पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् तव करकमलवरे नखमद्भुशुतङ्गं दलितहिरण्यकशिपुतनुभृङ्गम् । केशव धृतनरहरिरूप जय जगदीश हरे ॥ ४ ॥ छलयसि विक्रमणे बलिमद्भुतवामन पदनखनीरजनितजनपावन । केशब धृतवामनरूप जय जगदीश हरे ॥ ५॥ अन्तर्गता कलङ्ककलेव । अनेन दंष्ट्राया महत्त्वं तदपेक्षया धरण्या अतिसूक्ष्मवं योति तम् । अत्रोपमालंकारः । इति तृतीयम् ॥ ३ ॥ अथ नृसिंहः । श्रृतनरहरिरूप इति ध्रुवे विशेषः ॥ तव करेति । तव करकमलवरे नखमद्भुतशिखररूपं भाति । किंलक्ष- णम् । हेतुगर्भविशेषणमाह । दलितहिरण्यकशिपुतनुभृङ्गम् । दलितो विदारितो हिर ण्यकशिपोस्तनुभृङ्गतनुरेव भृङ्गो येन सत्तथा ॥ तनुभृङ्ग इत्यत्र रूपकमलंकारः । कर कमलवर इत्यत्रापि करस्य कमलत्वेन कमलाप्रवारोप: । भृङ्गः किल कमलामं वि दारयति । अत्र कमलामेण भृङ्गविदारणमित्यद्भुतोत्पत्तिः । इति चतुर्थम् ॥ ४ ॥ अथ वामनः । धृतवामनरूप इति ध्रुवे विशेषः ॥ छलयसीति । हे अद्भुतवामन । त्वं बलिं दानवं छलयसि बञ्चयसे । अत्र भूतेऽप्यद्यापि बलिसमीपे वर्तमामत्वात् छलं {सर्गः १ । च्छनलेश इव । अत्र निममापददानेन बालचन्द्रस्य सादृश्यं प्राप्तम् । अतस्तत्रैव कलक- लेशस्यानिमझात्वाद्वालचन्द्रस्य दीर्घतया सादृश्यमपि संगच्छते। अत एव निमझापदवै- यर्थ्यमपि । 'रदना दशना दन्ताः' इत्यमरः । 'अयं शिखरमित्याहुरद्रिशृङ्गे च तन्मतम्' इति धरणिः । 'कला स्यान्मूलके वृद्धौ शिल्पादावंशमात्रके । षोडशांशेऽपि चन्द्रस्य कल- नाकालयोः कला' इति विश्वः ॥ ३ ॥ नृसिंहरूपं स्वौति-धृतनरहरिरूपेति । धृतं नरहरेर्नृसिंहस्य रूपं येन तादृश, जय नृसिंहावतारस्य प्रयोजनमाह -तवेति । तब करकमलबरे । करो इस्तः स एव कमलवरं कमलश्रेष्ठं तत्र नखं तिष्ठति । कीदृशम् ।। अद्भुत शृङ्गं अद्भुतमाश्चर्य शृङ्गमग्रभागो यस्य तत्तादृशम् | अद्भुतत्वमेवाह - दलितेति । दलितो विदारितो हिरण्यकशिपोर्दैत्यस्य देहः स एव भृङ्गो भ्रमरो येन तादृश । अन्यत्र तन्मकरन्दपानादिना भृङ्गाणां तृप्तिर्भवति, अत्र तु नृसिंहकरकमलाग्रभागेन भृत एव विदारित इत्यद्भुतत्वम् । अथवान्यत्र कमलपत्राणि भृङ्गेण विदार्यन्ते । अत्र तु कमलेनैव भृङ्गोविदारित इत्यद्भुतम् । अत्र नृसिंहकरस्य कमलत्वनिरूपणेन हिरण्यकशिपोत्यस्य देह्रस्य भृङ्गत्वनिरूपणेन च बृहतोऽपि हिरण्यकशिपोः कायस्य नृसिंहकराम्बुजापेक्षयाति सूक्ष्मत्वं ध्वनितम् । 'पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम्' इत्यमरः । ‘शृङ्गं प्र- भुत्वे शिखरे चि क्रीडाम्बुपत्रके । विषाणोत्कर्षया शृङ्गः स्यात्कूर्चशीर्षके इति विश्वः । ‘तनुः काये कृशे चाल्ये विरले चाप्यवाच्यवत्' इति च । 'द्विरेफपुष्पलिभृङ्ग षट्पदभ्रमरालयः ॥ ४ ॥ इतो वामनरूपं स्तौति - घृतेति । हे केशव धृतवामनरूप, भृतं वामनस्य खर्वस्य रूपं येन तादृश, जय । वामनावतारप्रयोजनमाह–छरूयसीति । bi Google Digitized by