पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् [सर्गः १ यदि हरिस्मरणे सरसं मनो यदि विलासकलासु कुतूहलम् । मधुरकोमलकान्तपदावलीं शृणु तदा जयदेवसरस्वतीम् ॥ ३ ॥ लोक़ातीतचरित्रस्य लोकेशस्य पुरः सदा । स्वजायानर्तनं युक्तमिति युक्ततरं वचः ॥' अत्र चित्तसमनोरभेदारोपापकालंकारः । अनुप्रासश्च ॥ 'उक्ता बसन्ततिलका तभजा जगी गः' ॥ ओजो गुणः । गौडीया रीतिः । भारती वृत्तिः । भूरिगुरुत्वात्सं- भाविता गीतिः ॥ अत्र वसुभिर्दीयत इति तदपत्याभिधानेन प्राप्तपितृधनस्य केलिक- रणमुचितमिति अम्लानप्रतिभाप्रकर्षोत्प्रेक्षितेन वासुदेवपदेन सकलप्रबन्धस्यापि पीयूष वर्षेणेव समुचितार्थविशेषेण प्रबन्धः स्फुरदिय चमत्कारकारितामापद्यते । तथाची- कम्- 'उचितार्थविशेषेण प्रबन्धार्थः प्रकाशते । गुणप्रभावभव्येन विभवेनेव सज्जनः ॥ यथा— 'जातं वंशे भुवनविदिते पुष्करावर्तकानाम्' – इत्यत्राचेतनस्य चेतनाध्यारोपेण मेघस्य दूत्यायोग्यताभिधानाय प्रतिपुष्करावर्तकवंशत्वायुपन्यस्तम् ॥ २ ॥ कविरि- दानीं खप्रबन्धस्य प्रयोजनमाविष्करोति यदीति । हे श्रोतरित्यध्याहार्यम् । तदा तर्हि जयदेवसरखतीं प्रबन्धरूपां वाणीं शृणु। किंलक्षणाम् । मधुरकोमलकान्तपदा- वलीम् । मधुरा कोमला कान्ता पदानामावलिर्यस्यां सा । एतेन माधुर्योज: प्रसादाद्या दशापि गुणा उक्ता भवन्ति । तदेति किम् । यदि हरिस्मरणे मनः सरसं एकाग्रं सरागं वर्तते । अपरं च । यदि विलासकलासु कुतूहलम् । विलासिनां शृङ्गारिणां कलास्तासु । 'विलासो गमनादि: स्याचेष्टा लिया कृता इति । एतेनास्य प्रबन्धस्य प्रयोजनाभिधेयसंबन्धाधिकारिण उक्ता भवन्ति । विलासकलाशिक्षा अवान्तरप्रयोजनम् । हरिस्मरणं परमं प्रयोजनम् । स्मार्यस्मारकलक्षण: सं- श्चरणयोविषयभूतयोश्चारणचक्रवर्ती नटसार्वभौमः | नुत्यादिना सदा लक्ष्म्याराधनपर इ- त्यर्थः । एतेन द्रारिद्र्यराहित्यं सूचितम् । दरिद्रेण हि शृङ्गारादिरसो न शायत इति भावः । 'आलेख्याश्चर्थयोश्चित्रम्' इत्यमरः । 'गृहं गेहोदवसितं वेश्म सभ निकेत- नम्' इति च । 'चारणास्तु कुशीलवाः' इत्यपि ॥ २ ॥ संप्रति प्रेक्षावप्रवृत्त्यर्थमितर- काव्यापेक्षया स्वकाव्यस्योत्कर्ष कथयन्नेव प्रकृतकाव्यस्याधिकारिप्रयोजनमाह - यदीति | दे ण, यदि हरिस्मरणे कृष्णानुचिन्तने मनः सरसं सानुरागम् । यदि विलासकलासु विलासस्त्रीणां हावविशेषस्तत्संबन्धिनीषु कलासु कुतूहलं कौतुकं तदा जयदेवस्य कवेः सरस्वतीं शृणु । कीदृशीम् । मधुरकोमलकान्तपदावलीम् । मधुरत्वं द्विविधं शब्दाश्रितमर्थाश्रितं च । तत्र शब्दमधुरत्वं पृथक्पदत्वं, अर्थमधुरत्वं चोक्तिवै- चित्र्यं तचुक्ता मधुरा । तथा कोमलत्वमपि द्विविधम् । तत्र शब्दकोमलत्वं बन्धस्यापरुष- त्वम् । अर्थकोमलत्वं परुषेऽव्यर्थेऽपरुषत्वं तदुभययुक्ता कोमला। कान्तत्वमपि द्विविधम् । तत्र शब्दगतमुज्ज्वलबन्धविशेषादिना मनःश्रोत्रप्रीतिपदत्वं, अर्थगतं च दीप्तरसवत्त्वं तदु- भययुक्ता कान्ता रमणीया । एतादृशी पदावली पदपरम्परा यत्र तादृशीम् । 'शृङ्गा- रादौ रसे वीर्ये गुणे रागे द्रवे रसः' इत्यमरः । बिलासलक्षणं दशरूपके- 'तत्कालिको विशेषस्तु विलासोऽङ्गक्रियास्विति' | 'कलाचन्द्रकलायां स्यात्क्रीडनात्' इति कोषः । श- ब्दमाधुर्यादिलक्षणानि तु वामनेन लिखितानि 'बन्धे पृथक्पदत्यं च माधुर्यमुदितं बुधैः । ★ Google Dgilized by