पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सगः १] रसिकप्रिया–रसमञ्जर्याख्यटीकाद्वयोपेतम् उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर- क्रीडत्कोकिलकाकलीकलरवैरुद्गीर्णकर्णज्वराः | नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण- प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥ ११ ॥ - अनेकनारीपरिरम्भसंभ्रमस्फुरन्म नोहा रिविलासलालसम् । मुरारिमारादुपदर्शयन्त्यसौ सखी समक्षं पुनराह राधिकाम् ॥ १ ॥ 5 उन्मीलदिति ॥ पथिकैरमी वसन्तसमयवासराः कथंकथमिव महता कष्टेन नीयन्ते। कैः कृत्वा । ध्यानावधानक्षणे प्रियानुचिन्तनैकाप्रताप्रस्तावे प्राप्तो यः प्राणसमासमागमर- सोऽनुरागस्तस्य प्रकटीभावैः, अथवा रसस्योल्लासो येष्विति पथिकविशेषणम्। किंभूता वासराः | उन्मीलन्योऽसौ मधुगन्धः पुष्परसगन्धस्तत्र लुब्धा ये मधुपा भ्रमरास्तै- धूता आन्दोलिता ये चूताङ्कुरास्तेषु क्रीडन्तो ये कोकिलास्तेषां काफल्युपलक्षित- स्वैरुद्गीर्ण उत्पादितः कर्णज्वरो यैस्ते तथा । कोकिलो वसन्तमासे पञ्चमं वदतीति स्थितिः । अत्र स चूतधूननेन मधुपे रोषावेशानिषादकाकलीमुक्तवानित्याशयः । अथवा कथं कथमपीति घ्यानेनेत्यादिना योज्यम् । ततो विरहिणो यनवस्थितचि- तत्वाद्ध्यातुमपि न शक्नुवन्ति । शार्दूलविक्रीडितं छन्दः । अत्र काव्यलिङ्गमलंकारः । गौडीया रीतिः । विप्रलम्भाख्यारो रसः । अत्र कामोद्दीपनविभावैः कोकिल- काकलीकलरवाद्यैः संजनितकर्णज्वरत्वेन प्राणसमसमागमाकासित्वेन विरहासहि- ष्णुत्वापेक्षया यद्वासराणां कर्मगतं बहुत्वमापादितं तत्सुत रामौचित्यकोटिमाटीकते ॥११॥ २९ अनेकेति । असौ सखी रावां पुनर्वक्ष्यमाणमाह । किं कुर्वती । आरात्समीपे समक्षं प्रत्यक्षं यथा स्यात्तथा मुरारिं दर्शयन्ती दृष्टिपथमवतारयन्ती । अनेकनारीणां परि- प्राणः' इति च । 'गन्धवाहानिलाशुगाः' इति च ॥ १० ॥ संप्रति वसन्तदिवसानां दुर- न्तत्वमाह उन्मीलदिति । अभी वसन्तसंबन्धिनो वासरा दिवसाः पथिकैः कथंक- थमपि महता कष्टेन नीयन्ते समाप्यन्ते । कीदृशा वासराः । उद्गीर्णाः प्रकटिता: कर्णज्वराः श्रोत्रसंतापा येषु तादृशाः । कैः । उन्मीलन्ति प्रकटीभवन्ति यानि मधूनि गन्धाश्च तेषु लुब्धा लोलुपा ये मधुपा भ्रमरास्तैर्व्याधूताः कम्पिता ये चूताङ्कुरा आम्र- मुकुलानि तेषु क्रीडतां कोकिलानां काकल्योऽव्यक्तमधुरध्वनयस्ताभिः कृता ये कल- कला: कोलाहलास्तैः । केन प्रकारेण नीयन्त इत्याह-ध्यानेति । ध्याने स्वप्रियचि न्तने यदवधानं तत्परता तेन क्षण प्राप्तो यः प्राणसमाया जीवतुल्यायाः कान्तायाः समाग- मरूपो रसस्तस्मादुत्पना ये उल्लासा उत्साहास्तैः । 'काकली तुकले सूक्ष्मे इति 'कोलाहरु: कलकल: ' इति च ॥ ११ ॥ अनेकेति । असौ सखी राधिकां पुनराइ पुनरुवाच । किंकुर्वसी । आरा- दूरतः समक्षं प्रत्यक्षं भुरारिमुपदर्शयन्ती । कीदृशम् । अनेकास नारीणां परि- -१ 'कलकलै:' इति पाठः । ★ Google Dgitized by