पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ गीतगोविन्दकाव्यम् पद्मापयोधरपटीपरिरम्भलग्नकाश्मीरमुद्रितमुरो मधुसूदनस्य | व्यक्तानुरागमिव खेलदनखेदस्वेदाम्बुपरमनुप्रयतु त्रियं वः१० [सर्गः १ इदानीं श्रीकृष्णः क्रीडानिदानं वसन्तं दर्शयन्भक्तानभिनन्दति । खादिकेन पूर्णेन वसन्तरागेण- पद्मापयोधरतटीति- अनुपूरयतु पूर्ति नयतु । किं । प्रियं वाञ्छितम् । केषां । वो युष्माकम् । किं कर्तृभूतम् । उरो वक्षः । कस्य । मधुसू दनस्य । किंभूतम् । पद्मायाः पयोधरौ तयोस्तटी भृगू तयोः परिरम्भेण लग्नं सकं काश्मीर कुङ्कुमं तेन मुद्रितं कृतमुद्रम् । एतेन स्तनयोः शैलत्वात्तच्छि खरालिङ्गनेन तयोरतिशयालिङ्गनव्याजेन जाता मुद्रा यस्मिंस्तत् । अत एव व्यक्तानुरागमिव प्रतीयमानानुरागमिव । अनुरागो माऽन्यस्यां स्यादिति लक्ष्म्या मुद्रा दत्ता । अथवा नेदं कुङ्कुमं किं तु हृदिस्थोऽनुरागो बहिर्भूत इव । किंभूतम् खेलन् अनमखेदजात: सुरतश्रमजातः स्वेदाम्बुपूरो यत्र तत्तथा ॥ अत्रेदमा- कूतम् । अयमालिङ्गति मां परंत्वनुरागो राधायामेवेति मुद्रार्थः । तदसूचि कविना 'राधामाधवयोः' इति पूर्वपद्ये । अत्र मुग्धा नायका । कुशलो ना- यकः । वसन्ततिलका वृत्तम् । आशीर्वर्णानुप्रासालंकारी उत्प्रेक्षा च । शृङ्गारो रसः । अत्र मधुसूदनस्य परमप्रेमास्पदकान्तोरःस्थलोपगूहनेन व्यक्तानुरागरूप- काश्मीरसंवलितस्य परमप्रीतिभाजनरसाद्यद्भकानां प्रियानुपूरणमाशीर्वचनमुक्तं ततः सुतरामौचित्यमावहति । यदुक्तम् – 'पूर्णार्थदातुः काव्यस्य संतोषितमनी- षिणः । उचिताशीर्नृपस्येव भवत्यभ्युदयावहा ॥ ' इति ॥ १० ॥ विस्वरं विरसं चैव विस्पष्टं विषमाइतम् । व्याकुलं तालहीनं च गीतदोषान्विदुर्बुधाः' ॥ ९ ॥ श्रीकृष्णनायकसामान्यगुणानुक्त्वा संप्रति नायकगुणान्कथयन्नेवाशीरूपं मङ्गलमा- चरति—पद्मेति । मधुसूदनस्य उरो हृदयं वो युष्माकं वान्छितमनुपूरयतु संपूर्ण करोतु । कीदृशमुरः । पद्माया लक्ष्म्याः पयोधरती स्तनप्रान्तस्तस्य परिरम्भे आलिङ्गने लग्नं यत्काश्मीरं कुङ्कुमं तेन मुद्रितमिव मुद्रा चिह्नविशेषस्तद्युक्तमिव । इदं मधुसूदनहृदयं ममैव नत्वन्यस्येति ख्यापनाय लक्ष्म्या निजस्तनतटे लिप्तकाश्मीरमुद्रेव दत्तेति भावः । पुनः कीदृशम् । खेळति क्रीडां कुर्वति अनङ्गे कामदेवे सति यः खेद आयासस्तेन यत्स्वेदाम्बु प्रस्वेदजलं तस्य पूर: प्रवाहो यत्र तादृशम् । एतेन चिरलिप्तस्य काश्मीरस्य शुष्क त्वेऽपि स्वेदसंबन्धेन तस्य मुद्रायोग्यत्वमिति ध्वनितम् । कीदृशमिव । व्यक्तानुरागमिव । व्यक्तः प्रकटीभूतोऽनुरागः खेहो यत्र तादृशमिव । अत्र लक्ष्मीर्विषयानुरागाधिक्या- द्दभ्यन्तरे समावेशा भावात्कुङ्कुमरागव्याजेन बहिनिःसृतेति भावः । मुद्रा संजाता अस्येति तारकादित्वादिच् । ‘लक्ष्मी: पद्मालया पद्मा कमला श्रीहरिप्रिया' इत्यमरः । 'स्त्रीस्तना- ब्दौ पयोधरौ' इति च । 'परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम्' इति च । 'काश्मीरं कुङ्कुमं प्रोक्तं टक्कपुष्करमूल्योः' इति विश्वः । अनेन सर्वदा लक्ष्म्या दृढानुरागकथनेन दाक्षिण्यरूपो नायकगुण उक्तः । तदुक्तं शृङ्गारतिलके–'यो गौरवं भयप्रेम सद्भावं पूर्वयोषिति । न मुअत्यन्यचित्तोऽपि शेयोऽसौ दक्षिणो यथा ॥” इति ॥ १० ॥ Google D gilicad by