सामग्री पर जाएँ

पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
[सर्गः १
गीतगोविन्दकाव्यम्

विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे []
विरहिनिकृन्तनकुन्तमुखाकृतिकेतकदन्तुरिताशे []। विह० ॥ ६ ॥
माधविकापरिमलललिते नवमालतिजातिसुगन्धौ ।
मुनिमनसामपि मोहनकारिणि तरुणाकारणबन्धौ । विह० ॥ ७ ॥


कलान्महीपतिशब्दसाहचर्यादविरोधः । अथवा हेमदण्डरुचीनि केसराणीति योज्यम् । महीपतेरग्रे कनकवेत्रधारिणो भवन्ति । मिलितेति । संगतशिलीमुखैः पाटलपटलैः पाटलाकुसुमसमूहैः । अथवा पाटलिपटलेति पाठः । कृतः स्मरशरधिविलासोऽनुकारो यत्र । शिलीमुखा भ्रमराः बाणाश्च । 'अलिबा णौ शिलीमुखौ' इत्यभिधानात् ॥ ५ ॥ विगलितेति ॥ लजैव लज्जितम् । भावे क्तः । गतलज्जगदवलोकनेन तरुणैः करुणैः कृतः कुसुमविकासव्याजेन हासो यत्र । विरहिनिकृन्तनकुन्तमुखाकारैः केतकैर्दन्तुरिता विषमीकृता आशा दिशो यत्र । निकृन्तनमिति चिन्त्यम् ॥ ६ ॥ माधविकापरिमलेति । किंभूते वसन्ते । वासन्त्याः परिमलेन गन्धविशेषेण ललिते मनोहरे ।


कदण्ड: सुवर्णघटितदण्डयुक्तश्छत्रं तस्येव रुचिर्यस्यैतादृशस्य नागकेसरपुष्पस्य विकासः प्रकाशो यत्र तादृशे । पुनः किंविशिष्टे । मिलिताः शिलीमुखा भ्रमरा एव बाणा यस्मिस्तादृशं यत्पाटलिपटलं पाटलापुष्पसमूहस्तेन कृतः स्मरतूणस्य कंदर्पतूणीरस्य विलासचेष्टितं यत्र तादृशे । अत्र परमर्मव्यथाजनकत्वेन भ्रमराणां वाणसाम्यम् । 'चा- म्पेयः केसरो नागकेसरः कावनाहयः' इत्यमर: । 'अलिबाणौ शिलीमुखौ' इति च । ‘समूहे पटलं स्मृतम्” इति च । 'तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः' इति च ॥ ५ ॥ पुनः कीदृशे । विगलितेति । विगलितं लज्जितं लज्जा यस्य जगतः प्राणिगणस्याव- लोकितेन दर्शनेन तरुणकरुणैर्नवकरुणवृक्षैः पुष्पविकासव्याजेन कृतो हासो यत्र तादृशे वसन्ते । अत्र हास्यरसस्य श्वेतत्वात्पुष्पविकासेन साम्यम् । यदाह भरतः— 'श्वेतोहासः प्रकीर्तितः' इति । यद्वा विगलितलज्जितानां विप्रयोगिजनानामवलोकितैस्तरुणैरर्थादवियोगिभिः करुणं करुणरससहितं यथा स्यादेवं कृतो हासो यत्र एतादृशे हासे । विरहिणो वराकाः कष्टं प्राप्नुवन्तीति करुणां लज्जां हित्वा विलपन्तीति च हासस्तेषामिति भावः । बाला रसानभिज्ञा एव वृद्धाः परप्रच्यवेऽपि कृतसंवरणाः अतस्तरुणेत्युक्तम् । पुनः कीदृशे वसन्ते । विरहिणां वियोगिनां निकृन्तनाय विदारणाय कुन्तमुखाकृतिः कुन्त आयुधविशेषस्तस्य मुखमग्रभागस्तस्येवाकृतिर्यस्य तादृशं यत्केतकं तेन दन्तुरिता व्याप्ता आशा दिशो यस्मिंस्तादृशे वसन्ते । लज्जितेत्यत्रावलोकितेत्यत्रापि च नपुंसके भावे क्तः । 'करुणस्तु रसे वृक्षे कृपायां करुणा मता' इति विश्वः । 'प्रासस्तु कुन्तः' इत्यमरः । 'निम्नोन्नततया व्याप्ते दन्तुरं कथ्यते बुधैः' इति धरणिः । 'आशा तृष्णादिशो:' इति विश्वः । कृती छेदने । ह्रस्वान्तसंशकोऽप्यस्तीति केचित्(?) । तस्य युप्रत्ययान्तस्य निकृन्तनमिति । क्वचित 'केतकिदन्तुरिताशे' इति पाठ: । 'सपाकादौ स्वीकृतो ह्रस्वः कापि ' इत्यत्र कविवचनस्य लज्जानुरोधार्थत्वात्कृतह्रस्वकेतकीशब्देन समर्थनीयम् ॥ ६ ॥ माधविकेति ।


  1. १ 'अवलोकिततरुण' इति पाठः ।
  2. २ 'केतकि' इति पाठः ।