पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ गीतगोविन्दकाव्यम् दरविंदलितवलीमल्लिचञ्चत्पराग- प्रकटितपटवा सर्वासयन्काननानि । इद्द हि दइति चेतः केतकीगन्धबन्धुः मसरदसमबाणप्राणवद्गन्धवाहः ॥ १० ।। यिका | गुर्जरीरागेण ऋषभादिना । दक्षिणो नायकः । तल्लक्षणं प्रागुक्तम् । विप्रलम्भा- ख्यः शृङ्गारो रसः । लयो नाम छन्दः । तल्लक्षणम् – 'मुनियगणैर्लयमामनन्ति तज्ज्ञाः' इति । तदुक्तं छन्दश्चूडामणौ चलयइति । विप्रलम्भविभावप्रसङ्गाद्वायुं वर्णयति – 'रचितो गद्यपद्याद्यैर्वसन्ते पार्थिवोत्सवे । वसन्तरागे झम्पाख्यताले मध्यलयाश्चिते ॥ गमकाल- तिभूयिष्ठ: पूर्णकल्पः प्रकीर्तितः । पूर्तौ पुनस्तेनपाटस्वराञ्चितविराजितः ॥ माधवो- त्सवकमलाकरनामा प्रबन्धराट् ॥ ९॥ इति माधवोत्सवकमलाकरनामा तृतीयः प्रबन्धः॥ दुरेति । इह वने वसन्ते वा गन्धवाहो वायुश्चेतो दहति । अर्थात् विरहिणाम् । किंभूतं चेतः । प्रसरत् । अर्थान्मनोरथं प्रति । पुनः किंभूतम् | असमबाणप्राणवत्कामस्य जी वितमिव । अथवा प्रसरदसमबाणप्राणवद्गन्धवाह इति पदम् । प्रसरता असमबाणेन प्राणवांञ्चासौ गन्धवाहः । वा प्रसरन्योऽसावसमबाणश्च तस्य प्राणवज्जीवितमिव । प्राणवतो वा। किंभूतो वायुः । केतकीगन्धसहचरः किं कुर्वन् । काननानि वासयन् । कैः । ईषद्विकसितमल्लीवल्लीनां जातीलतानां चञ्चन्तो गच्छन्तो ये परागास्तैः प्रकटिता ये पटवासाः वासचूर्णानि तैः ॥ 'ननमयययुतेयं मालिनी भोगिलोकैः' इति माि नीछन्दः । अत्र समासोक्तिवर्णानुप्रासोपमालंकाराः । विप्रलम्भाख्यः शृङ्गारो रसः । पावाली रीतिः । अत्र विरहिहृदयविदारणपटीयसः प्रवनस्य त्रैविध्येन चेतोदाहक- त्वोपन्यासेन युवतिजनस्य आत्मसात्कर्तृत्वेन यत्स्मरप्राणवत्त्वमुदितं तदौचित्यसर- णिसागरप्लवनतरणित्वमातनोतितराम् । यदभाणि क्षेमेन्द्रेण– 'तिलकं बिभ्रती सूक्ति- र्भात्येकमुचितं पदम् । चन्द्राननेव कस्तूरी कृतं श्यामेव चन्दनम् ॥ १० ॥ [सर्गः १ मयसंबन्धिनो वनस्य वर्णनं यत्र । अत एव अनुगतमदनविकारं अनुगतः संप्राप्तो मद- नस्य विकारो यत्र तत् तादृशम् ॥ ९ ॥ संप्रति वसन्तकालीनवायोरपि विरहि- जनसंतापकारित्वमाइ–दरेति । इह हि अस्मिन्नेव वसन्ते गन्धवाहो वायुश्चेतो दहति । अर्थाद्विरहिणाम् । किं कुर्वन् । काननानि बनानि वासयन्सुरभीकुर्वन् । कैः । दरं ईष- द्विगलिता विकासिता मलीवडिर्मल्लिकालता तस्याः सकाशाच्चश्चन्तः प्रसरन्तो ये परागाः पुष्परेणवस्त एव प्रकटिताः पटवासाः पिष्टातकास्तैः । कीदृग्गन्धवाह: । केतकीगन्धबन्धुः केतकीपुष्पसौरभबन्धुः । पुनः कीदृशः । प्रसरतः प्रतिदिशं सचरतोऽसमबाणस्य कामस्य प्राणवाणसदृशः । यद्वा प्रसरता असमबाणेन प्राणवान् शक्तिसंपन्नो यो गन्धवाह इत्येकप- दम् । 'ईषदर्थे दरोऽव्याजम्' इति विश्वः । 'परागः पुष्परजसि' इति च । 'पिष्टातः पट बासकः' इत्यमरः । ‘काननं वनम्' इति च । 'असवः प्राणाः' इत्यपि । 'शक्तिः पराक्रमः १ 'विगलित' इति पाठः । Google Dgilized by