सामग्री पर जाएँ

पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[सर्गः १
गीतगोविन्दकाव्यम्

वाग्देवताचरितचित्रितचिचसद्मा
  पद्मावतीचरणचारणचक्रवर्ती

नाशङ्कनीयम् । यतोऽत्र शृङ्गारस्य प्राधान्यादलंकारत्वं येनालंकारता । यदाह - 'प्रधाने यत्र वाक्यार्थे यत्रायान्ति रसादयः । काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः' ॥ प्रकृते तु शृङ्गारस्य प्राधान्यमपि प्रतिपन्नम् । अत्र वैदर्भीरीतिः ---'अस्पृष्टदोषमात्राभिरनल्पगुणगुम्फिता । विपञ्चीस्वरसौभाग्या वैदर्भीरितिरिष्यते ॥ शृङ्गारावस्थानसूचिका कौशिकीवृत्तिः । संभाविता गीतिः । तस्याश्च लक्षणम्- 'संभाविता भूरिगुरुर्द्विकलावार्तिके पथि । मध्यो लयः । प्रसादो गुणः । अनुकूलो नायकः । स्वाधीनपतिका नायिका | पूर्वार्धेऽभिलाषलक्षणो विप्रलम्भः । अपरार्धे संभोगश्च शृङ्गारः । एवं केलय इति कथाबीजलक्षणं वस्त्वपि निर्दिष्टं भवति ॥ एवं च त्रिविधमपि काव्यमुखं महाकविना समुन्मीलितं भवति ॥ यदत्र कश्चित्संभोगश्टङ्गारलक्षणं वस्त्ववदत् स एव चास्य विवेचनक्षमः ॥ शार्दूलविक्रीडितं छन्दः । यथा -- 'सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् ॥ १ ॥ कविरिदानीं सकलकलिकलुषहारि- हरिचरितानुस्मरणसरसतापादनेन तद्भक्ताननुगृह्णन्समुचितेष्टदेवताभावनाभावितान्तः- करणस्तत्फलभूतं शृङ्गारोत्तरं प्रबन्धं कर्तुं प्रतिजानीते - वाग्देवतेति । जयदेवकविरेतं गीतगोविन्दाभिधं प्रबन्धं करोति । अत्र जगदानन्दकन्दलीकन्दगोविन्दपदारविन्दमकरन्दामोदमधुरतरास्वादमधुकरमधुरचेता भागवतप्रधानः परमकारुणिको जयदेवकविर्देवदेवे भगवत्याविष्टचित्तः कलिकलुषान्तःकरणत्वेनेतस्ततः परिविक्षिप्तान् सुखेन तदभिमुखीकरणाय कलावतीकेलिकुतूहलिनं हलिसोदरं निरूपयितुं निर्गुणं निरुरूपयिषुः ‘निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः । ये मन्दास्तेऽनुकम्प्यन्ते सविशेष- निरूपणैः ॥' इति दर्शयितुं धर्मार्थकामाः स्वनुष्ठिता मोक्षायेति मोक्षोपायतया धर्मार्थयोरुपरि वर्तमानस्य पुरुषार्थविशेषस्य निदानत्वेन पितॄणामानृण्यहेतुभूतापत्योत्पत्तिद्वारेण नितम्बिनीमूलत्वमुपदर्शयितुं तद्विशिष्टं वासुदेवं विवर्णयिषुरिमं प्रबन्धमुनिबध्नाति । तथा चोक्तमभियुक्तैः – 'संसारे यदुदेति किञ्चन फलं तत्कृच्छ्रसाध्यं नृणां किं त्वेतत्सुखसाध्यमस्ति युगलं सम्यग्यदि ज्ञायते । तल्लक्ष्मीसमुपार्जनं पुलकिनां रक्तखरं गायतां तत्कान्तारतिनिस्तरङ्गमनसामुत्पद्यते नन्दनः ॥' इति। कामशा-


लजनमनोहरं शृङ्गाररसगर्भे भगवत्केलिवर्णनरूपं काव्यं क्रियत इत्यभिधेयं प्रतिजानीते वाग्देवतेति । जयदेवकविरेतं गीतगोविन्दाख्यं प्रबन्धं करोति । कीदृशम् । श्रीलक्ष्मी राधारूपेणावतीर्णा, वासुदेवः कृष्णस्तयो रतिकेलिकथया सुरतक्रीडानुवर्णनेन समेतं युक्तम् । ननु वासुदेवकेलिवर्णनं बहुषु ग्रन्थेषु वर्तत इति किमनेनेत्यत आह--वाग्देवतेति । वाक्स्वरूपा या देवता सरस्वती तस्याश्चरितेन प्रसादमाधुर्यादिगुणसंपन्नलोकोत्तरकाव्यरचनारूपेण चित्रितं चित्रमालेख्यं तद्युक्तं कृतं चित्तरूपं सद्म गृहं यस्य सः । अत्र सकल- जनाह्लादकारित्वेन नानावर्णमयत्वेन वाग्देवताचरितस्य चित्रत्वेन निरूपणम् । चित्तं च विचित्रकवितारूपमहाधननिधानत्वने कृष्णकेलिवर्णनादिना संसारतापसंतप्तकविजनविश्रामस्थानत्वेन सद्मतया निरूपितम् । अपरमपि गृहं विविधपुत्रिकाभिरालेख्यैर्मण्डितं भव-