पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् [D [सर्गः १ रामोल्लासभरेण विभ्रमभृतामाभीरवामभ्रुवा मभ्यर्णे परिरभ्य निर्भरमुर: प्रेमान्ध्या राघया | साधु त्वदनं सुधामयमिति व्याहृत्य गीतस्तुति- व्याजादुद्भटचुम्बितस्मितमनोहारी हरिः पातु वः ॥ १२ ॥ इति श्रीजयदेवकृतौ गीतगोविन्दे सामोददामोदरो नाम प्रथमः सर्गः॥१॥ सुवृत्तत्वं साधुता च विराजते । काव्यस्य सुजनस्येव यद्यौचित्यवती किया ॥ इति ॥ ११ ॥ इदानीं सर्गान्ते कविराशिषमाशास्ते - रासोल्लासेति । हरियो युष्मान्पातु । किंभूतो हरिः । राधया गीतस्तुतिव्याजात् । अमृतमयमुखनिर्ग- तत्वात् । इदं गीतममृतमेवेति मिषेणेति व्याहृत्य उत्कटं यथास्यात्तथा चुम्बितः । इतीति किम् । साधु युतमेतत् यद्गीतममृतकल्पम् । यतस्त्वद्वदनं सुधामयम् । अत्र विकारे मयद् । अत्रान्यनारीसंनिधौ चुम्बनमयुक्तमिति गीतस्तुतिव्याजोक्तिः । किं कृत्वा । निर्भरं गाढं यथास्यात्तयोरः परिरभ्य। क्व । आभीरवामञ्जुर्वा गोपाहना- नामभ्यर्ण समीपे । किंभूतानां वामभ्रुवाम् । रासो गोपक्रीडा तस्योल्लास: संहर्षप्रादु- र्भावस्तस्य भरेण विलासवतीनाम् । किंभूतो हरिः । स्मितेनान्यनारीणां मनो हर्तु शीलं यस्य स तथा । अथवा अन्यनारीसमीपे आलिङ्गने लजावहमिति तत्परि- जिहीर्षया राधाया हेतुगर्भ विशेषणमाह । प्रेमान्धयेति । 'कामान्धः किंचिन्न पश्यति' इति वचनादतिप्रणा व्याकुलयेत्यर्थः । अत्र विप्रलम्भः शृङ्गारः । आ- शीर प्रस्तुतप्रशंसाव्याजो तयाक्षेपहेतवोऽलंकाराः ।प्रगल्भा नायिका । मुग्धो नायकः । अत्र 'तरुमिव कमितारं चुम्बनार्ताधिरोढुं यदभिलषति नारी तच्च वृक्षाधिरूढम् ॥' इति कृत्वा वृक्षाधिरूढमाश्लेषः । 'आभीरजाश्रुम्बनहार्यचित्तामिति ॥' 'नमितकमिदमाहुर्योषितो यद्वलेन प्रियमुखमभिवक्रं न्यस्य तिष्ठन्त्युदास्या' इति रतिरहस्यात् नमितकं नाम चुम्बनविशेषः । शार्दूलविक्रीडितं छन्दः । अत्र राधाया वीरायितेनोत्साहात्मकस्य वीररसस्याविर्भावासदुपयोगिनी आरभटीवृत्तिः । द्वित्रिपदे तु पाचाली रीतिः । अर्धमागधी गीतिश्चेति । स्थितलयं गानम् ॥ १२ ॥ यत्सर्ग संविधातुं नृपतिगुणनिधि सर्गकर्तुर्निसर्गा- च्छिक्षाभूत्सर्गवर्गः सकलकलितॄणां स्वर्गिणामत्रिणां च । किं चेति । पिकानां कोकिलानां कुहू कुहूरित्येवंरूपाः शब्दा उन्मीलन्ति प्रकटीभवन्ति 1 कीदृश्यः | कलोत्तालाः कला अभ्यक्तगिरो मधुराः, उत्ताला उद्भटाः । कस्मात् । लिग्धा ये रसाला आम्रवृक्षास्तेषां ये मौलयोऽग्रभागास्तत्र यानि मुकुलानि तान्यालोक्य वीक्ष्य यो हर्षोदय आनन्दाविर्भावस्तस्मात् । अत्र कचित् 'अद्योत्सङ्ग इति पाठः । तत्राद्य वसन्ते १ इदं पथं रसमञ्जरीव्याख्याकूता न टीकितं वा तट्टीका लेखकादिप्रमादानमा वेति नावगम्यते । Google Dgilized by