सामग्री पर जाएँ

पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/३२

विकिस्रोतः तः
अस्य पुटस्य पुटपरिशीलनं न आवश्यकम् ।
सर्गः १]
रसिकप्रिया - रसमञ्जर्याख्यटीकाद्वयोपेतम्

श्रीवासुदेवरतिकेलिकथासमेत-
  मेतं करोति जयदेवकविः प्रबन्धम्


स्sपि --'किं स्यात्परत्रेत्याशङ्का यस्मिन्कार्ये न जायते । न चार्थघ्नं सुखं चेति शिक्षास्तस्मिन्व्यवस्थिताः' ॥ इति । परस्त्रीगतोऽप्ययं रस उपनिबध्यमानो न पातकाय । यतः--'कान्तासंमिततया' इत्युपदेशप्रामाण्यात् । यथा— एवं श्रीवासुदेवरतिकेलिकथासमेतम् । श्रीश्च वासुदेवश्च तौ । तयो रतिकेलिकथासमेतम् । अत्र स्त्रीनामलाञ्छितं सर्वे श्रीरिति । श्रीशब्देन राधाभिधीयते । अथवा श्रीः शोभा लक्ष्मीर्वा तद्वतो वासुदेवस्य । तदसूचि पूर्वपद्ये माधवशब्देन । रतिकेलीति । सुरतक्रीडाकथनेन वा रत्या शृङ्गारस्थायीभावेनानुरागेण याः केलयः कथाः परस्परसंकथनानि तत्समेतम् । • अथ कविरात्मनो विशेषणद्वारेण सरस्वतीचरणकिंकरत्वं अनु व प्रबन्धस्य पद्मावतीदेवतासमाराधनफलत्वमाह--वाग्देवतेति । वाग्देवताचरितेन चित्रितं संजातचित्रं चित्तसद्म यस्य स तथा । सरस्वत्यनुस्मरणपरहृदय इत्यर्थः । अपरं च । लक्ष्मीचरणसेवकाप्रणीः । पद्मं करेऽस्ति यस्याः सा पद्मावती लक्ष्मीः । 'शरादीनां च' इति दीर्घः । अथ पद्मावती अष्टाक्षरमश्राधिदैवतं तस्याश्चरणचारणेन परिचर्याविशेषेण चक्रवर्ती । कविराज इत्यर्थः । 'पद्मावती तस्य कलत्रमेके वदन्ति यत्तन्न विचारचारु । यतः सदाचारपरम्परैषा गृह्णन्ति तन्नाम न नाम सन्तः ॥ कर्मादि संद्दैवतसंप्रयोगे तत्कीर्तनं किं न विशेषगर्हम् । रहो विहाय क्वचनापि दृष्टं सतां स्वकान्ताप्रणयादिकं तु ॥' अतस्तद्याख्योपेक्षा । एवं यद्यप्यस्ति तत्त्वं तथापि महतामिहालौकिकचमत्कारिचरितं किंचिदीक्ष्यते-- 'तथाहि सत्यभामाग्रे ननर्त नरकान्तकृत् । देहार्थे च बभारेमामीशो

योगिवरोऽपि सन् ॥ अथवा भक्तियोगस्य स्वभावः कोऽप्यनीदृशः । यतस्तद्योग- युक्ता हि गणयन्ति न लौकिकम् ॥ अथात्मा जायते यस्यां सा जायेति श्रुतीरणात् । तत्स्वरूपपरस्वत्वात्सा भक्तिर्या तया सह ॥ तथाहि धर्मकार्याणि न सन्त्यत्र तया विना । सर्वेषु धर्मकार्येषु पत्न्युक्ता दक्षिणाङ्गगा ॥ किं तु सा भक्तिरत्रोक्ता योपचारेण वर्जिता । तां विनाऽतोऽनुरज्यन्ति सन्तः स्वेनेष्टदैवते ॥ शृङ्गारित्वादथस्वीयां जायां नर्तयतीह सः । परार्थनिष्ठबुद्धीनां न हि लोकव्यतिक्रमः ॥ लोको वेदस्तथाध्यात्मं प्रमाणं त्रिविधं स्मृतम् । तत्र लोकस्य मुख्यत्वात्तदुक्तिर्नान्यथा भवेत् ॥ अतः पद्मावती तस्य कलत्रमिति नान्यथा । परभागवतस्यास्य जयदेवस्य युज्यते ॥


तीति ध्वनिः । तथाच यद्यपि कृष्णकेलिवर्णनमन्यत्रापि ग्रन्थे वर्तते तथापि पूर्वैर्वर्णितमपिलोकोतरापूर्व- सत्काव्यरचनानिबद्धमतिचमत्कारकारि भविष्यति । यथा पुरुषैरभिधीयमान एवार्थोऽन्येषां वाङ्मनोवचनमङ्गिमारूढोऽन्यमेव श्रोत्रचमत्कार करोतीति नानर्थको मे प्रयास इति भावः । पुनः कीदृशः कविः । पद्मावती नाम जयदेवपत्नी तस्याश्चरणयोर्यचारणं संचारणम् । नर्तनमिति यावत् । तेन चक्रवर्ती । नटसार्वभौम इत्यर्थः । एतेन कवेः कृष्णभक्त्याधिक्यं शृङ्गारित्वं च ध्वनितम् ।

तेन सरसकाव्यकरणेऽधिकारः सूचितः तदुक्तम्— 'शृङ्गारी चेत्कविः काव्यं जातं रसमयं जगत् । स एवाशृङ्गारी यत्र सर्वे विरसतां व्रजेत् ॥' इति । केचित्तु पद्मा इति संज्ञां विधत्ते सा इति । पद्मावती लक्ष्मीस्तस्या-