नकनिमित्तता । मेघाडम्बरतादेस्तन्महव्याख्यानकौशलम्।। अन्यहेतुभिरन्यस्थोत्पत्ति- श्चेदृश्यते तदा । विस्मयस्थायिभावत्वादद्भुतोपस्थितिर्न किम् ॥ धात्रीयोगान्न शृङ्गारो न हास्यो रहसीङ्गितैः । न भयानकता तस्माद्रसः कोऽत्रावतिष्ठताम् ॥ तस्मादत्र विभावानुभावसंचारिभिर्भवेत् । शृङ्गारो नन्दसामीप्यात्तयोश्चलितयोः स्वतः ॥ यथा द्रव्याणि नानात्वं भावान्तरविभावतः । व्रजन्ति नानारसतां तथा भावास्त एव हि ॥ एवं मेघादयोऽपि स्युः शृङ्गारे च भयानके । विभावाद्यवियुक्तेन भावकेन विभाविताः "॥ तस्मात्काव्याभिप्रायसूचित शृङ्गारपरत्वेनात्र कृतं व्याख्यानमेव न्याय्यमिति । अत्र मेघैरिति बहुवचनेनाक्रममेव नवभिरप्यवस्थाभिराक्रमणाच्चेतसोऽन्यथावृत्तिः सूचिता । अम्बरमिति खच्छन्दविहारभङ्गशङ्कां मा कृथा इति । वनभुव इति बहुवचनेन नानावस्थरतक्षमं प्रदेशबाहुल्यं द्योतितम् । नक्तमिति कालस्य स्वच्छन्दप्रच्छन्नकामुकयोग्यत्वमुक्तम् । माधवशब्दः सत्यामपि लक्ष्म्यां तस्यामनुरागातिशयद्योतनार्थः । यमुनाकूल इति रतिश्रमनिराससाधनशिशिरसमीरसद्भावार्थम् । अयमिति रत्युद्रेकाकुलतया स्वाङ्गेष्वप्यौदासीन्यद्योतनाय । यथा श्रीहर्षमिश्रस्य[१] हंसेन स्वात्मनि निराशीभूतेन – 'गतिस्तयोरेकतरस्तमर्दयन्' इत्याद्यभाणि । यथा वा श्रीकालिदासस्य ईश्वरेण तयावगणिते आत्मन्यनास्थापरत्वेन ---'अयं जनः प्रष्टुमनास्तपोधन' इत्याद्यवादि । अत्र वर्णवृत्त्यनुप्रासः शब्दालंकारः । पूर्वार्धे समुच्चयोऽर्थालंकारः । तल्लक्षणं तु–-'तत्सिद्धिहेतावेक- स्मिन्यत्रान्यत्तत्करं भवेत् । समुच्चयोऽसौ' । यथा--'दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे इत्यादि । उत्तरार्धे चाशीः । तद्योजनं च--सर्वोत्कृष्टास्ताः केलयो विलासकलासु कुतूहलिनः पान्तु । अत्र शब्दार्थालंकारयोरर्थालंकारयोश्च संसृष्टि:--'सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः' इति । अत्रायमित्यात्मन्यौदासीन्यद्योतकं सर्वनामपदं तिलकायमानं बिभ्राणा सूक्तिः समुचितपरभागातिशयेन रुचिरतामावहन्ती शरदिन्दुसुन्दरवदनेव श्यामतिलकेन श्यामेव शुभविशेषकेण विभूषिता अर्थौचित्यचमत्कारकारिणी सकलकविकुलललामभूता कामपि विच्छित्तिमातनोति । यथा--'मग्नानि द्विषतां कुलानि समरे त्वत्खङ्गधाराजले नाथास्मिन्निति बन्दिवाचि बहुशो देव श्रुतायां पुरा । मुग्धा गुर्जरभूमिपालमहिषी प्रत्याशया पाथसः कान्तारे चकिता विमुञ्चति मुहुः पत्युः कृपाणे दृशौ ॥' अत्र मुग्धापदं कैश्चित्काव्यलिङ्गमित्यलंकारोऽभाणि । तत्र । तल्लक्षणाभावात् ॥ लक्षणं तु-- 'ंंंकाव्यलिङ्गं हेतोर्वाक्यपदार्थता' इति । नात्र 'वपुःप्रादुर्भावात्—' इतिवद्धेतोर्वाक्यार्थता । नापि 'प्रणयसलीलपरिहासरसाधिगतेः' इतिवदने- कपदार्थता । नापि ‘भस्मोद्धूलन भद्रमस्तु भवते' इतिबद्धेतोरेकपदार्थता । तस्य गतिं त एव प्रष्टव्याः । एवमिह सुनिपुणमपि निरूप्यमाणोऽलंकृतिगुणो न विद्वच्चित्तचमत्कृतिमातनोति ॥ तर्हि काव्यचारुतानिबन्धनशृङ्गाररसस्वीकारेण रसवदलंकारता इत्यपि
ससि' इत्यमर: । 'दोषा नक्तं रात्रौ इति च । ' त्रस्तो भीरुभीरुकभीलुका:' इत्यपि । 'निंदेशः शासनं च सः' इति च । 'निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे ' इति च । रहश्चोपांशु चालिङ्गे एकान्तार्थेऽव्ययम् ॥ १ ॥ अत्र रागिमुमुक्षुसाधारणप्रवृत्त्यर्थं सक-
- ↑ १ नैषधे