पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

} सर्गः १] रसिकप्रिया--रसमञ्जर्याख्यटीकाद्वयोपेतम् वसन्ते वासन्ती कुसुमसुकुमारैरवयवै- 1. 21 भ्रमन्ती कान्तारे बहुविहितकृष्णानुसरणाम् । अमन्दं कन्दर्पज्वरजनितचिन्ताकुलतया चलद्वाघां राधां सरसमिदमूचे सहचरी ॥ १ ॥ इदानीं भणितेषु मरिचा वचूर्णनासा यूयं (नूनं) कटुरपि स्पृहावहेति योगमाश्रित्य विप्र- लम्भपूर्वको हि संभोगो रसिकजनरसनीयतामापद्यत इति कविना आद्यपद्ये कथाबीजत्वेन -संभोगस्य यद्विप्रलम्भपूर्वकत्वं सूचितं तदेव प्रकटीकुर्वन्कृष्णोत्कण्ठितां राधां क्वाप्यु- तम्भितमुखेन हरिकथया प्रोत्साहयनाह - वसन्ते वासन्तीति । काचन सहचरी इदं वक्ष्यमाणं सरसं रसवत् राधामूचे उक्तवती । किंभूताम् । वसन्ते ऋतौ अमन्दं यथा स्यात्तथा कन्दर्पज्वरजनितचिन्ताकुलतया बलद्वाधाम् । कन्दर्पहेतुज्वरजनित- चिन्ताकुलत्वेन वलन्ती यातायातं कुर्वाणा बाधा यस्याः । चिन्ताकुले हि चेतसि बा- धा यात्यायाति चेति प्रसिद्धम् । किंभूताम् । बहु अनेकधा दूत्यादिना विहितकृष्णानुसर- म तदर्थमेव कान्तारे भ्रमन्तीम् । किंभूताम् । वासन्तीकुसुमवन्माधवीलताकुसुमव- उत्सुकुमारैरवयवैरुपलक्षिताम् । वसन्ते हि माधवीकुसुममुद्रिक्तं भवति । अतः कामोद्रेकसौकुमार्ये च साम्यम् । अत्र लुप्तोपमालंकारः । दक्षिणो नायकः । तल्लक्ष- -'लेहलौल्यमवैषम्यवशतस्तुल्यतामिषन् । नायिकास्वप्यनेकासु दक्षिणः स स्मृतो यथा' | विरहोत्कण्ठिता नायिका । 'उक्ता भवति सा यस्या वासकेनागतः प्रियः । तस्या नागमने हेतुं चिन्तयत्याकुला यथा ॥ तस्याभिलाषो नाम दशांतिशेषों यथा- “व्यवसायो भवेद्यत्र बाढं तत्संगमाशया। संकल्पाकुलचित्तत्वात्साभिलाषः स्मृतो य- था ॥” इति वैदर्भीरीतिः । यथा । दादेर्लोपि समासे वा कर्मधारयं त्रिकाण्डिकर्म कर्म कर्त्रार्ण- मुलीत्यादिना । वासन्तीकुसुमसुकुमारैरित्यत्र लुप्तोपमालंकारः अनुप्रासश्च । एकस्या- यसकृत्पर इति वृत्त्यनुप्रासः । 'रसै रुदै रिछना यमनसभलागः शिखरिणी' । तस्यात्रैव नारिकेति संज्ञान्तरम् । यथा 'माधुर्यव्यञ्जकैर्वर्णैरुपनागरिकेष्यते' इति । बलद्वाषामिति एतावद्भन्थेनाभिधेयप्रयोजन केलिवर्णनोपयुक्तनायकगुणप्रतिपादनपुरःसराणि मङ्गलानि वि "धाय कविः शृङ्गाररसप्रधानभगवस्केलिवर्णनं चिकीर्षुस्वत्संभोगापेक्षया विप्रलम्भस्योत्कृष्ट- - त्वादादौ विप्रलम्भ शृङ्गारवर्णनाय विरहोत्कण्ठितराधायाश्चरितानि वर्णयितुं प्रस्तावयति--- वसन्त इति । संभोगापेक्षयात्र विप्रलम्भस्योत्कर्षे प्रति त्वालंकारिका:--'संभोगवि- प्रणम्भेन विना पुष्टिमनु(?) । कपायिते हि वस्त्रादौ भूयान्रागोऽभिजायते' इति । लोकार्थ- स्तु –काचित्सइचरी सखी वसन्ते सरसं यथा स्यादेवं राधामिदं वक्ष्यमाणमूचे उवाच । कीदृशीम् । अवयवैरुपलक्षिताम् । कीदृशैरवयवैः । वासन्तीकुसुमसुकुमारैः माधवील- तापुष्पवत्कोमलैः । पुनः कीदृशीम् । कान्तारे महारण्ये अमन्तीम् । तत्र हेतुगर्भविषे- षणमाइ । बहुविहितेति । बहु वारंवारं विहितं कृतं कृष्णानुसरणमन्वेषणं यया तादृशीम् । अत्र हेतुगर्भविशेषणमाह। कंदर्पेति । कंदर्पज्वरेण जनिता या चिन्ता तत्कृता या आ कुलता तया अमन्दमधिकं यथा स्यादेवं चलद्वाघां प्रवर्धमानपीडाम् । अवयवैरित्यत्र 1 १ 'चलत्' इति पाठः । Dagilized by २३ Google