पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १] रसिकप्रिया–रसमञ्जर्याख्यटीकाद्वयोपेतम् 2 स्फुरदतिमुक्तलतापरिरम्भणमुकुलित पुलकितचूते । वृन्दावनविपिने परिसरपरिगतयम्मुनाजलपूते । विह० ॥ ८ ॥ श्रीजयदेवभणितमिदमुदयति हरिचरणस्मृतिसारम् । सरसवसन्त समयवनवर्णनमनुगतमदनविकारम् | विह० ॥ ९ ॥ पुनः किंभूते । नवमालत्या जात्यातिसुगन्धौ । पुनः किंभूते । मुनिमनसामपि मोहनकारिणि । तरुणानां का कथेति । व्यामोहकारके। सुरतार्थ प्रेरके वा । पुनः किं- भूते । तरुणांनामकारणबन्धौ निसर्गमित्रे | वसन्ते हि कामिन्यः स्वयमेव मान यजन्ति ॥ ७ ॥ स्फुरतिमुक्तलतेति । किंभूते वसन्ते । स्फुरन्त्यश्चलन्त्यो- ऽतिमुचलताया वासन्त्याः परिरम्भणेन मुकुलितः पुष्पितः पुलकितः जातरो- माञ्चश्च चूतः । अत्र पुष्पाणि रोमाश्वेनोपमीयन्ते । अनेन सात्त्विकभावो दर्शितः । वृन्दा- घनेति । अत्र पूर्व ध्रुवपदे इद्द वने हरिर्विहरतीत्यष्टपद्या एकवाक्यत्वात् । विहारा द्वेयत्वे वृन्दावनशब्दो व्याख्यातः । संप्रति वसन्तविशेषणत्वेन व्याक्रियते। किंभूते वसन्ते । वृन्दावनविपिने । वृन्दमवतीति वृन्दावनं तद्विपिनं यस्मिन्स तथा तस्मिन् परिसरे पर्यन्तभुवि परिगतं यद्यमुनाजलं तेन पूते ॥ ८ ॥ श्रीजयदेवभणितेति । तेनेति मङ्गलवाचकम् । ततः पाटावाद्याक्षरोत्तरः । ततः खरः षड्जादिः । इदं श्रीजयदे- वभणितं सरसवसन्तसमयवर्णनमुदयति उदयं प्राप्नोति सर्वोत्कृष्टत्वेन वर्तते । सरसं शृङ्गाररसयुक्तं वसन्तकालीनवनवर्णनं यत्र । सर्वोत्कृष्टत्वे हेतुमाह । हरिचरण- स्मृतिरेव सारं यत्र । वा हरिचरणस्मृत्या हेतुभूतया सारम् । अथवा हरिचरणयोः स्मृतिश्चिन्तनं सारमुत्कृष्टं यत्र । सरसवसन्तत्वे हेतुमाह । अनुगतो मदनवि- कारो यत्र येन वा । अनुगतोऽनुस्यूतः ॥ अस्यामष्टपद्यां जातिरलंकारः । मध्या ना- 1 - N: 1 स्पष्ट । सा मुनिमनोमोहनकारिणी । किमन्येषां वक्तव्यमिति भावः । पुनः कीदृशे । तरुणानां बिलासियुवजनानामकारणबन्धौ स्वाभाविकमित्रे । 'विमदात्ये परिमलो गन्धे जनमनोहरे' इति ॥ ७ ॥ कीदृशे । स्फुरदिति । स्फुरन्ती कम्पमाना शोभ माना वा यातिमुकलता तस्याः परिरम्भणेन मुकुलितं मजरयुक्तं तदेव पुलको रोमाचकथनेनाचेतनयोरपि कामचेष्टा कथिता । तेन च वसन्तस्यातिदुरन्तत्वं कथितम् । अतिशयेन मुक्तानामपि परिरम्भणोत्सुकतेति अतिमुक्तपदेन कथितम् । एतावता वसन्तस्य सरसता दुरन्तता चोक्ता । संप्रति क्रीडायाः स्थानविशेषमाइ वृन्दा वनेति । वृन्दावननानि विपिने वने हरिविंदरतीत्यन्वयः । कीदृशे विपिने । परिसरे समीपप्रदेशे परिगतेन सर्वतोगतेन यमुनाजलेन पूते पवित्रे । 'अतिमुक्तः पुण्डूक: स्याद्वासन्ती माधवी लता' इत्यमरः । मुकुलं करोति तदाचष्टे । णिजन्ताद्भावे के सति मुकुलितमिति बोध्यम् । पश्चान्मुकुलितमेव पुलकः संजातोऽस्येति तारकादित्वादि- तच् । 'माम्रचूतः' इत्यमरः । 'पर्यन्तभूः परिसरः' इत्यपि ॥ ८॥ संप्रति गीतार्थमुपसंहरति । प्रे- •क्षावावृत्यर्थं स्वभणिते उत्कर्षमाह - श्रीजयदेवेति । जयदेवकवेरिदं भणितं गीतमुदयति । तत्र हेतुः । इरिचरणयोः स्मृतौ स्मरणे सारं श्रेष्ठं, हरिचरणस्मृतिरेव सारोऽत्र तत् रस - Digitized by Google