पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ गीतगोविन्दकाव्यम् वितरसि दिक्षु रणे दिक्पतिकमनीयं दशमुखमौलिबलिं रमणीयम् । केशव धृतरामशरीर जय जगदीश हरे ॥ ७ ॥ [सर्गः १ पचारन्यायेन स्नानेन पापहानिः । तथाच दुःखत्रयाभिघातः । उभयमपि क्रियाविशे- षणं वा । रूपयसीति 'ग्लास्खा -' इति मित्लाङ्घ्रस्खत्वम् । रुधिरमये इति विकारे मयट् । खभावोक्तिरलंकारः । अत्र बीभत्सो रसः । प्रलयेत्यादिपदषट्टे धीरोद्धतो नायकः । तलक्षणं सङ्गीतराजे रसरत्नकोशे-'मात्सर्यदर्पभूयिष्ठयहंकारवाञ्छली । चण्डो विकत्थनश्चैष धीरोद्धत उदाहृतः ॥ तद्भुणाः दार्ढ्य, तेजस्विता, दक्षता, धार्मिकत्वं चेति ॥ तल्लक्षणं रसरत्नकोशे यथा—'व्यवसायादचलनं दा विघ्नशतैरपि । अधि- क्षेपाद्यसहनं तेज: प्राणात्ययेष्वपि ॥ दक्षता क्षित्रकारित्वं धार्मिकत्वं तु तत्कृतिः ॥६॥ अथ रामः । धृतरामशरीर इति ध्रुवे विशेषः । वितरसीति । हे राम, त्वं वित- रसि ददासि । दशमुखमौलिबलिं रावणस्य मौलय एव बलि: । मौलिशब्दः शिरोषाची । अथवा मौलिशब्दः किरीटे वर्तते । 'चूडाकिरीटकेशाच संयता मौलयस्त्रयः' इत्यभिधानात् तथापि बलेमंस साध्यत्वान्मौलिशब्देन तात्स्थ्या- च्छिरांसि लक्ष्यन्ते । शिरांसि छेदंछेदं दिक्पतिभ्यो बलिदानं कृतवानित्यर्थः । जगतां रक्षोपलक्षणोपद्रवोपशान्त्यै रक्षःशिरांस्येव बलित्वेनोपहृतवानिति । कुत्र । दिक्षु । किंभूतं बलिम् । दिक्पतिकमनीयमभिलषणीयम् । पुनः किंभूतम् । रावणवधद्वारा लोकाभिरामत्वाद्रमणीयम् । अत्र यावन्तो दिक्पतयस्तावन्त्येव शिरांसीति कम- नीयत्वे हेतुः । अत्रापि वितीर्णवानिति वक्तव्ये तत्कालापेक्षया वर्तमानापदेशो वा । यो वितीर्णवान्स त्वं जय इत्यादिकल्पनीयम् । अत्र जातिरलंकारः । बितरसीत्यत्र धीरोदात्तो नायकः तल्लक्षणं रसरलकोशे–कृपावानतिगम्भीरो विनीतश्चावि- दृशं जगत् । शमितभवतापं शमितो भवस्य संसारस्य तापः संतापो येन सादृशम् । प्रा. णिनां पापसंबन्धादेव संतापस्वतीर्थलानेन तु सर्वे पापं विलयं गतमिति ततः संतापना- सोऽप्यभूदिति । अस्य दर्शनमात्रेण तापो गच्छति, जले मज्जतः संतप्तस्य तापनाश उचित एवेति ध्वनिः । 'रुधिरोऽङ्गारके प्रोक्तो रुधिरं कुङ्कुमासृजोः' इति विश्व: । 'भवः संसार - संतापश्रेयः संकरजन्मस' इति च ॥ ६ ॥ अथ रामावतारं स्तौति – तरघुपतिरूपेति । हे केशव, भृतं रघुपते रामचन्द्रस्य रूपं येन तादृश, त्वं जय श्रीरामावतारपुरुषार्थ- माइ – वितरसीति । रणे संग्रामे दिक्षु हरित्सु दशमुखमौलिबलिं रावणस्य ये मौलयो मस्तकानि समुकुटानि तान्येव बलिमुपहारं वितरसि ददासि । कीदृशम् । दिक्पतिकमनीयं दिशां ये पतय इन्द्रादयस्तेषां कमनीयमभीष्टम् । तत्र हेतुः रमणीयम् । 'किरीटमूर्ध्नि चूडासु मौलिः केशे च संयते । करोपहारयोः पुंसि बलि: प्राण्यजे स्त्रियाम् इत्यमरः ॥ ७ ॥ १ 'धृतरघुपतिरूप' इति पाठः । Dglized by Google