सामग्री पर जाएँ

पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[सर्गः १
गीतगोविन्दकाव्यम्

मर्थः । तानेव भावानाह - अम्बरमाकाशं मेघैर्मेदुरं सान्द्रस्निग्धं वर्तते । अपरं च । तमालद्रुमैः श्यामा वनभुवो वर्तन्ते । अपरं च । नक्तं रात्रिकालः । एवं देशकालव- स्तुलक्षणा विभावाः सूचिताः । किमुक्तं भवति । अत्र काव्ये शृङ्गाररसप्राधान्यात्तस्य मेघाद्यास्त्रयोऽप्युद्दीपनभावा उक्ता भवन्ति । राधाद्या आलम्बनविभावाः । भीरुरित्य- स्यानुभावः । हर्षावेगशङ्कौत्सुक्यव्रीडाचपलतादयो व्यभिचारिणः । इत्थं कार्यकारणसह- कारिभी रतिस्थायिभावः सकलरससम्राट् सप्रपञ्चः संभोगाख्योऽभिलाषविरहेर्ष्यासूयालक्षणो विप्रलम्भः शृङ्गारः साङ्गोपाङ्गः समुन्मीलितो भवति । तदुक्तम्-'कारणान्यथ कार्याणि सहकारीणि यानि तु । रत्यादेः स्थायिनो लोके तानि चेन्नाव्यकाव्ययोः ॥ विभावा अनुभावाश्च कथ्यन्ते व्यभिचारिणः । व्यक्तः स तैर्विभावाद्यै स्थायीभावो रसः स्मृतः []॥ तथा चाभाणि भरतेन -'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः--' इति । एवमेतेन पथा श्रीजयदेवेन कविना रसमुख्ये स्थिरीकृते तदाशयमबुध्वा कैश्चिव्याख्यातं तत्तावन्न विचक्षणपरीक्षाक्षममीक्षामहे । तथाहि । इत्यं नन्दनि- देशतो नन्दादेशाच्चलितयोः केलयो जयन्ति । इत्थमिति किम् । राधा काचन गोपिका । तस्या नन्देन संबोधनम् । हे राधे, इमं मम शिशुं रात्रौ भीरुं त्वमेव गृहं प्रापय त्वय्येव मम विश्वास इति । तदा नायकस्य शिशुत्वेन परवशत्वं, तस्याश्च धात्रीत्वं,नन्दस्य दूतीकर्म, शृङ्गारविभावानां भयानकहेतुत्वं, कविनिरूपितरसस्यान्यथात्वं चापद्यते । तत्र तेषामायुष्मतां क उपालम्भः । यतः 'निर्देशो भाषणादेशसामीप्यार्थमजानतः । आदेश एव विश्रान्तमतेर्व्याख्या भवेन्न किम् ॥ लोके किं कूपमण्डूकः समुद्रमपि तत्समम्। न वेद वेदवादोऽयमिति श्रुतिभिया किल ॥' अथैवं नन्दादेशादनु तथा प्राम्यतायां श्रृङ्गार विनाशितो भवति । यथाह -'अथ शृङ्गारपरता सुतरां सा तिरस्कृता । यतः कुलवधूवत्सा चमत्काराय संवृता ॥ श्वशुरे वदति प्रायः सूनो रतमनु स्नुषाम् । सा नाम ग्राम्यतापीष्टा सापि नेष्टा विपश्चितः । प्रयुक्तं कविना द्वित्वं तदाशयमजानतः(ता) । नन्दनिर्देशहारिण्यास्तस्या एकत्वमिष्यते । नायकत्वं यदान्नातं हरेः काव्यकृताकृता । तस्यां तस्मिन्विनिक्षिप्ते गतिः का नाम तस्य ते ॥ यो गीतगोविन्द इति प्रबन्धो गोविन्दनेतारमनु प्रबद्धः । राधावशे तत्र कृतेऽर्भकत्वात्स गीतराधः कथमत्र न स्यात् ॥ प्रामाण्यं सुधियोऽवदन्कविगिरां धर्मोपदेशे बुधा यत्तन्नो भवितुं मुधार्हति गुरोराज्ञा विचार्या न यत् । तत्रेदं तु विचारणीयमिह यो यस्याः करो दीयते रक्षायै स च कामयेत यदि तां तत्किंचिदद्यावधिम् ॥ शृङ्गारोपक्रमे चात्र भया-


काननभूमयस्तमालद्रुमैस्तमालवृक्षैः श्यामाः । कुत्र जयन्तीत्यत आह--प्रत्यध्येति । यमुनाया: कूले प्रत्यध्वकुञ्जद्रुमम् । अध्वन्यध कुञ्जे कुञ्जे द्रुमे द्रुम इत्यर्थः । यद्वाऽध्वनः कुञ्जान् द्रुमांल्लक्षीकृत्येत्यर्थः । न च नक्तं भीरुरयं त्वमेव तदिममित्यत्र 'द्वितीयाटौस्स्वेन:' इति सूत्रेणैनादेशः कथं न भवतीति वाच्यम् ।अन्वादेशविषयत्वाभावात् । किंचित्कार्ये विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः । किंचित्कार्ये विधातुमिति । अपूर्वे बोधवितुमित्यर्थः । भीरुत्वस्य अनु वाक्यत्वेन विवक्षितत्वात् । 'अम्बरं व्योम्नि वा-


४ उल्लासे.

  1. काव्यप्रकाशे