पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० " [सर्गः १ गीतगोविन्दकाव्यम् अष्टपदी १ मालवरागेण रूपकतालेन गीयते । मलयपयोधिजले धृतवानसि वेदम् विहित वहित्रचरित्रमखेदम् । केशव धृतमीनशरीर जय जगदीश हरे ॥ ध्रुवम् || रं च । श्रुतिधरनामा कविर्विश्रुतो विख्यातः स तु तस्य गुणैरेव प्रसिद्धः । अपरं चर धोयीनामा कविः कविक्ष्मापतिः । कविराज इत्यर्थः । धोयीति तस्य नाम देशरूया- व्युत्पन्नं प्रातिपदिकम् ॥ इति षट् पण्डितास्तस्य राज्ञो लक्ष्मणसेनस्य प्रसिद्धा इति रूढिः । शार्दूलविक्रीडितं छन्दः । समुच्चयोऽलंकारः ॥ ४ ॥ इदानीं केलिं विवर्णयिषुर्नायकस्य वर्णनेन तद्गुणाकर्णन प्रवीणाञ्श्रोतृन्विधातुं तदवान्तरकेलीरपि वर्णयितुं श्रीकृष्णं ना- चकं दशभिरवतारैस्खास्ताः केलीः कुर्वाणमुपश्लोकयति ॥ आदितालेन गीयते । लघ्वा- दिताल: । मालवरागेण- मलयेति । हे हरे । धृतमीनशरीर । केशव । जगदीश | असीति त्वं । अखेदं विहितवहिनचरित्रं यथा स्यात्तथा प्रलयपयोधिजले कल्पान्तसा- गरवारिणि वेदं धृतवान् । अतो जय ॥ अत्र जयशब्देन सर्वोत्कृष्टत्वम् । तेन सर्व- दाऽसाधारण्येन जगत्पाहीति योजना । एवं सर्वत्रासीति तिङन्तप्रतिरूपकं पदं युष्म- दर्थेऽव्ययम् । अखेदं । अनुच । विहितवहिनचरित्रमित्युभयमपि साधारणक्रियाविशे षणम् । तेन पोतचेष्टितमङ्गीकृत्यापि मनागप्यायासं नासवानित्यर्थः । इति प्रथमं प मेव न सत्कवितायां कौशल्यमिति भावः । महाहंकारकथनाय राजोपमा । तथाहंकारादेव स्वस्य कविराजपदवीमानीतवान् | सत्कविमध्ये तु तस्य गणनापि नेति भावः । गिरां वचसां संदर्भशुद्धिं गुणालंकारसंपन्नग्रन्थरचनाविशेषं जयदेव एव जानीते नान्यः । अतो- इन्यकाव्यश्रवणे तथा न संतोषो यथां जयदेवकविताश्रवणेनेत्येतदेव श्रोतव्यमिति भावः । ‘पल्लवः किसलये षिङ्गे विटपे विस्तरे बले' इति विश्वः । 'लघु क्षिप्रमरं द्रुतम्' । ‘उत्तरं प्रतिवाक्ये स्यादूर्ध्वे दिव्ये अमेऽन्यवत् इति च ॥ ४ ॥ भक्तजनमनोरथपूरणाय भगवतः सदावतारपरिग्रह इतीहापि मम मनोऽभिलषिते भगवत्केलिवर्णनरूपे कर्मणि, संभावित- बहुप्रत्यूहनिराकरणं स एव करिष्यतीत्याशयेन भवगतोऽवताराणामसंख्यत्वेऽपि प्रधान- तया दशावतारपुरस्कारेणैव कृष्णस्तुतिं करिष्यतीत्यादौ मीनरूपं स्तौति-प्रकयेति । गीतस्यास्य मालवरागः । रूपकताल: । 'ताललक्षणं रूपके स्यात्' इति संगीतरत्नाकरः । गीतार्थस्तु हे केशव, जय सर्वोत्कर्षेण वर्तस्व । ननु मे सर्वोत्कर्षेण बर्तने कुतः साम- र्थ्यमित्यत आइ - जगदीशेति । जगतां चतुर्दशभुवनानामीशः प्रभुः । तथाच चतुर्द- शभुवननाथस्य कथं न सामर्थ्यमिति भावः । तत्र हेत्वन्तरमाह --हे हरे हरति भ तानां क्लेशमिति हरिस्तादृश | पुनः कीदृश | धृतं परिगृहीतं स्वेच्छया मीनशरीरं येन तादृश। एतद्धुवपदं प्रतिपदमनुवर्तमानम् । सदुक्तम् 'ध्रुवत्वाञ्च ध्रुवो ज्ञेयः' इति अत्र यद्यपि कचितनुसंधारणमात्रमेवानित्यं ततोऽपि तिर्यग्योनिमीनादिशरीरमयं किमिति प्रा. Dilized by - Google