पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् [सर्गः १ वसन्तरागयतितालाभ्यां गीयते ॥ प्र० ॥ ३ ॥ ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे । विहरति हरिरिह सर स वसन्ते नृत्यति युवतिजनेन समं सखि विरहिजनस्य दुरन्ते ॥ ध्रुवम् ॥ २ ॥ पाठे 'वलङ् स्रतिसंवरणयोः' इत्यात्मनेपदी । वलङः परस्मैपदत्वं चिन्त्यम् ॥१॥ अन्य- त्रापि प्रयोगोऽप्यस्ति तथा । सावेवोत्तरत्रोदा दूष्णवान् पुनर्बल: (?) केवलादिति । : अमुमेवार्थ विशदयति ॥ अम्पातालेन द्रुतद्वयेन विरामान्तेन । ललितेति । विशेषणसौकर्यार्थ पूर्व ध्रुवपदं व्याख्यायते - विहरतीति । इह राधासखी सबाधां राधां विनोदार्थ श्रीकृष्णं प्रति प्रेरयति । हे सखि राधे। सर चल । यं हरिं वं विलोकयसे स हरिरिह वृन्दावने वसन्ते वसन्तसमये विहरति । क सति । समं स- शोभं साकं युवतिजने नृत्यति सति । किंभूते वसन्ते । चलनार्थहेतुगर्भ विशेषणम् । •विरहिजनस्य दुरन्ते न इति न अपि तु दुरन्ते एवेति काक्कोभयदर्शनम् । अथवा जनो जीवनं तेन समं दुरन्ते । जीवनं वसन्तश्चोभयं विरहिणां दुःखप्राप्यं तस्मिन् । अथवा सरसवसन्त इति पदम् । सरसः साभिल्मषः स चासौ वसन्तश्च तस्मिन् । विहरति युवतिजनेन समं नृत्यति च । चकारोऽध्याहार्यः । इति ध्रुवपदम् ॥ ललि- तेति ललितलवङ्गलतापरिशीलनेन कोमलो मलयमारुतो यत्र वसन्त इति । एतेन शीतो मन्दः सुरभिश्चेति वायोस्त्रैविध्यमुक्तम् । अत्र लवङ्गलतासमीरयोर्ना- : विकात्वनायकत्वेनोद्दीपनविभावत्वमुक्तम् । पुनः किंभूते वसन्ते । मधुकरनिकरेण करम्बितैर्मिश्रितैः कोकिलै: कूजितः शब्दितः कुल एव कुटीरोइल्पा कुटी यन्त्र २४ जटाभिस्तापस इतिषत् इत्थंभूतलक्षणे तृतीया । 'वासन्ती माधवीलता' इत्यमरः । कान्तारं ! वर्त्म दुर्गमम्' इति च । 'पीडा गाभा व्यथा दुःखम्' इत्यपि ॥१॥ किमूचे इत्यत आई- रूढितेति । गीतस्यास्य वसन्तरागः । रूपकद्रालः । गीतार्थस्तु हे सखि, इह सरसवसन्ते शृङ्गाररसप्रधाने हरिः कृष्णो विहरति क्रीडति । क्रीडाप्रकर्षमाइ । नृत्यतीति । युवति- जनेन सह नृत्यति । कीदृशे वसन्ते । विरद्दिजनस्य वियोगिनो जनस्य दुरन्ते दुःखेना- न्तः समाप्तिर्यस्य स तस्मिन् । अयं वसन्तो विरहिणीदारुणो न तु युवतिभिः सह की डतः कृष्णस्य त्वं विरहिणी । यदि कृष्णं नानुसरिष्यसि तदा स तवापि दुरन्तो भनि- व्यतीति भावः । इदं च ध्रुवपदम् । 'समं सद्' इत्यमरः । वसन्तस्य सरसतामाइ- ललितेति । ललिता मनोहरा या लवङ्गलता तस्याः परिशीलनेन संपर्केण कोमलो मृदुल: मलयसमीरो मख्याचरूसंबन्धी वायुर्यत्र तादृशे पुनः कीदृशे । मधुकरनिकरेण भ्रमरस- मूहेन करम्विता मिश्रिता ये कोकिलास्तैः कूजितः शब्दयुक्तः कृतः कुक्ष एव कुटीरो- इल्पकुटी यत्र तादृशे । 'समीरमास्तमरुज्जगत्प्राणसमीरणाः' इत्यमरः । 'मधुव्रतो मधुकरो मधुलिग्मधुपालिनः' इति च । 'स्तोमौषनिकरत्रातवारसंघातसंचयाः' इत्यपि । 'मिश्रितेऽपि करम्बितम्' इति विश्वः । 'अल्पा कुटी कुटीरः स्यात्' इति च ॥ २ ॥ Google Dgilized by