|
अलिकुलसंकुलकुसुमसमूहनिराकुलबकुलकलापे |
वसन्ते ॥ २ ॥ उन्मदमदनेति । किंभूते वसन्ते । उद्गतौ मदमदनौ हर्षकामौ यत्र । पूर्वंभूतो मनोरथो यस्य पथिकवधूजनस्य स तथा तेन जनितो विलापो यत्र वसन्ते । उद्रितस्मरजनितमनोरथपथिकवधूजनस्य जनितो विलापो येन । अ- - थवा उत्सुकमदनमनोरथेन पथिकवधूनां जनितो विलापो यत्र वसन्ते । अलि- कुलव्याप्त कुसुमसमूहेन निराकुलो बकुलानां कलापः संहतिर्यत्र । बकुला एव क- लापस्तूणीरो वा स्मरशरधिः । 'कलापो बर्हतूणयोः ' ॥ ३ ॥ मृगमदसौरभेति । मृग- मदसौरभस्य रभसेन सहसा वशंवदा अनुकारिणी तद्गन्धा नवदलानां माला येषां ता- दृशास्तमाला यत्र वसन्ते । वा तदामोदानि नवदलानि मालन्ते धारयन्तीति । युवज- नेति । युवजनस्य हृदयविदारणाय मनसिजस्य नखस्य रुचिरिव रुविर्येषां = ते तादृशाः किंशुकनां जालानि कोरका यत्र वसन्ते । अत्र कामस्य नखरायुधत्वं कवि- समयेऽप्रसिद्धम् ॥४॥ मदनमहीपतीति । अत्रालापः । कामराजस्य हेमदण्डच्छत्र- संनिभं बकुलकेसरपुष्पं तस्य विकासो यत्र । अत्र केवलकनकदण्डस्य छत्रे वाच- वसन्तस्य दुरन्ततामाह-- उन्मदेति । उन्मद उद्भटो यो मदनः स एव मनोरथदृष्टः पथिकवधूजनानां तैर्जनितः कृतो विलापो यस्मिंस्तादृशे । पुनः कीदृशे । अलिकुलैर्भ- मरसमूहैः संकुलो व्याप्तो य: कुसुमसमूहस्तेन निराकुलो निःशेषेणाकुलो बकुलकलापः 'केसरसमूहो यत्र तादृशे । यद्वा तादृशो बकुल एव कलापो भूषणं यत्र तादृशे । 'क- लापो भूषणे बर्षे तूणीरे संहतावपि इत्यमरः ॥ ३ ॥ पुनः कीदृशे । मृगमदेति । मृगमदस्य कस्तूरिकाया यः सौरभरभसः सौरभवेगस्तस्य वशंवद आत्मायत्ततावादी नवदलमाल मालो नूतन पत्रपक्तिर्यस्य एतादृशस्तमालो यत्र तस्मिन् । पुनः कीदृशे । - युवजनानां तरुणपुरुषाणां हृदयं विदारयन्तीति युवजनहृदयविदारणास्तादृशाः ये मनसि - जस्य कामस्य नखास्तेषामिव रुचिर्दीप्तिर्येषां तादृशा ये किंशुकाः पलाशकुसुमानि तेषां जालं समूहो यत्र तादृशे । यद्वा तादृशानि किंशुकजालानि पलाशकलिका यत्र तादृशे । = अत्र पलाशपुष्पस्य वक्रत्वेनारक्तत्वेन हृदयविदारणाद्रुधिरलिप्तमिव मनसिजनखस्य सा - दृश्यं बोध्यम् । 'मृगनाभिर्मृगमदः कस्तूरी च' इत्यमरः । रभसो वेगहर्षयोः' इति । 'कामः - पश्चशरः स्मरः । शंबरारिर्मनसिज:' इति च । 'रुचिर्मयूखे शोभायामभिष्वङ्गविलासयो:' इति विश्वः । 'पलाशे किंशुकः स्मृतः' इति च । 'जालं गवाक्ष आनाये कोरके दृप्तविन्दयोः " इति विश्वः ॥ ४ ॥ पुनः कीदृशे । मदनेति । मदन एव महीपती राजा तस्य यः कन- १ 'पाटलिपटल' इति पाठः । ३ Dilized by by Google