पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[सर्गः १ रामकरीरागयतितालाभ्यां गीयते ॥ प्र०४ ॥ | स्मितशाली ॥ २ ॥ समाख्यातुं चन्दनचर्चितनीलकलेवरपीतवसनवनमाली केलिचलन्मणिकुण्डलमण्डितगण्डयुगः हरिरिह मुग्धवधूनिकरे विलासिनि विलसति केलिपरे ।। ध्रुवम् ॥ रम्भसंभ्रमेण त्वरया स्फुरन्तो मनोहारिणो ये विलासास्तेषु लालसा यस्य । तेषु | लालस उत्सुको वा । 'वदन्ति वंशस्थमिदं ततो जरौ इति । वर्णसाम्यमनुप्रासः । दक्षिणो नायकः ॥ १ ॥ तदेव गीतेन दर्शयति झम्पातालेन – चन्दनचर्चितेति । पदानां बाहुल्यात्पूर्व ध्रुवपदं व्याक्रियते - हरिरिति । हे राधे हे विलासिनि, इह मु- ग्धवधूनिकरे हरिर्विलसति । कीदृशे निकरे । केलिपरे । पुनः कीदृशे । विलासिनि विलासो विद्यते यस्य । एकस्यैवोभयविशेषणत्वम् । इति ध्रुवः । अथ पदानि । चन्दनेत्यादि । चन्दनेन चर्चितमनुलिप्तम् । चर्चिस्तु यद्यप्यध्ययने वर्तते तथापि 'धातूनामनन्तार्थत्वादनुलेपे वर्तत इति । तथाचोक्तम् – 'क्रियावाचि प्रसिद्धार्थप्रदर्शिनः । प्रयोगतोऽनुमन्तच्या अनेकार्थी हि धातवः ॥' इति । नीलं कळे- वरं शरीरं यस्य, पीतं वसनं यस्य, वनमाला विद्यते यस्य ततः कर्मधारयः । अथवा चन्दनेन चर्चिते नीलकलेवरे पीतवसने वनमालाश्च विद्यन्ते यस्यासौ तथा । चन्दनेन चर्चिते ये नीलकलेवरपीतवसने तयोर्वनं संसक्तिरचनावि- शेषस्तं मलते धारयतीति स तथा । केल्या चलन्ती ये मणिकुण्डले ताभ्यां म ण्डितं गण्डयुगं यस्य स तथा तथा स्मितशाली स्मिताढ्यः ईषद्धसितयुक्त इति द्वे पदे । अथवा द्वे पदे कृत्वा कर्मधारयः । अथवा ईदृशं गण्डयुगं च स्मितं च ताभ्यामाढ्यः । अथवा गण्डयुगे स्मिताढ्य इति तन्मात्रेणैवानुमेयं स्मितं रम्भसंभ्रमेणालिङ्गनादरेण स्फुरन् यो मनोहारिविलासस्तस्य लालसौत्सुक्यं यस्य तादृशम् । 'संभ्रमास्त्रयमिच्छन्ति भयमुद्वेगमादरम्' । 'सोऽत्यर्थ लालसा द्वयोः' इत्य- मरः । ‘आराद्दूरसमीपयोः" इति च ॥ १ ॥ तदेव गीतेन कथयति – चन्दनेति । गीतस्यास्य रामकरी रागः । तालश्च रूपकः । ताललक्षणं प्रागेवोक्तम् । गीतार्थस्तु हे विलासिनि विलासशीले, वृन्दावने मुग्धवधूनिकरे सुन्दरवधूनिचये हरिविलसति क्रीडति । कीदृशे वधूनिकरे । केलिपरे क्रीडापरायणे । अत्र मुग्धवधूनिकरे हावभावाचनभिशे स्त्रीचये केलिपरे सामान्यक्क्रीडापरायणे विलसतीति ध्वनेरर्थः । तथा च हावाद्यभिज्ञां त्वां विना सकलकलाभिशस्म इरेविलासो न शोभत इति भावः । 'मुग्ध: सुन्दरमूर्खयोः' इति विश्वः । विलासो हावविशेषस्तलक्षणं तु भरते - 'स्थाने यानासने वापि नेत्रवत्रादि- कर्मणा । उत्पाद्यते विशेषो यः स विलासः प्रकीर्तितः ॥' इति । एतच्च ध्रुवपदम् । कीदृशो हरि: । चन्दनेन चर्चितो नीलकलेवरे श्यामशरीरे पीतवसनं वस्त्रं वनमाला च यस्य तादृशः । पुनः कीदृशः । केलिषु चलती कम्पमाने मणियुक्ते कुण्डले ताभ्यां मण्डित- मलंकृतं गण्डयुगं कपोलयुग्मं यस्य तादृशः । पुनः कीदृशो हरिः । स्मितेन ईषदास्थेन शाली शोभमानः । 'अथ कलेवरम् । गात्रं वपुः संहननम्' इत्यमरः । 'गण्डे कपोलो' इत्यपि । स्मितलक्षणं तु भरते - 'ईषद्विकसितैर्गण्डै: कटाक्षैः सौष्ठवान्वितैः । अलक्षितद्विजं । Dgilizard by Google गीतगोविन्दकाव्यम्