पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१.६ [सर्गः १ गीतगोविन्दकाव्यम् म्लेच्छनिवहनिधने कलयसि करवालं धूमकेतुमिव किमपि करालम् । केशव धृतकल्किशरीर जय जगदीश हरे ॥ १० ॥ स्यैवोपदेतृत्वादिज्यत्वात्तत्फलदातृवाच किमपि प्रयोजनमभिसंधाय तन्निन्दा नाश्चर्यम् ॥ ९ ॥ अथ कल्क्यवतारः । धृतकल्किशरीरेति ध्रुवे विशेषः । म्ले- च्छेति । निन्दसीत्यत्र धीरशान्तो नायकः । तलक्षणम् – 'शान्तो विनीतो धीरश्च धीरशान्तो द्विजो वणिक् ॥ हे हरे, म्लेच्छनिवहनिधने म्लेच्छसमूहवघनिमित्तम् । अपि निश्चये । लं करवालं खतं कलयसि इति वितर्कयामि । किं वितर्के । अन्यथा चक्रादिषु सत्सु कथं खङ्गस्यैव धारणम् । किंभूतं करवालम् । भीषणम् । किमिव । धूमके- तुमिव । म्लेच्छानामुत्पातशंसिनं धूमकेतुं ताराविशेषमिव । अथवा धूमः केतुश्चिहं यस्य स तम् । म्लेच्छकुलविनाशपिशुनमिव । उत्पाते हि वह्निर्धूमशिखो भवति । स तु प्रायेण रत्नमयो भवति । खङ्गतेजो हि नीलभाखरं भवति । अत उभयसाम्येनोपमा । विधानबोधकं वेदसमूहं निन्दसि न तु सर्वमित्यर्थः । सोऽपि किमिति निन्धत मत आइ-दर्शितमिति । अहह कष्टम् । दर्शितो बोधितः पशुनिघातो येन तादृशम् । वेदोऽपि पशूनां घातं बोधयतीत्यहह कष्टमित्येवं निन्दसीति भावः । एतादृशनिन्दायामपि हेतुमाह-सदयहृदयेति । दया कृपा तत्सहितं हृदयं यस्य तादृश । अयं भावः । राग- वशान्निरतहिंसाजनान्दृष्ट्वा 'अभीषोमीयं पशुमालभेत' इत्यादिविधिवाक्यैः स्वर्गादिफल- दर्शन पुरस्कारेण गुडजिडिकया वैदिकमार्गे प्रवर्त्य पश्चान्नश्वरस्वर्गादिफलकं निरपराधि- बहुप्राणिवध साध्ययागादिकं मुक्तिविरोधित्वाच्च तेषामत्यन्तम हितमिति विचार्य परमपुरुषार्थ- मोक्षसाधने निवृत्तिमार्गे तान्प्रवर्तयितुं 'न हिंस्यात्सर्वा भूतानि' इत्यादिना यज्ञादिबोधकने- दस्य निन्दां करोषि नतु सर्वथा वेदनिन्दायामेव तवावतारतात्पर्यम् । अत एव गूढं तवेमं व्यवहारमशात्वा दुरात्मनां वैदिकमार्गे विश्वास इति संमोहनायैव तवैषोऽवतारपरिग्रह इत्यवतारप्रयोजनमुक्तमिति । 'अहल्याद्भुते खेदे' इति विश्व: । 'जातजात्योश्च जन्म' इति विश्वः ॥ ९ ॥ अथ कल्किनोऽवतारं स्तौति घृतकल्किशरीरेति । हे केशव, धृतक- ल्किशरीर धृतं कल्किनः शरीरं येन तादृश, त्वं जय । ननु पूर्वे मम सदयत्वमुक्त कल्क्य - वतारे तु प्राणिवधनिरतस्य मे विरुद्धमित्यत आह - म्लेच्छानिवहेत्यादि । त्वं म्लेच्छनि- वइनिधने म्लेच्छसमूहमारणे करवालं खङ्गं कलयसि धारयसि । कीदृशम् । किमपि कराल - भतिशयेन भयंकरम् । कमिव । धूमकेतुमिव औत्पातिकमाइविशेषमिव । रणे उदितं तत्क- रवालं पश्यतां म्लेच्छानां नाशो भवतीति करवालस्य धूमकेतुसाम्यम् । अन्यस्मिनप्यु- दिते धूमकेतौ औत्पातिकग्रह विशेषे तं पश्यतां प्राणिनां विपदो भवन्तीति भावः । यद्वा धूमः केतुश्चिह्नं यस्य स धूमकेतुर्वहिस्तमिव । अत्रास्य खड्गस्य नीलत्वाद्धूमसाम्यम् । मुष्टेच सुवर्णमयत्वादभिसाम्यम् । म्लेच्छनिधनेत्यत्र 'चर्मणि द्वीपिनं हन्ति' इतिवन्निमि- तात्कर्मसंयोगे सप्तमी । 'समूहे निवडव्यूइसंदोहविसरव्रजाः' इत्यमरः । 'निधनः स्यात्क- बेर्नाशे' इति विश्वः । 'खते तु नित्रिंशचन्द्रहासासिरिष्टयः । कौक्षेयको मण्डलामः कर बाल: कृपाणवत्' इत्यमरः । 'धूमकेतुः स्मृतो वहावृत्पातमहभेदयोः' इति विश्वः । 'क । । Dgilizard bby ★ Google