पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १] 1 I रसिकप्रिया–रसमञ्जर्याख्यटीकाद्वयोपेतम् । उन्मदमदनमनोरथपथिकवधूजनजनितविलापे अलिकुलसंकुलकुसुमसमृहनिराकुलबकुलकलापे ॥ विह० ॥ ३ ॥ मृगमदसौरभरभसवर्शवदनबदलमालतमाले । ॥ विह० ||४|| युवजनहृदयविदारणमनसिजनखरुचिकिंशुकजाले मदनमहीपतिकनकदण्डरुचिकेशरकुसुमविकासे मिलितशिलीमुखपाटलपटलंकृतस्मरतूणविलासे | विह० । वसन्ते ॥ २ ॥ उन्मदमदनेति । किंभूते वसन्ते । उद्गतौ मदमदनौ हर्षकामौ यत्र । पूर्वभूतो मनोरथो यस्य पथिकवधूजनस्य स तथा तेन जनितो विलापो यत्र चसन्ते । उद्रिकस्मरजनितमनोरथपथिकवधूजनस्य जनितो विलापो येन । अ- थवा उत्सुकमदनमनोरथेन पथिकवधूनां जनितो विलापो यत्र वसन्ते । अलि कुलव्याप्तकुसुमसमूहेन निराकुलो बकुलानां कलापः संहतिर्यत्र | बकुला एव क- लापस्तूणीरो वा स्मरशरधिः । 'कलापो बर्हतूणयोः ॥ ३ ॥ मृगमदसौरभेति । मृग- मदसौरभस्य रभसेन सहसा वशंवदा अनुकारिणी तद्गन्धा नवदलानां माला येषां ता- दृशास्तमाला यत्र वसन्ते । वा तदामोदानि नवदलानि मालन्ते धारयन्तीति । युवज नेति । युवजनस्य हृदयविदारणाय मनसिजस्य नखस्य रुचिरिव रुचिर्येषां २५ ते तादृशाः किंशुकनां जालानि कोरका यत्र वसन्ते । अत्र कामस्य नखरायुधत्वं कषि- समयेऽप्रसिद्धम् ॥४॥ मदनमहीपतीति । अत्रालापः । कामराजस्य हेमदण्डच्छत्र- संनिभं बकुलकेसरपुष्पं तस्य विकासो यत्र । अत्र केवलकनकदण्डस्य छत्रे वाच वसन्तस्य दुरन्ततामाह~-उन्मदेति । उन्मद उद्घटो यो मदनः स एव मनोरथदृष्टः । पथिकवचूजनानां तैर्जनितः कृतो विलापो यस्मिस्तादृशे । पुनः कीदृशे । अलिकुलैर्भ्र- मरसमूहै: संकुलो व्याप्तो यः कुसुमसभूहस्तेन निराकुलो निःशेषेणाकुलो बकुलकलापः केसरसमूहो यत्र तादृशे । यद्वा तादृशो बकुल एवं कलापो भूषणं यत्र तादृशे । 'क- लापो भूषणे वर्षे तूणीरे संहतायपि इत्यमरः ॥ ३ ॥ पुनः कीदृशे । मृगमदेति । मृगमदस्य कस्तूरिकाया यः सौरभरभसः सौरभवेगस्तस्य वशंवद आत्मायत्ततावादी = नवदलमालतमालो नूतनपत्रपङ्क्तिर्यस्य एतादृशस्तमालो यत्र तस्मिन् । पुनः कीदृशे । - युवजनानां तरुणपुरुषाणां हृदयं विदारयन्तीति युवजनहृदयविदारणास्तावृशाः ये मनसि जस्य कामस्य नखास्तेषामिव रुचिदीप्तिर्येषां तादृशा ये किंशुका: पलाशकुसुमानि तेषां जालं समूहो यत्र तादृशे । यद्वा तादृशानि किंशुकजालानि पलाशकलिका यत्र तादृशे । = अत्र पलाशपुष्पस्य वक्रत्वेनारक्तत्वेन हृदयविदारणाद्रुधिरलिप्तमिव मनसिजनखस्य सा = दृश्यं बोध्यम् । 'मृगनाभिर्मृगमदः कस्तूरी च' इत्यमरः । 'रभसो वेगहर्षयोः' इतिच । 'कामः = पश्चशरः स्मरः । शंबरारिर्मनसिजः' इति च । 'रुचिर्मयूखे शोमायामभिष्वङ्गविलासयोः' इति विश्वः । 'पलाशे किंशुकः स्मृतः' इति च । 'जालं गवाक्ष आनाये कोरके इतविन्दयो: ' इति विश्वः ॥ ४ ॥ पुनः कीदृशे | भदनेति । मदन एव महीपती राजा तस्य यः कन- 1 १ 'पाटलिपटल' इति पाठः । ३ Dglized by Google