पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

= सर्गः १] रसिकप्रिया–रसमञ्जर्याख्यटीकाद्वयोपेतम् ३३ श्लिष्यति कामपि चुम्बति कामपि कामपि रमयति रामाम् । पश्यति सस्मितचारुतरामपरामनुगच्छति वामाम् || हरि० ||८|| श्रीजयदेवर्भणितमिद मद्भुतेकशवकेलिरहस्यम् | वृन्दावनविपिने ललितं वितनोतु शुभानि यशस्यम् ॥ हरि० ॥ ९॥ E विश्वेषामनुरञ्जनेन जनयन्नानन्दमिन्दीवर- श्रेणीश्यामलकोमलैरुपनयनङ्गैरनङ्गोत्सवम् । स्तथा । अथवा अङ्गनामनामन्तरे माधव इममयै प्रकटयति ॥ ७ ॥ एकस्यैव हरे: प्राकाम्यसिद्धया सर्वाभिः सह्रैककालं क्रीडनमाह -विष्यतीति । स हरी रासरसे कचित्कामपि अन्ययान्यया सह उक्तरीत्या क्रीडति । रामेति रमणशीला तां रमयति । स्मितचारुतरेति रसदृष्टेरुपलक्षणम् । स्मिते हि रतिभाव उल्बणो भवतीति । वामामि- त्यनुनयेऽपि परामुखीलम् । तामनुगमनेन साधयतीति चातुर्यम् । अथवा नानारूपाणि विधाय तया तया सह तया तयावस्थया क्रीडितवान् । अथवा सममेवैकामाश्लिष्य तामाश्लिषन्नेव परां चुम्बति । तत्कुर्वन्नेवान्यां रमयति । चेष्टाविशेषेण तदैवान्यां पश्य- ति । अन्यामनुगच्छतीत्यनुकरोतीति योज्यम् । विष्यतीत्यादिषु क्रमेण शठभृष्टदक्षि- •णानुकूलधूर्ता नायकाः । नायिकास्तु अभिसारिका एव ॥ ८ ॥ उपसंहरति - श्री. - जयदेवेति । अत्र खरा ऋषभाद्याः पाटाः । श्रीजयदेवकवेरिदमद्भुतकेशव केलिरह-

स्यं अद्भुतं च तत्केशवकेलिरहस्यं च तच्चरितं शुभानि वितनोतु । अर्थाद्गायतां - ण्वतां च । किंभूतम् | यशस्यं यशस्करम् | क| वृन्दावनविपिने । अनैकेनानेकासामुप- रञ्जनादद्भुतत्वम् । लयो नाम छन्दः । तल्लक्षणम् – 'मुनियगणैर्लयमामनन्ति तज्ज्ञाः' । • तदुक्तं छन्दचूडामणौ । 'चिलय इति’ ॥९॥ इदानीं काचित्सखी राधां प्रति कृष्णस्याति- यशृङ्गारशालितादर्शनव्याजेन तदुन्मुखीकर्तुमाह - विश्वेषामिति । हे सखि राधे, पतिः' इत्यमरः । 'वंशो वेणौ कुले वर्गे काष्ठस्यावयवेऽपि च इति विश्वः । 'शसस्तु वनरासे स्यात्' इति च 'शसस्तु गोदुहां क्रीडा' इति हारावलिः ॥ ७ ॥ ऋष्यतीति । कामपि रामां क्रीडाशीलां मोपींविष्यत्यालिङ्गति, कामपि चुम्बति, कामपि रमयति, निभृतः संभोगेन क्रीडयति स कृष्णः स्मितेन चारुतरामतिशयेन मनोहरामपरां गोपीं पश्यति । कांचिद्वामां वामस्वभावां कोपवतीमनुगच्छति अनुनयार्थमनुगतिं करोति । अत्र कृष्णेनाश्लेषादी क्रियमाणेऽपि ताभिर्न कृतमित्यप्यवैदग्ध्यं सूचितम् । 'सुन्दरी रमणी रामा' इत्यमरः । 'विषा वामा अपि स्त्रियाम्' इति च ॥ ८ ॥ संप्रति गीतसमाप्तौ कविः स्वनाम निबननेवाशिषं प्रार्थयते - श्रीजयदेवेति । श्रीजयदेवकवेरिदं ललितं गीतं शुभानि वितनोतु विस्तारयतु । कीदृशम् । वृन्दावनेऽद्भुतं केशवस्य केलिरहस्यं गुप्तक्रीडा यत्र तादृशम् । अद्भुतत्वं चैकेनैव कृष्णेनानेककामिनीनां कामपूरणात् । पुनः कीदृशम् । • यशस्यं यशः सहितम् ॥९॥ ननु सकल शृङ्गारकलाभिशः श्रीकृष्णः कथं हावाधनभिशामि- गौंपीभिः सह केलिं कृतवानित्यत आह - विश्वेषामिति । हे सखि हे राधे, मधौ १ 'देवकवेरित इति पाठः । Google Dilicad by