पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ गीतगोविन्दकाव्यम् [सर्गः १ । विगलितलज्जित जगदवलोकेनतरुणकरुणकृतासे विरहिनिकृन्तनकुन्तमुखाकृतिकेतैकदन्तुरिताशे । विह० ॥ ६ ॥ माधविकापरिमलललिते नवमालतिजातिसुगन्धौ । सुनिमनसामपि मोहनकारिणि तरुणाकारणबन्धौ । विह० ॥ ७ ॥ कलान्मही पतिशब्दसाहचर्यादविरोधः । अथवा हेमदण्डरुचीनि केसराणीति योज्यम् । महीपतेरप्रे कनकवेत्रधारिणो भवन्ति । मिलितेति । संगतशिलीमुखैः पाटलपटलैः पाटलाकुसुमसमूहैः । अथवा पाटलिपटळेति पाठः । कृतः स्मरशरधिविलासोऽनुकारो यत्र | शिलीमुखा भ्रमरा: बाणाच । 'अलिबाणौ शिलीमुखौ' इत्यभिधानात् ॥ ५ ॥ विगलितेति ॥ लजैव लजितम् । भावे क्तः । गतलजजगदवलोकनेन तरुणैः करुणैः कृतः कुसुमविकासव्याजेन हासो यत्र । विरहिनिकृन्तनकुन्तमुखाकारैः केतकैर्दन्तु- रिता विषमीकृता आशा दिशो यत्र । निकृन्तनमिति चिन्त्यम् ॥६॥ माधवि कापरिमलेति । किंभूते वसन्ते । वासन्त्याः परिमलेन गन्धविशेषेण ललिते मनोहरे । ww + कदण्डः सुवर्णघटितदण्डयुक्तश्छत्रं तस्येव रुचिर्यस्यैतादृशस्य नागकेसरपुष्पस्य विकासः प्रकाशो यत्र तादृशे | पुनः किंविशिष्टे | मिलिताः शिलीमुखा भ्रमरा एव बाणा यस्मि स्तादृशं यत्पाटलिपटलं पाटलापुष्पसमूहस्तेन कृतः स्मरतूणस्य कंदर्पतूणीरस्य वि लास वेष्टितं यत्र तादृशे अत्र परमर्मव्यथाजनकत्वेन भ्रमराणां बाणसाम्यम् । 'चा- म्पेयः केसरो नागकेसर: काधनाइयः' इत्यमरः । 'अलिबाणौ शिलीमुखौ' इति च । ‘समूहे पटलं स्मृतम्' इति च । 'तूणोपासङ्गतूणीरनिषङ्गा इषुधियोः” इति च ॥ ५ ॥ पुनः कीदृशे । विगलितेति । विगलितं लज्जितं लज्जा यस्य जगतः प्राणिगणस्याव- लोकितेन दर्शनेन तरुणक रुणैर्नवकरुणवृक्षैः पुष्पविकासव्याजेन कृतो हासो यत्र तादृशे वसन्ते । अत्र हास्यरसस्य श्वेतत्वात्पुष्पविकासेन साम्यम् । यदाह भरतः – श्वेतो हासः प्रकीर्तितः' इति । यद्वा विगलितलजितानां विप्रयोगिजनानामवलोकितैस्तरुणै- रर्थादवियोगिभिः करुणं करुणरससहितं यथा स्यादेवं कृतो हासो यत्र एतादृशे हासे । विरहिणो बराकाः कष्टं प्राप्नुवन्तीति करुणां लज्जां हित्वा विलपन्तीति च हासस्तेषामिति भावः । बाला रसानभिना एव वृद्धाः परप्रच्यवेऽपि कृतसंवरणाः अतस्त्ररुणेत्युक्तम् । पुनः कीदृशे वसन्ते । विरहिणां वियोगिनां निकृन्तनाय विदारणाय कुन्तमुखाकृतिः कुन्त आयुधविशेषस्तस्य मुखमग्रभागस्तस्येवाकृतिर्यस्य तादृशं यत्केतकं तेन दन्तुरिता व्यासा आशा दिशो यस्मिंस्तादृशे वसन्ते । लज्जितेत्यत्रावलोकितेत्यत्रापि च नपुंसके भावे कः । 'करुणस्तु रसे वृक्षे कृपायां करुणा मता' इति विश्वः । 'प्रासस्तु कुन्तः' इत्यमरः । 'निम्नोन्नततया व्याप्ते दन्तुरं कथ्यते बुधैः' इति धरणिः । 'आशा तृष्णादिशोः' इति विश्वः । कृती छेदने । हस्वान्तसंशकोऽध्यस्तीति केचित् (?) । तस्य युप्रत्ययान्तस्य निकृन्तनमिति । कचिञ्च 'केतकिदन्तुरिताशे' इति पाठः । 'सपाकादौ स्वीकृतो ह्रस्वः कापि इत्यत्र कवि- वचनस्य लज्जानुरोधार्थत्वात्कृत हस्वकेतकीशब्देन समर्थनीयम् ॥ ६ ॥ माधविक्रेति । १ 'अवलोकिततरुण' इति पाठः | २ 'केतकि' इति पाठः । Google Dgilized by