पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ • गीतगोविन्दकाव्यम् [सर्गः १ खच्छन्दं व्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्गितः शृङ्गारः सखि मूर्तिमानिव मधौ मुग्धो हरिः क्रीडति ॥ १० ॥ • मधौ वसन्ते मुग्धः सुन्दरो हरिः क्रीडति । क इव । मूर्तिमाञ्ङ्गाररस इव 'पुरुष: प्रमदायुक्तः शृङ्गार इति संज्ञितः' । किं कुर्वन् । अनुरञ्जनेनानुरागेण विश्वेषां सर्वेषां आनन्दं जनयन् हरिः शृङ्गारश्च । पुनश्च किं कुर्वन् । अङ्गैरनोत्सवमुपनयनुपस्थाप- यन् । किंभूतैरङ्गैः । इन्दीवरपशिश्यामलकोमलैनीलोत्पलराजिवच्छचामलसुकुमारैः । पुनः किंभूतः । व्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्गितः प्रतिप्रतीकमाश्लिष्ट: । अभितः सर्वतः । कथं | स्वच्छन्दं यथास्यात्तथा। अथवा यद्यदङ्गं यया यया समासादितं तत्तत्तया तया समालिङ्गितमिति प्रतिप्रतीकशब्दार्थः । अत्र दीपकमलंकारः । वैदर्भीरीतिः । शार्दूलविक्रीडितं छन्दः | रो रसः | वाक्यौचित्यं च । चन्दनचर्चितेत्यत्र उत्क- ण्ठिता नायिका । तल्लक्षणम् - प्रिये कृतव्यलीकेऽपि विरहोत्कण्ठितोन्मनाः ॥ १० ॥ वसन्ते मुग्धो मनोहरो हरिः क्रीडति । किं कुर्वन् । विश्वेषां गोपीजनानामनुरञ्जनेनानुरागं जनयन्नुपस्थापयन् । कीदृशो हरिः । अभित उमयतो वाचैरवयवैरन्तश्चेतसा प्रत्यङ्गं अमङ्गं प्रति स्वच्छन्दं यथा स्यादेवं व्रजसुन्दरीभिरालिङ्गितो मूर्तिमाशरीरी शृङ्गार इव शृङ्गार- स्याशरीरत्वात्क्रीडारसः संभवतीति मूर्तिमानित्युक्तम् । अत्र शृङ्गाररसस्तस्य श्याम- स्वात्कृष्णसादृश्यम् । तदुक्तम् – 'श्यामो भवति शृङ्गारः सितो हासः प्रकीर्तितः' इति । यथा मुग्धो मनोहरः शृङ्गाररसो मधौ वसन्ते क्रीडति सर्वत्र विलसति । किं कुर्वन् । यूनोऽनुरञ्जनेन परस्परानुरागजननेन विश्वेषां प्राणिजनानामानन्दं जनयन् । पुनः किं कुर्वन् । अङ्गैः शृङ्गाररसस्याङ्गभूतैः कटाक्षादिभिरनुभावै रोमाचादिभिश्च सात्त्विकमा- वैः शङ्कासूयादिभिः संचारिभावैश्वानशोत्सवमुपनयन् । न केवलमेतैः पूर्वभावैरपीत्याह-- इन्दीवरेति । इन्दीवरश्रेणिभिः कमलपङ्क्तिभिः श्यामैर्गाढान्धकारनीलनिचोलवनमाला- वनादिभिः कोमचैर्मृदुशय्यादिभिः । अत्र हेतुगर्भविशेषणमाइ–स्वच्छन्दमिति । स्वच्छन्दं यथा स्यादेवं व्रजन्गच्छन्सुन्दरीभिरङ्गमनं प्रति आलिङ्गतः आश्रितः शृङ्गाररसस्याजिनो विभावादीनां मध्ये कयाचित्ताम्बूलस्रक्चन्दनाथुपनयनविभावरूपं कयाचित्सुस्मित- कटाक्षाचनुभावरूपं कयाचिच्छङ्कास्यादिसहचारिरूपं कयाचिच रोमादित्वादिसात्त्विक आवरूप शृङ्गाररसस्याङ्गमाश्रितमिति भावः । विभावादीनामनङ्गत्वं प्रति भरतः --'वि- भावैरनुभावैश्च भावः संचारिसात्त्विकैः । जनितो बोधितः स्फीतो वृद्धः शृङ्गार इष्यते ॥ इति विभावसामान्य लक्षणात् । रसरलप्रदीपिकायाम् – 'भावयन्ति विशेषेण ये रसान्वै मनोहरान् । ते विभावास्तु कथ्यन्ते नाट्यशास्त्रविशारदैः ॥' इति । तत्र शृङ्गारविभावा मरते- नोक्ताः– 'ऋतुमाल्यालंकारैः प्रियजनगान्धर्वकाव्यसेवाभिः । उपवनगमनविहारैः शृङ्गार | रसः समुद्भवति ॥’ अनुभावसामान्यलक्षणं यथा --'यथाव्याक्रियते सम्यग्लोकानुभवगोच- राः तेऽनुभावास्तु कथ्यन्ते नाट्यशास्त्रविशारदैः ॥' तत्र शृङ्गारानुभावाः – 'नयनवदनप्रसादैः स्मितमधुरवचोधृतिप्रमोदैश्च । मधुरै: स्वाङ्गविकारैस्तस्याभिनयः प्रयोक्तव्यः ॥' व्यभिचा- रिसामान्यलक्षणं दशरूपके – 'विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः'। शृङ्गारतिरूके- 'शङ्कासूया तथा ग्लानिर्व्याधिश्चित्तास्मृतिर्वृतिः । औत्सुक्यं विस्मयो इर्षो त्रीसोन्मादौ Google Digilized by