पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० गीतगोविन्दकाव्यम् भवमोचन ए जय जय देव हरे ॥ ५ ॥ अमलकमलदललोचन त्रिभुवनभवननिंदान जनकसुताकृतभूषण जितदूषण ए समरशमितदशकण्ठ जय जय देव हरे ॥ ६ ॥ अभिनवजलधरसुन्दर धृतमन्दर ए श्रीमुखचन्द्रचकोर जय जय देव हरे ॥ ७ ॥ गत्त्रम् । इति ध्रुवः ॥ अमलेति । आलापः । त्रिभुवनेति । अमलकमलदले इब लोचने यस्य स तथा तस्य संबुद्धिः । अपरं च । हे भवमोचन हे संसारमोचन । अथवा हे मेषरूप (?) शिवत्रातः । इति पदम् । हे त्रिभुवनभवननिदान हे त्रिलोकी- समुत्पत्त्यादिकारण । इति ध्रुवः ॥ ५ ॥ जनकेति । अत्रालापः | समरेति । हे जन- कसुताकृतभूषण जनकसुतायाः कृतं भूषणं येन । जितो दूषणो राक्षसो येन इति पदम् । हे संगरक्षुभितदशकण्ठ संहारितो रावणो येन इति ध्रुवः ॥ ६ ॥ अभिन येति । अत्रालाप: । हे अभिनवजलधरसुन्दर । हे धृतमन्दर । निगदव्या- ख्यानम् । इति पदमूंं । हे श्रीमुखचन्द्रचकोर श्रीमुखं चन्द्र इव तत्र चकोर इव । नाम्नो मुरनाम्नो नरकनाम्म्रो दैत्यस्य विनाशन विनाशकारिन् । अनेनापि सामर्थ्यमुक्तम् । पुनः कीदृश । सुरकुलकेलीनां देवसमूहक्रीडानां निदान आदिकारण। अनेनापि साम- र्थ्यमुक्तम् । 'सुरो देवः' इति विश्वः । 'सजातीये गणे गोत्रे देद्देऽपि भणितं कुलम्” इति च । 'निदानं त्वादिकारणम्' इत्यमरः ॥ ४ ॥ पुनः कीदृश । अमलेति । भवमो- चन | भवो जन्म तस्मात्प्रपन्नान्मोचयतीति तादृश | मोक्षप्रदेत्यर्थः । अतएव भक्ख- ण्डनेत्यनेनापौनरुत्यम् । यतस्तत्र भवपदस्य जगत्परतया प्रलयकारित्वमुक्तम् । अत्र तु भवपदस्य जन्मपरतया मोक्षप्रदत्वमुक्तमेव । अनेन मोक्षप्रदत्वेन परमानन्दरूपो नायक गुण उक्तः । पुनः कीदृश । त्रिभुवनेति । त्रिभुवनमेव भवनं गृहं तदेव निधानं वासस्थानं यस्य तादृश | यद्वा त्रिभुवने निधानमिव महाधनमिव । 'दलं पर्ण छदः पुमान्' इत्यमरः । 'भवनं भाववेश्मनोः' इत्यमरः । 'निधानं त्वालये निधौ' इति विश्वः ॥ ५ ॥ पुनः कीदृश । जनकसुतेति । जनकसुताकृतभूषण जनकसुतायाः सी- तायाः कृतानि भूषणानि मकरिकापत्रादीनि येन तादृश । अनेन सकलकलाकौशल- रूपस्तारुण्यरूपश्च नायकगुण उक्तः । पुनः कीदृश । जितो दूषणनामा राक्षसो येन स तादृश । यद्वा जितानि स्वस्मिन् तिरस्कृतानि दूषणानि दोषा येन तादृशेत्यर्थः । पुनः कीदृश । समरे सङ्ग्रामे शमितो नाशितो दशकण्ठो रावणो येन सः । अनेन पर माभिमानिनो रावणस्य वधेनाभिमानरूपो नायकगुण उक्त: 1 रामावतारपौरुष- वर्णनेन रामक्षमारूपोऽपि नायकगुणः सूचितः । 'अलियां समरानीकरणाः' इत्यमरः ॥ ६ ॥ पुनः कीदृश । अभिनवेति । अभिनवो नूतनो यो जलधरः सजलमेघस्तद्- त्सुन्दरः । अनेनापि भव्यत्वमुक्तम् । पुनः कीदृश | धृतः क्षीराब्धिमन्नावसरे मन्दये १ 'भवननिधान' इति पाठः । Dgilizard by [सर्गः १ Google