पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• सर्गः १] 1 रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् श्रीजयदेवकवेरिदमुदितमुदारं शृणु शुभदं सुखदं भवसारम् । केशव धृतदशविषरूप जय जगदीश हरे ॥ ११॥ वेदानुद्धरते जगन्निवहते भूगोलमुद्विभ्रते दैत्यान्दारयते बाल छलयते क्षत्रक्षयं कुर्वते । पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः॥ १२॥ म्लेच्छेत्यत्र धीरोद्धतो नायकः । तल्लक्षणमुक्तं प्राक् ॥१०॥ इदानीं दशभिरवतारैः कृत- १ विस्तारभेदेन श्रीकृष्णपरत्वेनोपसंहरनाह । तथा च वक्ष्यति वेदानुद्धरत इत्यादि । केशव धृतदशविरूप जय जगदीश हरे इति ध्रुवे विशेषः । श्रीजयदेवकवे- रिति । हे धृतदशविधरूप, जयदेवकवेर्मम इदं स्त्रोत्ररूपं उदितं भणितं शृणु । मामकीनोऽयं मां स्तौतीति बुद्ध्यावधारय । किंभूतम् । उदारम् । झटिति पदार्था- र्थकम् । पुनश्च भवसारम् । भवे संसारे सारं साररूपम् । अथवा भवोच्छेदकहेतुमध्ये सारम् । मध्यमपदलोपित्वात् । अत एव सुखदम् । सद्यः परनिर्वृतिहेतुत्वात् । अत एव शुभदम् । शिवेतरक्षतिहेतुत्वात् । अत्र शान्तो रसः । पर्यायोतिरलंकारः ॥ ११ ॥ इदानीं दशानामप्यवताराणामभेदं निरूप्य तत्तद्रूपं श्रीकृष्णं प्रणमति —–वेदानुद्धरत इति । हे हरे, तुभ्यं कृष्णाय नमः । वेदानुद्धरत इत्यादि मीनावतारादिपदव्याख्याने- नैव निगदव्याख्यातम् । वृत्तमिदं शार्दूलविक्रीडितम् । दीपकोऽलंकारः । वेदानुद्धरत इत्यत्र पदेषूक्का नायकाः । अत्र प्रलयपयोधीत्यादि एकादशस्खपि पदेषु कीर्तिध वलं नाम छन्दः । तल्लक्षणं यथा- 'अयुजि पदे द्वादशैव युजि तु यस्य हि दश वाष्ट मात्राश्चेत् । परमपि पदयुगमेवं तं कीर्तिधवलमिह धीराः प्राहुः ॥ ध्रुवपदे तु 'बता 1 रालो भीषणोऽन्यवत्' इति च ॥ १० ॥ प्रत्येकावतार पुरस्कारेण भगवतः स्तुतिं कृत्वा • संप्रति समुदितदशावतारपुरस्कारेण श्रीकृष्णं स्तौति – धृतदशविधेति । वृतानि दश- विधानि रूपाणि येन तादृश, त्वं जय संप्रति जयदेवकविः संप्रदायागतत्वेन गीते स्वनाम 1 निबनन् कृर्ता भगवतः स्तुति कृपयान्यानपि श्रावयितुमाइ — श्रीजयदेवेति । इदं जय- = देवकवेरुदितं भाषितं शृणु। किंभूतम् । सुखदं श्रोत्रमनः सुखम् । पुनः कीदृशम् । • शुभदं मङ्गलप्रदम् । कृष्णकीर्तनत्वात् । अत एव भवसारं श्रेष्ठमहाषनरूपं वा । अत ! एवोदारं महत् । 'विधा विधौ प्रकारे च' इत्यमरः । 'उक्तं भाषितमुदितम्' इति च । । 'उदारो दातृमहतो:' इत्यपि । 'कल्याणं मङ्गलं शुभम्' इति च ॥ ११ ॥ अंशावतारं 1 स्तुत्वा संप्रति दशावतारिणं कृष्णं स्तौति –– वेदानिति | कृष्णाय परिपूर्णस्वरूपिणे श्रीकृष्णरूपधारिणे तुभ्यं नमः । ननु मीनाचवतारवानीश्वरस्तस्य स्तुतिः कृता चेदिदानीं बोपा मां किं. स्वौषीत्यत आइ - दशाकृतिकृते इति । मीनादिदशरूपधारिणे तुभ्यं ९ नमः । तथा च ततदवतारवानीश्वरस्त्वमेव न त्वदन्य इत्यर्थः । ननु ईश्वरश्चेदहं तदा- Dgilized by Google