|
वसन्तरागयतितालाभ्यां गीयते ॥ प्र० ॥ ३ ॥ |
पाठे ‘वलङ् सृतिसंवरणयोः' इत्यात्मनेपदी । वलङः परस्मैपदत्वं चिन्त्यम् ॥१॥ अन्यत्रापि प्रयोगोऽप्यस्ति तथा । सावेवोत्तरत्रोदा दूष्णवान् पुनर्बल:(?) केवलादिति । अमुमेवार्थे विशदयति ॥ झम्पातालेन द्रुतद्वयेन विरामान्तेन । ललितेति । विशेषणसौकर्यार्थे पूर्वे ध्रुवपदं व्याख्यायते--विहरतीति । इह राधासखी सबाधां राधां विनोदार्थे श्रीकृष्णं प्रति प्रेरयति । हे सखि राधे। सर चल । यं हरिं लंविलोकयसे स हरिरिह वृन्दावने वसन्ते वसन्तसमये विहरति । क्व सति । समं सशोभं साकं युवतिजने नृत्यति सति । किंभूते वसन्ते । चलनार्थहेतुगर्भे विशेषणम् । विरहिजनस्य दुरन्ते न इति न अपि तु दुरन्ते एवेति काक्कोभयदर्शनम् । अथवा जनो जीवनं तेन समं दुरन्ते । जीवनं वसन्तश्चोभयं विरहिणां दुःखप्राप्यं तस्मिन् । अथवा सरसवसन्त इति पदम् । सरसः साभिलाषः स चासौ वसन्तश्च तस्मिन् । विहरति युवतिजनेन समं नृत्यति च । चकारोऽध्याहार्यः । इति ध्रुवपदम् ॥ ललितेति—ललितलवङ्गलतापरिशीलनेन कोमलो मलयमारुतो यत्र वसन्त इति । एतेन शीतो मन्दः सुरभिश्चेति वायोस्त्रैविध्यमुक्तम् । अत्र लवङ्गलतासमीरयोर्ना- यिकात्वनायकत्वेनोद्दीपनविभावत्वमुक्तम् । पुनः किंभूते वसन्ते । मधुकरनिकरेण करम्बितैर्मिश्रितैः कोकिलैः कूजितः शब्दितः कुञ्ज एव कुटीरोऽल्पा कुटी यत्र
जटाभिस्तापस इतिवत् इत्थंभूतलक्षणे तृतीया । 'वासन्ती माधवीलता'इत्यमरः । कान्तारं वर्त्म दुर्गमम्' इति च । 'पीडा बाधा व्यथा दुःखम्' इत्यपि ॥१॥ किमूचे इत्यत आह--ललितेती।गीतस्यास्य वसन्तरागः । रूपकतालः । गीतार्थस्तु हे सखि, इह सरसवसन्ते शृङ्गाररसप्रधाने हरिः कृष्णो विहरति क्रीडति । क्रीडाप्रकर्षमाह । नृत्यतीति । युवतिजनेन सह नृत्यति । कीदृशे वसन्ते । बिरहिजनस्य वियोगिनो जनस्य दुरन्ते दुःखेनान्तः समाप्तिर्यस्य स तस्मिन् । अयं वसन्तो विरहिणीदारुणो न तु युवतिभिः सह क्रीडतः कृष्णस्य त्वं विरहिणी । यदि कृष्णं नानुसरिष्यसि तदा स तवापि दुरन्तो भविष्यतीति भावः । इदं च ध्रुवपदम् । 'समं सह' इत्यमरः । वसन्तस्य सरसतामाह- ललितेति । ललिता मनोहरा या लवङ्गलता तस्याः परिशीलनेन संपर्केण कोमलो मृदुल: मलयसमीरो मलयाचलसंबन्धी वायुर्यत्र तादृशे । पुनः कीदृशे । मधुकर निकरेण भ्रमरसमूहेन करम्बिता मिश्रिता ये कोकिलास्तैः कूजितः शब्दयुक्तः कृतः कुञ्ज एव कुटीरोऽल्पकुटी यत्र तादृशे । 'समीर मारुतमरुज्जगत्प्राणसमीरणा:' इत्यमरः । 'मधुव्रतो मधुकरो मधुलि- ण्मधुपालिनः' इति च । 'स्तोमौघनिकरव्रातवारसंघातसंचयाः' इत्यपि । 'मिश्रितेऽपि करम्बितम्' इति विश्वः । 'अल्पा कुटी कुटीरः स्यात्' इति च ॥ २ ॥