सामग्री पर जाएँ

पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः १]
२७
रसिकप्रिया–रसमञ्जर्याख्यटीकाद्वयोपेतम्

स्फुरदतिमुक्तलतापरिरम्भणमुकुलितपुलकितचूते ।
वृन्दावनविपिने परिसरपरिगतयमुनाजलपूते । विह० ॥ ८ ॥
श्रीजयदेवभणितमिदमुदयति हरिचरणस्मृतिसारम् ।
सरसवसन्तसमयवनवर्णनमनुगतमदनविकारम् । विह० ॥ ९॥

पुनः किंभूते । नवमालत्या जात्यातिसुगन्धौ । पुनः किंभूते । मुनिमनसामपि मोहनकारिणि । तरुणानों का कथेति । व्यामोहकारके । सुरतार्थे प्रेरके वा । पुनः किंभूते । तरुणानामकारणबन्धौ निसर्गमित्रे । वसन्ते हि कामिन्यः स्वयमेव मानं त्यजन्ति ॥ ७ ॥ स्फुरदतिमुक्तलतेति । किंभूते वसन्ते । स्फुरन्त्यश्चलन्त्योsतिमुक्तलताया वासन्त्याः परिरम्भणेन मुकुलितः पुष्पितः पुलकित: जातरोमाञ्चश्च चूतः। अत्र पुष्पाणि रोमाञ्चेनोपमीयन्ते । अनेन सात्त्विकभावो दर्शितः । वृन्दावनेति । अत्र पूर्वे ध्रुवपदे इह वने हरिर्विहरतीत्यष्टपद्या एकवाक्यत्वात् । विहाराद्वेयत्वे वृन्दावनशब्दो व्याख्यातः । संप्रति वसन्तविशेषणत्वेन व्याक्रियते । किंभूते वसन्ते । वृन्दावनविपिने । वृन्दमवतीति वृन्दावनं तद्विपिनं यस्मिन्स तथा तस्मिन् परिसरे पर्यन्तभुवि परिगतं यद्यमुनाजलं तेन पूते ॥ ८ ॥ श्रीजयदेवभणितेति । तेनेति मङ्गलवाचकम् । ततः पाटावाद्याक्षरोत्तरः । ततः स्वरः षड्जादिः । इदं श्रीजयदेवभणितं सरसवसन्तसमयवर्णनमुदयति उदयं प्राप्नोति सर्वोत्कृष्टत्वेन वर्तते । सरसं शृङ्गाररसयुक्तं वसन्तकालीनवनवर्णनं यत्र । सर्वोत्कृष्टत्वे हेतुमाह । हरिचरणस्मृतिरेव सारं यत्र । वा हरिचरणस्मृत्या हेतुभूतया सारम् । अथवा हरिचरणयोः स्मृतिश्चिन्तनं सारमुत्कृष्टं यत्र । सरसवसन्तत्वे हेतुमाह । अनुगतो मदनविकारो यत्र येन वा । अनुगतोऽनुस्यूतः ॥ अस्यामष्टपद्यां जातिरलंकारः । मध्या ना-


स्पष्ट । सा मुनिमनोमोहनकारिणी । किमन्येषां वक्तव्यमिति भावः । पुनः कीदृशे । तरुणानां विलासियुवजनानामकारणबन्धौ स्वाभाविकमित्रे । 'विमर्दोत्ये परिमलो गन्धे जनमनोहरे' इति ॥ ७ ॥ कीदृशे । स्फुरदिति । स्फुरन्ती कम्पमाना शोभमाना वा यातिमुक्तलता तस्याः परिरम्भणेन मुकुलितं मञ्जरयुक्तं तदेव पुलको रोमाञ्चः । रोमाञ्चकथनेनाचेतनयोरपि कामचेष्टा कथिता । तेन च वसन्तस्यातिदुरन्तत्वं कथितम् । अतिशयेन मुक्तानामपि परिरम्भणोत्सुकतेति अतिमुक्तपदेन कथितम् । एतावता वसन्तस्य सरसता दुरन्तता चोक्ता । संप्रति क्रीडायाः स्थानविशेषमाह--वृन्दावनेति । वृन्दावननाम्नि विपिने वने हरिर्विहरतीत्यन्वयः । कीदृशे विपिने । परिसरे समीपप्रदेशे परिगतेन सर्वतोगतेन यमुनाजलेन पूते पवित्रे । 'अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता' इत्यमरः । मुकुलं करोति तदाचष्टे । णिजन्ताद्भावे क्ते सति मुकुलितमिति बोध्यम् । पश्चान्मुकुलितमेव पुलकः संजातोऽस्येति तारकादित्वादितच् । 'आम्रश्चूतः' इत्यमरः । 'पर्यन्तभूः परिसरः' इत्यपि ॥ ८॥ संप्रति गीतार्थमुपसंहरति । प्रेक्षावत्प्रवृत्त्यर्थे स्वभणिते उत्कर्षमाह --श्रीजयदेवेति । जयदेवकवेरिदं भणितं गीतमुदयति । । तत्र हेतुः । इरिचरणयोः स्मृतौ स्मरणे सारं श्रेष्ठं, हरिचरणस्मृतिरेव सारोऽत्र तत् रस-