पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

L • [सर्गः १ ३२ गीतगोविन्दकाव्यम् केलिकलाकुतुकेन च काचिदमुं यमुनाजलकूले । मञ्जुलवजुलकुञ्जगतं विचकर्ष करेण दुकूले || हरि० ॥ ६ ॥ करतलतालतरलवलयावलिकलितकलखनवंशे । रासरसे सह नृत्यपरा हरिणा युवतिः मशशंसे ॥ हरि० ॥ ७ ॥ लतले गण्डप्रदेशे चारु मनोहर यथा स्यात्तथा चुचुम्ब | किंभूता । सखीषु चातुर्यात्कमपि कार्यान्तरं लपितुं श्रुतिमूले लभा । किंभूते श्रुतिमूले । अनुकूले ऽभिमुखमानीते । किंभूते कपोलतले । रोमायोपलक्षिते । हरेः सात्त्विकभावेन रो- मावोद्गमः । अत्रानुगन्तुमशका कार्यान्तरकथनव्याजेन हरि स्थापयतीति नितम्ब- वतीत्युचितम् | सखीषु दयितचुम्बनं लजाकरमिति कार्यान्तरव्याजौचिती । अत्र प्रौढा नायिका | अनुकूलो नायकः ॥ ५ ॥ कलिकलेति ॥ काचिद्रोपी केलि कलाकुतुकेन क्रीडाविज्ञानकौतुकेनामुं कृष्णं करेण दुकूले विचकर्ष । किंभूतम् । यमुनावनकूले मञ्जुलमनोहरवकुलबकुलकुअगतम्, वेतसकुञ्जगतं वा । यमुनाया विपिनोपलक्षिततीर इत्यर्थः । अत्र चकारोऽनुकसमुच्चयार्थः । तेन परिहासा- युवीयते । 'यमुनाजलतीरे' इति पाठः । अत्र यमुनातीर इति वक्तव्ये जलग्रहणं शैत्यपावनत्वसंनिकर्षादियोतनार्थम् ॥ ६ ॥ करतलेति ॥ हरिणा कृष्णेन कापि युवतिः प्रशशंसे स्टुता । किंभूता । रासरसे गोपक्रीडानुरागे सहनृत्यपरा कृष्णेन सह तुल्यकालं नृत्यन्ती । किंभूते रासरसे। करतलयोस्तालस्तालिका तथा तरला या वलयाचलिर्हस्तकटकश्रेणिस्तया कलितोऽनुगतः कलखनो वंशो यत्र यरिंग- कपोलतले चारु मनोहरं यथा तथा चुचुम्ब चुम्बनं कृतवती । कीदृशी । किमपि कार्ये लपितुं मन्त्रयितुं श्रुतिमूले मिलिता संलझा। कीदृशे । पुलकै रोमान्चैरनुकूले प्रियावि- लाससूचके । औत्सुक्येन सहसा कान्तमुखचुम्बनं सखीजनहास्यकरं भवतीति व्याजेन तया तदारब्धमिति भावः । अत्र प्रथमतो मुखस्पर्शनेन कृष्णकपोले रोमाञ्चमुत्पाद्य चुम्बने तस्यात्राधीरत्वं ध्वनितम् ॥५॥ केलिकलेति | काचिद्गोपी अभुं कृष्णं केलिकलाकुतुकेन दुकूले षट्टवस्त्रविषये विचकर्षाकृष्टवती। दुकूलं गृहीत्वामुं कृष्णं विचकर्षैति केचिद्योजयन्ति। कीदृशम् । मञ्जुलो मनोहरो बञ्जुलो वेतसो यत्र तादृशो यः कुञ्जस्तत्र गतं प्राप्तम् । कुञ विचकर्ष | यमुनाजलकूले यमुनाया जलयुक्ते रोधसि बञ्जुलकुक्षस्थं कृष्णं यमुनाकूलं प्रति क्रीडार्थमाकृष्टवतीत्यर्थः । अत्र अन्यानुरक्तस्य कृष्णस्य नायिकया वस्त्राकर्षणादधीरत्वं तस्या व्यङ्गथम् | 'कुतुकं तु कुतूहलम्' इत्यमरः । 'मनोशं मञ्जु मञ्जलम्' इति च । 'वञ्जुलो वेतसे' इति विश्वः । 'दुकूलं क्षौमे सूक्ष्मांशुकेऽपि च इत्यपि ॥ ६ ॥ करतलेति । काचिघुवतिर्हरिणा प्रसशंसे स्तुता । कीदृशी । रासरसो गोपीनां क्रीडाविशेषस्तत्र सहनृत्यपरा कृष्णेन समं नृत्यम्ती । कीदृशे रासरसे। करतलयोस्तालेन परस्परं वादनेन तरला चचला या वलयावलिः कङ्कणपकिस्तया कलितो मिश्रितोऽव्यक्तमधुरशब्दसहितो वंशो वेणुर्यत्र तादृशे अत्र रासरसे । इत्यादिना गोदुहां क्रीडास्वेव सा स्तुत्या नतु सक- रूसंगीतकलास्विति ध्वनितम् । 'द्रुमभेदे करास्फाले तालं तु हरितालके इति विश्वः । 'तरलश्चचले खिने हारमध्यमणौ' इति च । 'वलयं कङ्कणेऽपि च इति । 'आवलिः Dgilized by Google