पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् वहसि वपुषि विशदे वसनं जलदाभं इलहतिभीतिमिलितयमुनाभम् । केशव धृतहलधररूप जय जगदीश हरे ॥ ८ ॥ निन्दसि यज्ञविधेरहह श्रुतिजातं सदयहृदय दर्शितपशुघातम् । केशव धृतबुद्धशरीर जय जगदीश हरे ।। ९ ।। on कत्थनः । धीरोदात्तः स विज्ञेयो रामो दाशरथिर्यथा' ॥ ७ ॥ अथ बलदेवः । भृतह- लघररूप इति ध्रुवे विशेषः । बहसीति । अत्र यद्यपि 'रामो रामश्च कृष्णश्च । इति कृष्णचरितं वर्णनीयं तथापि कृष्णस्यैवैते दशापीति कृष्णस्य नायकत्वेन वर्ण- नीये बलदेवोऽपि दशसु गणितः । तथा चोक्तम् – 'बनजी वनजौ खर्बखिरामी सतपोऽतपः' इति । हे राम, त्वं नीलं वसनं वहसि धत्से । किंलक्षणम् । जलदाभं मेचकम् | व | विशदे शुभ्रे वपुषि । तच्च यमुनयोपमीयते । हलहतिभयेन त्वामेव

सेवितुमागता यमुनेव । तदिवाभातीति तदाभम् । धवलभेचकसंगल्या प्रयाग-

' त्वे तन्मूर्तेः पापहारित्वं कामदत्वं च व्यजितम् । वहसीत्यत्र धीरललितो नायकः । तल्ल- | क्षणम् –'कान्तापरवशो धीरललितो निश्चितो मृदुः' । अथवा शृङ्गारी नायकः । • तल्लक्षणं सङ्गीतराजे रसरत्नकोशे– 'शृङ्गारी नायकस्त्वन्यः पञ्चमः कथ्यते यथा । विलासवाक्कायशीलः सुभगः स्थिरवाग्युवा ॥ गतिः सधैर्या दृष्टिश्च सबिलासस्मितं वचः ॥ ८ ॥ अथ बुद्धावतारः । केशव भृतबुद्धशरीरेति ध्रुवे विशेषः । निन्द- सीति । हे सदयहृदय, लं यज्ञविधेः श्रुतिजातं ऋतुविधानसंबन्धि वेदवाक्यसमूहं निन्दसि । किंभूतम् । दर्शितपशुघातमुपदिष्टगवाश्वादिमारणम् । अहहेत्यद्भुते । परमेश्वर- अथ बलभद्रावतारं स्तौति – धृतहलधरेति । हे केशव, धूर्त हलधरस्य बलमद्रस्य रूपं | येन तादृश, जय । बलभद्रावतारस्य प्रयोजनमाइ-वहसीति । त्वं विशदे शुभे वपुषि देहे जलदाभं सजलमेघस्य दीप्तिमिव नीलं वसनं वस्त्र बइसि धारयति । कीदृशम् । हरुइतीति । इलेन इतिर्हननं तद्भीत्या तद्भयेन मिलिता या यमुना तस्या इवाभा दीप्तिर्यस्य तादृशम् । इयं च मलयानिलवशात्कम्पमानस्य वस्त्रस्य भययुक्तयमुनाया उप्रेक्षागमो गया । भीरूणां हि कम्प उचित एवेति भावः | कदाचिद्वारुणीं पीत्वा वृन्दावने गोपीभिः सह विहरता बलभद्रेण जलक्रीडार्थमाहूतां मत्तप्रलापोऽयमिति मत्वा गर्वेणा- न्तिकमनागच्छन्तीं कालिन्दी रोषतो इलाग्रेण कृष्टवानिति पुरणप्रसिद्धि: । हलधरपदेन दुष्टनिग्रहार्थमेव हलं धृतवानित्यवतारप्रयोजनं ध्वनितम् । 'गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः' इत्यमरः । ‘शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः' इति च । 'वस्त्रमाच्छादनं वासश्चैलं वैसनमंशुकम्’ इति । 'भीतिः साध्वसम्पयोः' इति विश्वः ॥ ८ ॥ अथ बुद्धा वतारं स्तौति - धृतबुद्धेति। धृतं बुद्धस्य शरीरं येन तादृश, जय । ननु बुद्धावतारेण वेद- निन्दकस्य मे कथं स्तुतिः क्रियत इत्यत आह - निन्दुसीति | यशविधेः श्रुतिजातं यज्ञस्य Google Dgilized by