पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १] रसिकप्रिया–रसमञ्जर्याख्यटीकाद्वयोपेतम् पीनपयोधरभारभरेण हरिं परिरभ्य सरागम् । गोपवधूरनुगायति काचिदुदश्चितपञ्चमरागम् || हरि० ॥ ३ ॥ कापि विलासविलोलविलोचनखेलनजनितमनोजम् । ध्यायति मुग्धवधूरधिकं मधुसूदनवदनसरोजम् ॥ हरि० ।। ४ ।। कापि कपोलतले मिलिता लपितुं किमपि श्रुतिमूले । कांपि चुचुम्ब नितम्बवती दयितं पुलकैरनुकूले || हरि० ॥ ५ नास्यप्रसारणेन ॥ २ ॥ अथ परस्परं गोपिकानां केलिचेष्टितमाह-पीनपयो- धरेति । काचिद्रोपवधूर्हरिं गायन्तं हरिमनुगायति वंशकृत्येन गायति । किं कृत्वा । सरागं साभिलाषं तमेव हरिं परिरभ्य। किंभूता । पीनपयोधरभार- भरेणोपलक्षिता । अथवा विपुलस्तनभारातिशयेन परिरभ्य किंभूतं हरिम् । सरागं तदालिङ्गनसाभिलाषम् । पुनः किंभूतम् । उदयित आ तारावघ्यू- वें नीतः पञ्चमरागो येन, वा उदश्चितः पश्चमस्वरोपलक्षितो रागो येन, वा उदश्चितः पञ्चमरागोऽनुरागो येन । अथवा उदश्चितपश्चमरागं यथा स्यात्तथेति गानक्रियाविशेषणम् । शृङ्गारे हि पञ्चमभूयिष्ठस्य गानस्य प्राधान्यात्, अथवा उदश्वितहृद्यरागं यथास्यात्तथा ॥ ३ ॥ कापि विलासेति । कापि मुग्धवधूरधिकं सातिशयं यथा स्यात्तथा मधुसूदनवदनसरोजं ध्यायति । अधिकं सुखमधिकृत्य वा । किंभूतम् । विलासेन चेष्टाविशेषेण विलोले चञ्चले ये विलोचने तयोः खेलनेनाव- र्तनेन जनित उत्पादितो मनोजो येन । अत्र सरोजे योजितो मधुसूदनशब्द औचितीमावहति । सूद स्तुतिहत्योरिति मुखसरोजान्मधु स्रवतीत्यतिशयाधा- नम् ॥ ४ ॥ कापि कपोलतलेति । कापि नितम्बवती दयितं श्रीकृष्णं कपो- धीर उत्तमानां स्मितं भवेत् ॥” इति ॥ २ ॥ गोपीनां सौन्दर्यविलासाधनभिशत्वं च कथ- यश्चेव केलिमाइ—पीनेति । काचिद्रोपवधूः पीनपयोधरभारभरेण पीनस्तनगौरवातिशयेन सरागं सानुरागं यथास्यादेव हरि परिरभ्यालिङ्ग उचित ऊर्ध्वमचितः पवमाख्यो रागो यत्र एवं यथा स्यात्तथानुगायति अनुपश्चादरेर्गानानन्तरं गायति । अत्र गोप्याः सौन्दर्य पीनपयोधरेत्यादिना प्रतिपादितम् । अवैदग्ध्यं तु कृष्णस्य परिरम्भोधमं विनैव स्वयं प्रथमं परिरम्भणात् । अन्योन्यकृते हि परिरम्भेशृङ्गाररसः पुष्टो भवति । तदुक्तं दशरू- पके–‘रम्यदेशकलाकालवेषभोगादिसेवनैः । प्रमोदात्मरतिः सैव यूनोरन्योन्यसक्तयोः । प्रकृष्यमाणः शृङ्गारो मधुराङ्गावचेष्टितैः ॥ इति । पचमः स्वरो वाहुल्येन भवति स मात्र कथितः । यदाह भरतः – 'मध्यमं पथभूयिष्ठं हास्य शृङ्गारयोर्भवेत्' इति ॥ ३ ॥ कापी- ति । कापि मुग्धवधूः मधुसूदनवदनसरोजं मुखपद्ममधिकं यथा स्यात्तथा ध्यायति चिन्तयति । कीदृशम् । विलासेन विलोलयोश्चचलयोविलोचनयोर्नेत्रयोंश्चलनं तेन जनित उत्पादितो मनोज: कामो येन अर्थात्तस्यामेव तादृशम् । अत्र प्रत्यक्षस्यापि मधुसूदनस्य ध्याना• वैदग्ध्यं तस्या अवगम्यते ॥ ४ ॥ कापीति | कापि नितम्बवती गोपी दयितं कृष्णं १ 'चार चुचुम्ब' इति' पाठः । by Google Digilized by