनार्थ द्वितीयसर्गारम्भः ॥ विहर- तीति । राधा सखी रहोऽपि गोप्यमप्युवाच । यद्यपि लताकुओं खरहस्यं वफुं नोचितं तथापि स्मरपारवश्यविह्वलतया गोप्यागोप्यं नाशासीत् ।क्क सति । साधारणप्रणये सकलगोपिकासु समानस्नेहे हरौ बने वृन्दावने विहरति सति । किंभूता राधा । विगलितनिजोत्कर्षादन्यस्त्रीभ्यो निजातिरेकापगमात् । ईर्ष्यावशे- नासहिष्णुतयान्यतो गता। यत्र स्थिता अन्याभिः क्रीडन्तं न पश्यतीति । अत्रायें पुनर्विशेषमाह । गत्वापि क्वचिदपि कुञ्जे लीना । किंभूते कुजे । झङ्कारपरभ्रमरश्रेण्या वाचालाप्रभागे । अत एव दीना । अत्रापि तैरधिककामोद्दीपनात् । अत्र 'रस- युगहयैन्स म्रौ स्लो गो यदा हरिणी तदा' इति हरिणी छन्दः । विरहासहिष्णुता- लक्षणो विप्रलम्भो रसः । रतेरेवात्युकासवदलंकारता । वर्णसाम्येनानुप्रासश्च । प्रौढा नायिका । अत्र गलितनिजोत्कर्षवशाहीनस्य वचनासक्तेर्यत्सखीं प्रति रहस्य- कथनमपिशब्देन योग्यते तन्त्रितरामौचित्यचमत्काराय यदाह – 'उचितस्थानवि- न्यस्तैर्निपातैरर्थसंगतिः । उपादेयैर्भवत्येव सचिवैरिव निश्चला ॥” इति । श्लोकोक- एतद्वचनैः संख्या प्रतिबोधितायाः समक्षमन्याभिः सह निर्भर क्रीडन्तं हरि दृष्ट्वासह- मानायाः अतएव कचिस्कुआन्तरगताया राधाया अवस्थान्तरं वर्णयितुमाह --विहर. तीति । राधा सख इति वक्ष्यमाणमुवाचोक्तवती । कीदृशी । ईर्ष्यावशेनान्यतोऽन्यत्र गता | ईर्ष्यायां हेतुमाह — विगलितेति । विगलितो गलितो निजः स्वीय उत्कर्षो- इहमेव हरे: प्रणयिनीत्येवंरूपस्तस्मात् । क सति । इरौ कृष्णे बने विरति सति । कीदृशे हरौ । साधारणो राधायामन्यगोपाङ्गनायां च समानः प्रणयः प्रेम यस्य तादृशे । अत एव दीना दुःखिता। पुनः कीदृशी । कचिदपि लताकुने लताभिर्वडीभिरतिनिविडे कुले लीना निभृतं निलीय स्थिता । कीदृशे कुजे । गुञ्जन्तः शब्दायमाना मधुवा भ्रम- रास्तेषां या मण्डली पस्तिया मुखरं वाचालं शिखरमप्रभागो यस्य तादृशे । अत्र कु अपदेनैव लताच्छादितगृहातौ लतापदमतिनिबिडत्वसूचनाय । 'प्रणयः प्रेम्णि विश्रम्भे' by Google Dgilicad bby