नित्योत्सङ्गवसद्भुजङ्गकवलक्लेशादिवेशाचलं[१] |
श्रीखण्डशैलानिलो मलयाचलपवन: ईशाचलं हिमाद्रिमनुसरति याति । ईशश्चा- सावचलश्चेति । अथवा ईशायाः पार्वत्याः गुरुरचलः । मध्यमपदलोपात् टाब्विधि- नाच् । वा ईशोपलक्षिताचल इति । अथवा ईशाचलं कैलासमनुलक्षीकृत्य सरति । कया । प्रालेयप्लवनेच्छया हिमावगाहनेच्छया । अत्रोत्प्रेक्षितं हेतुमाह - नित्येति । नित्यमुत्सुङ्ग वसन्तो ये भुजङ्गा एव भुजङ्गकास्तेषां यद्वलनं तस्मात् तत्र वा यः क्लेशः तस्मादिव । अथ भुजङ्गकाङ्गद्वलनं तेन यो जायमानः क्लेश: तस्मादिव ॥ अथवा कवलनं कवलो दशनं तस्मात् । सर्पदष्टो हि तत्तापोपशान्तये शीतलेच्छुर्भवति ॥ किंचेति विभावान्तरमाह । पिकानां कोकिलानां कुहूः इति गिर उन्मीलन्ति प्रादुर्भवन्ति । किंभूताः । कलोत्तालाः कलाश्चता उत्ताला उदीर्णाः । कुतः । हर्षोदयात् । किंकृत्वा । स्निग्धानि यानि रसालमौलिषु मुकुलानि चूतशिरस्सु कुद्मलास्तानालोक्य | अथवा स्निग्धानि रसालानां मौलिमुकुलानि चूतशिरांसि अशोकानां च मुकुलानीति आलोक्य हर्षोदयादिति क्रिययोरेककर्तृकत्वात्पूर्वकालता । शार्दूलविक्रीडितं वृत्तम् । अत्र वर्णानुप्रासोपमाहेतवोऽलंकाराः । वैदर्भी रीतिः । अत्र विप्रलम्भाख्यशृङ्गारसूचको रत्याख्यःस्थायीभावः । अत्र विरहिमन:करीरकर्तनकुशलानां स्निग्धरसालमौलिमुकुलामालोकनेन जातहर्षाणां पिकानां गिरां तद्वैरीन्दुविलुण्टाङ्ककुद्दूरूपेण यदुन्मीलनलक्षणं यथाक्रियास्वरूपनिरूपणमकारि तन्नितरामौचित्यकोटिमालम्बते । उक्तंच --'सगुणत्वं
भयं तथा ॥ विषादो जडता निद्रा बहि; चापलं मतिः । इति भावाः प्रयोक्तव्याः शृङ्गारे व्यभिचारिणः ॥' इति । सात्त्विकभावाः शृङ्गारतिलके— 'स्तम्भः स्वेदोऽथ रोमाञ्च स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका मताः ॥' इति । एतेषामवान्तरलक्षणानि ग्रन्थगौरवभयान्न लिख्यन्ते । अत्र सकलाभिशस्यापि व्रजसुन्दरीभिः सह मुग्धतामाश्रित्य तदनुसारेण क्रीडतोऽपि हरेर्न दक्षत्वहानि: । तासां तथैवानुरञ्जनात् । अत एव विश्वेषामनुरञ्जनेनेत्यनेन विश्वानुरञ्जनकत्वंकृष्णस्योक्तमिति भावः ॥ १० ॥ इदानीं राधां शीघ्रं गमयितुं मलयानिलादिदुःसहतामाह--अयुत्सङ्गेति । श्रीखण्डशैलानिलो मलयपर्वतसंबन्धी वायुरीशाचलं रुद्रस्याचलं हिमालयमनुसरति । कस्मादिव । अद्रेर्मलयस्य उत्सङ्गे क्रोडे वसन्तो ये भुजङ्गाः सर्पास्तेषां कवलेनाश्लेषेण जनितो यः क्लेशः संतापस्तस्मादिव । तर्हि हिमाद्रिं किमिति व्रजतीत्यत आह--प्रालेयेति । प्रालेयस्तुषारस्तस्य प्लवनभवगाहनं तस्येच्छया । अत्र सर्पैः कवलितोद्गीर्णस्य पवनस्य तद्विषसंपर्कादधिकं विरहिणां संतापकत्वं ध्वनितम् । न केवलमिदमेव दुःसहं वसन्तेऽपरमपीत्याह ।