पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १] रसिकप्रिया – रसमञ्जर्याख्यटीकाद्वयोपेतम् दिनमणिमण्डलमण्डन भवखण्डन ए मुनिजनमानसइंस जय जय देव हरे ॥ २ ॥ कालियविषधरगञ्जन जनरञ्जन ए यदुकुलनलिनदिनेश जय जय देव हरे ॥ ३ ॥ मधुमुरनरकविनाशन गरुडासन ए सुरकुलकेलिनिदान जय जय देव हरे ॥ ४ ॥ लिता मनोहरा आर्द्रा किन्ना वनमाला पुष्पदाम येन | 'वनमंभसि कानने' इति तज- त्वात्पुष्पाणि कमलमनि वा तेषां माला ॥ १ ॥ दिनमणीति । अत्रालापो बोद्धव्यः । | मुनिजनेति । हे दिनमणिमण्डलमण्डन भानुमण्डलालंकरण । सवितृमण्डलम- ध्यवर्तित्वात् । तस्य संबुद्धिः । हे भवखण्डन संसारच्छेदक । 'नन्दिग्रहि-' इत्यादि- ना ल्युः । ए इति गानपदम् । मुनिजनेत्यादि ध्रुवः । मुनिजनानां मानसानीव मानसानि

तेषु हंस इंव हंसः । अथ मुनीनां मानसे ध्येयत्वाद्धंसः परंब्रह्म । मुनिमानस इति वक्तव्ये । जनग्रहणं लोकपर्यायः । जनो लोक इति पर्यायेत्यभिधाने यावन्तो मुनय इति ॥ २ ॥ कालियेति । अत्रालापः । यदुकुलेति । हे कालियाभिधसर्पदमन । तद्धाति-

त्वाजनरञ्जन | बालेन महाबलेन महाविषधरदमनाज्जनानामाह्लादोऽभूत् । हे यदुकुल
नलिनदिनेश यदुकुलं नलिनमिव तत्प्रकाशकत्वात्सूर्य इव । अत्र पूर्वपूर्वस्योत्तरोत्तरं

प्रति हेतुभाव इति ध्रुवः ॥ ३ ॥ मधुमुरेति । अत्रालापः | सुरेति । मधुमुरनर- कान्विनाशयति यस्तस्य संबोधनम् । हे सुरकुलकेलिनिदान । असुरवधात्तत्कार- श्रीईरिप्रिया' इत्यमरः 1 । 'कुचौ स्तनौ' इति च । 'आपादप्रापिता माला वनमालेति । संविदुः' इति विश्वः । ‘पत्रपुष्पमयी माला वनमाला प्रकीर्तिता' ॥ १ ॥ पुनः कीदृश ॥ दिनमणीति । दिनमणे: सूर्यस्य यन्मण्डलं तस्य मण्डन हारभूत । तथाच ‘ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसंनिविष्टः' इति पुराणोक्तवच- नाव । एतेन स्थिरसखित्वमुक्तम् । पुनः कीदृश । भवं संसार खण्डयतीति भवखण्डनः । प्रलयकर्ता तादृश । अनेन सामर्थ्यरूपो नायकगुण उक्तः । पुनः किंभूत । मुनिजनानां • मानसं चित्तं तदेव मानसं सरोवरविशेषस्तत्र हंसो मरालः । अत्र मुनिजनमानसं स्वच्छत्वाइंसाश्रयत्वेन च साधारणधर्मेण मानससरोवरत्वेन निरूपितम् । भगवतश्च मुनिजनमानसेषु समुचितस्थितिं मत्वा साधारणधर्मेण हंसत्वेन निरूपणम् । 'मानसं सरति स्वान्ते' इति विश्वः ॥ २ ॥ पुनः कीदृश | कालियेति । कालियनाम्नो वि अवधरस्य गजन तिरस्कारक । अनेनातिसामर्थ्यमुक्तम् । पुनः कीदृश | जनरञ्जनेति । जनान्मधुरवचनादिना रञ्जयतीति जनरञ्जन । अनेन शुभवचनत्वं नायकगुण उक्तः । पुनः कीदृश । यदुकुलेति । यदुकुलमेव नलिनं कमलं तस्य दिनेशः सूर्यः । प्रकाशकत्वात् । एतेन कुलीनत्वं नायकेऽप्युक्तम् । 'आशीविषो विषधरश्चक्री व्यालः सरीसृपः इत्य- मरः । 'बा पुंसि पद्मं नलिनम्' इति च ॥ ३ ॥ पुनः कीदृश | मधुमुरेति । मधु-

● । Dgilized by Google