पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् नित्योत्सङ्गव सद्भुजङ्गकवलक्लेशादिवेशाचलं भालेयपुवनेच्छयानुसरति श्रीखण्डशैलानिलः । किंच स्त्रिग्धरसालमौलिकुसुमान्यालोक्य हर्षोदया- दुन्मीलन्ति कुहू कुहूरिति कलोत्तालाः पिकानां गिरः ११ श्रीखण्डशैलानिलो मलयाचलपवनः ईशाचलं हिमाद्रिमनुसरति याति । ईशश्चा- सावचलश्चेति । अथवा ईशाया: पार्वत्याः गुरुरचलः । मध्यमपदलोपात् टाब्विधि- नाच् । वा ईशोपलक्षिताचल इति । अथवा ईशाचलं कैलासमनुलक्षीकृत्य सरति । कया । प्रालेयप्लवनेच्छया हिमावगाहनेच्छया । अत्रोत्प्रेक्षितं हेतुमाह - नित्येति । नित्यमुत्सुने वसन्तो ये भुजङ्गा एव भुजङ्गका स्तेषां यद्वलनं तस्मात् तत्र वा यः क्लेशः तस्मादिव । अथ भुजङ्गकायद्वलनं तेन यो जायमान: क्लेश: तस्मादिव ॥ अथवा कवलनं कवलो दशनं तस्मात् । सर्पदष्टो हि तत्तापोपशान्तये शीतलेच्छुर्भवति ॥ किंचेति विभावान्तरमाह | पिकानां कोकिलानां कुहूः इति गिर उन्मीलन्ति प्रादुर्भवन्ति । किंभूताः । कलोत्तालाः कलावता उत्ताला उदीर्णाः । कुतः । हर्षोदयात् । किंकृत्वा । स्निग्धानि यानि रसालमौलिषु मुकुलानि चूतशिरस्सु कुढालास्तानालोक्य । अथवा स्निग्धानि रसालानां मौलिमुकुलानि चूतशिरांसि अशोकानां च मुकुलानीति आलोक्य हर्षोदयादिति क्रिययोरेककर्तृत्वात्पूर्वकालता | शार्दूलविक्रीडितं वृत्तम् । अत्र वर्णा- नुप्रासोपमाहेतवोऽलंकाराः । वैदर्भी रीतिः । अत्र विप्रलम्भाख्यशृङ्गारसूचको रत्या- • ख्यः स्थायीभावः । अत्र विरहिमनःकरीरकर्तनकुशलानां स्निग्धरसालमौलिमुकुलामा- लोकनेन जातहर्षाणां पिकानां गिरां तद्वैरीन्दुविलुण्टाङ्ककुद्दूरूपेण यदुन्मीलनलक्षणं यथा ● क्रियास्वरूपनिरूपणमकारि तन्नितरामौचित्यकोटिमालम्बते । उक्तंच–'सगुणत्वं 3. भयं तथा ॥ विषादो जडता निद्रा बहि; चापलं मतिः । इति भावाः प्रयोक्तव्याः शृङ्गारे व्यभिचारिणः ॥ इति । सात्त्विकभावाः शृङ्गारतिलके– 'स्तम्भः स्वेदोऽथ रोमाथ: स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमञ्जुप्रलय इत्यष्टौ सात्त्विका मताः ॥' इति । एतेषामवान्तर- लक्षणानि ग्रन्थगौरवभयान्न लिख्यन्ते । अत्र सकलाभिशस्यापि ब्रजसुन्दरीभिः सह मुग्ध- तामाश्रित्य तदनुसारेण क्रीडतोऽपि हरेर्न दक्षत्वहानिः । तासां तथैवानुरञ्जनात् । अस एव विश्वेषामनुरञ्जनेनेत्यनेन विश्वानुरजनकत्वंकृष्णस्योक्तमिति भावः ॥ १० ॥ इदानीं राषां शीघ्रं गमयितुं मलयानिलादिदुःसहतामाह - अङ्ग्युत्सङ्गेति । श्रीखण्ड शैलानिलो मलयपर्वतसंबन्धी वायुरीशाचलं रुद्रस्याचलं हिमालयमनुसरति । कस्मादिव । अर्मलयस्य उत्समे कोडे वसन्तो ये मुजङ्गाः सर्पास्तेषां कवलेनाश्लेषेण जनितो यः क्लेशः संतापस्तस्मादिव । तर्हि हिमाद्रि किमिति बजतीत्यत आह–प्रालेयेति । प्रालेयस्तुषा- रस्तस्य लवनभवगाहनं तस्येच्छया । अत्र सर्वैः कवलितोद्गीर्णस्य पवनस्य तद्विषसंपर्का- | दधिकं विरहिणां संतापकत्वं ध्वनितम् । न केवलमिदमेव दुःसहं वसन्तेऽपरमपीत्याह । १ 'अयुत्सङ्ग' 'अद्योत्सङ्ग' इति वा पाठः | २ 'मौलिमुकुलानि' इति पाठः । Pa Dgilied by by Google